मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८७

3
अवन्तीखण्डः · रेवाखण्डः · 187

कालाग्निरुद्रतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

जालेश्वरं ततो गच्छेल्लिङ्गमाद्यं स्वयम्भुवः ।

कालाग्निरुद्रं विख्यातं भृगुकच्छे व्यवस्थितम्

॥१॥

सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ।

क्षेत्रपापविनाशाय कृपया च समुत्थितम्

॥२॥

पुरा कल्पेऽसुरगणैराक्रान्ते भुवनत्रये ।

वेदोक्तकर्मनाशे च धर्मे च विलयं गते

॥३॥

देवर्षिमुनिसिद्धेषु विश्वासपरमेषु च ।

कालाग्निरुद्रादुत्पन्नो धूमः कालोद्भवोद्भवः

॥४॥

धूमात्समुत्थितं लिङ्गं भित्त्वा पातालसप्तकम् ।

अवटं दक्षिणे कृत्वा लिङ्गं तत्रैव तिष्ठति

॥५॥

तत्र तीर्थे नृपश्रेष्ठ कुण्डं ज्वालासमुद्भवम् ।

यत्र सा पतिता ज्वाला शिवस्य दहतः पुरम्

॥६॥

तत्रावटं समुद्भूतं धूमावर्तस्ततोऽभवत् ।

तस्मिन्कुण्डे तु यः स्नानं कृत्वा वै नर्मदाजले

॥७॥

कुर्याच्छ्राद्धं पितृभ्यो वै पूजयेच्च त्रिलोचनम् ।

कालाग्निरुद्रनामानि स गच्छेत्परमां गतिम्

॥८॥

यत्किंचित्कामिकं कर्म ह्याभिचारिकमेव वा ।

रिपुसंक्षयकृद्वापि सांतानिकमथापि वा ।

अत्र तीर्थे कृतं सर्वमचिरात्सिध्यते नृप

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कालाग्निरुद्रतीर्थमाहात्म्यवर्णनं नाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥