मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९९

3
अवन्तीखण्डः · रेवाखण्डः · 199

कामिकं सर्वतीर्थानां प्राणिनां सिद्धिदायकम्

श्रीमार्कण्डेय उवाच

तस्यैवानन्तरं राजन्नाश्विनं तीर्थमुत्तमम् ।

कामिकं सर्वतीर्थानां प्राणिनां सिद्धिदायकम्

॥१॥

तत्र तीर्थेऽश्विनौ देवौ सुरूपौ भिषजां वरौ ।

तपः कृत्वा सुविपुलं संजातौ यज्ञभागिनौ

॥२॥

संमतौ सर्वदेवानामादित्यतनयावुभौ ।

नासत्यौ सत्त्वसंपन्नौ सर्वदुःखघ्नसत्तमौ

॥३॥

युधिष्ठिर उवाच

आदित्यस्य सुतौ तात नासत्यौ येन हेतुना ।

संजातौ श्रोतुमिच्छामि निर्णयं परमं द्विज

॥४॥

मार्कण्डेय उवाच

पुराणे भास्करे तात एतद्विस्तरतो मया ।

संश्रुतं देवदेवस्य मार्तण्डस्य महात्मनः

॥५॥

तत्ते संक्षेपतः सर्वं भक्तियुक्तस्य भारत ।

कथयामि न सन्देहो वृद्धभावेन कर्शितः

॥६॥

अतितेजोरवेर्दृष्ट्वा राज्ञी देवी नरोत्तम ।

चचार मेरुकान्तारे वडवा तप उल्बणम्

॥७॥

ततः कतिपयाहस्य कालस्य भगवान्रविः ।

दृष्ट्वा तु रूपमुत्सृज्य परमं तेज उज्ज्वलम्

॥८॥

मनोभववशीभूतो हयो भूत्वा लघुक्रमः ।

विस्फुरन्ती यथाप्राणं धावमाना इतस्ततः

॥९॥

हेषमाणः स्वरेणासौ मैथुनायोपचक्रमे ।

सम्मुखी तु ततो देवी निवृत्ता लघुविक्रमा

॥१०॥

यथा तथा नासिकायां प्रविष्टं बीजमुत्तमम् ।

ततो नासागते बीजे संजातो गर्भ उत्तमः

॥११॥

जातौ यतः सुतौ पार्थ नासत्यौ विश्रुतौ ततः ।

सुसमौ सुविभक्ताङ्गौ बिम्बाद्बिम्बमिवोद्यतौ

॥१२॥

अधिकौ सर्वदेवानां रूपैश्चर्यसमन्वितौ ।

नर्मदातटमाश्रित्य भृगुकच्छे गतावुभौ ।

परां सिद्धिमनुप्राप्तौ तपः कृत्वा सुदुश्चरम्

॥१३॥

तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।

सुरूपः सुभगः पार्थ जायते यत्र तत्र च

॥१४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आश्विनतीर्थमाहात्म्यवर्णनं नामैकोनद्विशततमोऽध्यायः ॥