मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३७

3
अवन्तीखण्डः · रेवाखण्डः · 37

देवतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत राजेन्द्र देवतीर्थमनुत्तमम् ।

येन देवास्त्रयस्त्रिंशत्स्नात्वा सिद्धिं परां गताः

॥१॥

युधिष्ठिर उवाच

कथं तात सुराः सर्वे दानवैर्बलवत्तरैः ।

निर्जितास्तत्र तीर्थे च स्नात्वा सिद्धिं परां गताः

॥२॥

मार्कण्डेय उवाच

पुरा दैत्यगणैरुग्रैर्युद्धेऽतिबलवत्तरैः ।

इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो नृप

॥३॥

हस्त्यश्वरथयानौघैर्मर्दयित्वा वरूथिनीम् ।

विध्वस्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः

॥४॥

जम्भशुम्भैश्च कूष्माण्डकुहकादिभिः ।

वेपमानार्दिताः सर्वे ब्रह्माणमुपतस्थिरे

॥५॥

प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम् ।

तदा विज्ञापयामासुर्देवा वह्निपुरोगमाः

॥६॥

पश्य पश्य महाभाग दानवैः शकलीकृताः ।

वियोजिताः पुत्रदारैस्त्वामेव शरणं गताः

॥७॥

परित्रायस्व देवेश सर्वलोकपितामह ।

नान्या गतिः सुरेशान त्वां मुक्त्वा परमेश्वर

॥८॥

ब्रह्मोवाच

दानवानां विघातार्थं नर्मदातटमास्थिताः ।

तपः कुरुध्वं स्वस्थाः स्थ तपो हि परमं बलम्

॥९॥

नान्योपायो न वै मन्त्रो विद्यते न च मे क्रिया ।

विना रेवाजलं पुण्यं सर्वपापक्षयंकरम्

॥१०॥

दारिद्र्यव्याधिमरणबन्धनव्यसनानि च ।

एतानि चैव पापस्य फलानीति मतिर्मम

॥११॥

एवं ज्ञात्वा ततश्चैव तपः कुरुत दुष्करम् ।

तथा चैव सुराः सर्वे देवा ह्यग्निपुरोगमाः

॥१२॥

तच्छ्रुत्वा वचनं तथ्यं ब्रह्मणः परमेष्ठिनः ।

नर्मदामागताः सर्वे देवा ह्यग्निपुरोगमाः

॥१३॥

चेरुर्वै तत्र विपुलं तपः सिद्धिमवाप्नुवन् ।

तदाप्रभृति तत्तीर्थं देवतीर्थमनुत्तमम्

॥१४॥

गीयते त्रिषु लोकेषु सर्वपापक्षयंकरम् ।

तत्र गत्वा च यो मर्त्यो विधिना संयतेन्द्रियः

॥१५॥

स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम् ।

यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप

॥१६॥

स लभेन्मुख्यविप्राणां फलं साहस्रिकं नृप ।

तत्र देवशिला रम्या महापुण्यविवर्धिनी

॥१७॥

संन्यासेन मृता ये तु तेषां स्यादक्षया गतिः ।

अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप

॥१८॥

रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम् ।

एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम्

॥१९॥

सुकृतं दुष्कृतं वाऽपि तत्र तीर्थेऽक्षयं भवेत् ।

एष ते विधिरुद्दिष्ट उत्पत्तिश्चैव भारत

॥२०॥

देवतीर्थस्य निखिला यथा वै शङ्कराच्छ्रुता ।

पठन्ति ये पापहरं सर्वदुःखविमोचनम्

॥२१॥

देवतीर्थस्य चरितं देवलोकं व्रजन्ति ते

॥२२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥