श्रीमार्कण्डेय उवाच - एवं ते कथितं राजन्पुराणं धर्मसंहितम्
श्रीमार्कण्डेय उवाच
एवं ते कथितं राजन्पुराणं धर्मसंहितम् ।
शिवप्रीत्या यथा प्रोक्तं वायुना देवसंसदि
॥१॥षष्टितीर्थसहस्राणि षष्टिकोटिस्तथैव च ।
आदिमध्यावसानेषु नर्मदायां पदे पदे
॥२॥मया द्वादशसाहस्री संहिता या श्रुता पुरा ।
देवदेवस्य गदतः साम्प्रतं कथिता तव
॥३॥पृष्टस्त्वयाहं भूपाल पर्वतेऽमरकण्टके ।
स्थितः संक्षेपतः सर्वं मया तत्कथितं तव
॥४॥नर्मदाचरितं पुण्यं शृणु तस्यास्ति यत्फलम् ।
यत्फलं सर्ववेदैः स्यात्सषडङ्गपदक्रमैः
॥५॥पठितैश्च श्रुतैर्वापि तस्माद्बहुतरं भवेत् ।
सत्रयाजी फलं यत्र लभते द्वादशाब्दिकम्
॥६॥चरिते तु श्रुते देव्या लभते तादृशं फलम् ।
सर्वतीर्थेषु यत्पुण्यं स्नात्वा सागरमादितः
॥७॥सकृत्स्नात्वा तथा श्रुत्वा नर्मदायां फलं हि तत् ।
आदिमध्यावसानेन नर्मदाचरितं शुभम्
॥८॥यः शृणोति नरो भक्त्या तस्य पुण्यफलं शृणु ।
स प्राप्य शिवसंस्थानं रुद्रकन्यासमावृतः
॥९॥रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ।
एतद्धर्ममुपाख्यानं सर्वशास्त्रेषु सत्तमम्
॥१०॥देशे वा मण्डले वापि वा ग्रामे नगरेऽपि वा ।
गृहे वा तिष्ठते यस्य चातुर्वर्ण्यस्य भारत
॥११॥स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः ।
त्रिविधं कारणं लोके धर्मपन्थानमुत्तमम्
॥१२॥देवतानां गुरुं शास्त्रं परमं सिद्धिकारणम् ।
श्रुत्वेश्वरमुखात्पार्थ मयापि तव कीर्तितम्
॥१३॥दक्षिणे चोत्तरे कूले यानि तीर्थानि कानिचित् ।
प्रधानतः सुपुण्यानि कथितानि विशेषतः
॥१४॥स्पर्शनाद्दर्शनात्तेषां कीर्तनाच्छ्रवणात्तथा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति
॥१५॥इदं यः शृणुयान्नित्यं पुराणं शिवभाषितम् ।
ब्राह्मणो वेदविद्यावान् क्षत्रियो विजयी भवेत्
॥१६॥धनभागी भवेद्वैश्यः शूद्रो वै धर्मभाग्भवेत् ।
सौभाग्यं सन्ततिं स्वर्गं नारी श्रुत्वाप्नुयाद्धनम्
॥१७॥ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ।
माहात्म्यं नर्मदायास्तु श्रुत्वा पापबहिष्कृताः
॥१८॥पापभेदी कृतघ्नश्च स्वामिविश्वासघातकः ।
गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः
॥१९॥एते श्रुत्वैव पापेभ्यो मुच्यन्ते नात्र संशयः ।
ये पुनर्भावितात्मानः शृण्वन्ति सततं नृप
॥२०॥पूजयन्त इदं देवाः पूजिता गुरवश्च तैः ।
नर्मदा पूजिता तेन भगवांश्च महेश्वरः
॥२१॥तस्मात्सर्वप्रयत्नेन गन्धपुष्पविभूषणैः ।
पूजितं परया भक्त्या शास्त्रमेतत्फलप्रदम्
॥२२॥लेखापयित्वा सकलं नर्मदाचरितं शुभम् ।
उत्तमं सर्वशास्त्रेभ्यो यो ददाति द्विजन्मने
॥२३॥नर्मदासर्वतीर्थेषु स्नाने दाने च यत्फलम् ।
तत्फलं समवाप्नोति स नरो नात्र संशयः
॥२४॥एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् ।
स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्तिवर्धनम्
॥२५॥सर्वपापहरं पार्थ दुःखदुःस्वप्ननाशनम् ।
पठतां शृण्वतां राजन् सर्वकामार्थसिद्धिदम्
॥२६॥शान्तिरस्तु शिवं चास्तु लोकाः सन्तु निरामयाः ।
गोब्राह्मणेभ्यः स्वस्त्यस्तु धर्मं धर्मात्मजाश्रयः
॥२७॥नरकान्तकरी रेवा सतीर्था विश्वपावनी ।
नर्मदा धर्मदा चास्तु शर्मदा पार्थ ते सदा
॥२८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेययुधिष्ठिरसंवादे रेवाखण्डपठनश्रवणदानादिफलश्रुतिवर्णनं नामैकोनत्रिंशदधिकद्विशततमोऽध्यायः ॥