मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५३

3
अवन्तीखण्डः · रेवाखण्डः · 53

ऋक्षशृङ्गस्वर्गगमनवर्णनम्

उत्तानपाद उवाच

आश्रमे वसतस्तस्य स दीर्घतपसो मुनेः ।

कनीयांस्तनयो देव कथं मृत्युमुपागतः

॥१॥

ईश्वर उवाच

शृणुष्वैकमना भूत्वा कथां दिव्यां महीपते ।

श्रवणादेव यस्यास्तु मुच्यते सर्वकिल्बिषैः

॥२॥

काशीराजो महावीर्यो महाबलपराक्रमः ।

चित्रसेन इति ख्यातां धरण्यां स नराधिप

॥३॥

तस्य राज्ये सदा धर्मो नाधर्मो विद्यते क्वचित् ।

वेदधर्मरतो नित्यं प्रजा धर्मेण पालयन्

॥४॥

स्वधर्मनिरतश्चैव युद्धातिथ्यप्रियः सदा ।

क्षत्रधर्मं समाश्रित्य भोगान्भुङ्क्ते स कामतः

॥५॥

कोशस्यान्तो न विद्येत हस्त्यश्वरथपत्तिमान् ।

इतिहासपुराणज्ञैः पण्डितैः सह संकथाम्

॥६॥

कथयन्राजते राजा कैलास इव शङ्करः ।

एवं स पालयन्राज्यं राजा मन्त्रिणमब्रवीत्

॥७॥

मृगयायां गमिष्यामि तिष्ठध्वं राज्यपालने ।

गम्यतां सचिवैः प्रोक्ते गतोऽसौ वसुधाधिपः

॥८॥

अश्वारूढाश्च धावन्तो राजानो मण्डलाधिपाः ।

छत्रैश्छत्राणि घृष्यन्तोऽनुजग्मुः काननं प्रति

॥९॥

रजस्तत्रोत्थितं भौमं गजवाजिपदाहतम् ।

तेनैतच्छादितं सर्वं सदिङ्मार्तण्डमंलम्

॥१०॥

न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः ।

पादपाश्च न दृश्यन्ते गिरिशृङ्गाणि सर्वतः

॥११॥

परस्परं न पश्यन्ति निशार्द्धे वार्षिके यथा ।

तत्रासौ सुमहद्यूथं मृगाणां समलक्ष्यत

॥१२॥

अधावत्सहितः सर्वैः स राजा राजपुत्रकैः ।

वृन्दास्फोटोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश

॥१३॥

एकमार्गगतो राजा चित्रसेनो महीपतिः ।

एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः

॥१४॥

प्रविष्टोऽसौ ततो दुर्गं काननं गिरिगह्वरम् ।

वल्लीगुल्मसमाकीर्णं स्थितो यत्र न लक्ष्यते

॥१५॥

अदृश्यांस्तु मृगान्मत्वा दिशो राजा व्यलोकयत् ।

कां दिशं नु गमिष्यामि क्व मे सैन्यसमागमः

॥१६॥

एवं कष्टं गतो राजा चित्रसेनो नराधिपः ।

वृक्षच्छायां समाश्रित्य विश्राममकरोन्नृपः

॥१७॥

क्षुत्तृषार्तो भ्रमन्दुर्गे कानने गिरिगह्वरे ।

ततोऽपश्यत्सरो दिव्यं पद्मिनीखण्डमण्डितम्

॥१८॥

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।

ततो दृष्ट्वा स राजेन्द्रः सम्प्रहृष्टतनूरुहः

॥१९॥

कमलानि गृहीत्वा तु ततः स्नानं समाचरत् ।

तर्पयित्वा पितृदेवान्मनुष्यांश्च यथाविधि

॥२०॥

आच्छाद्य शतपत्रैश्च पूजयामास शङ्करम् ।

ययौ पानीयममलं यथावत्स समाहितः

॥२१॥

उत्तीर्य सलिलात्तीरे दृष्ट्वा वृक्षं समीपगम् ।

उत्तरीयमधः कृत्वोपविष्टो धरणीतले

॥२२॥

चिन्तयन्नुपविष्टोऽसौ किमद्य प्रकरोम्यहम् ।

तत्रासीनो ददर्शाथ वनोद्देशे मृगान्बहून्

॥२३॥

केचित्पूर्वमुखास्तत्र चापरे दक्षिणामुखाः ।

वारुण्यमिमुखाः केचित्केचित्कौबेरदिङ्मुखाः

॥२४॥

केचिन्निद्रापराः केचिदूर्ध्वकर्णाः स्थिताः परे ।

मृगमध्ये स्थितो योगी ऋक्षशृङ्गो महातपाः

॥२५॥

मृगान्दृष्ट्वा ततो राजा आहारार्थमचिन्तयत् ।

हत्वैतेषु मृगं कंचिद्भक्षयामि यदृच्छया

॥२६॥

स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् ।

काशीं प्रति गमिष्यामि मार्गमन्विष्य यत्नतः

॥२७॥

विचिन्त्यैवं ततो राजा वृक्षमूलमुपाश्रितः ।

चापं गृह्य कराग्रेण स शरं संदधे ततः

॥२८॥

विचिक्षेप शरं तत्र यत्र ते बहवो मृगाः ।

तेषां मध्ये स वै विद्ध ऋक्षशृङ्गो महातपाः

॥२९॥

जग्मुस्त्रस्तास्तु ते सर्वे शब्दं कृत्वा वनौकसः ।

स ऋषिः पतितस्तत्र कृष्ण कृष्णेति चाब्रवीत्

॥३०॥

हाहा कष्टं कृतं तेन येनाहं घातितोऽधुना ।

कस्यैषा दुर्मतिर्जाता पापबुद्धेर्ममोपरि

॥३१॥

मृगमध्ये स्थितश्चाहं न कंचिदुपरोधये ।

तां वाचं मानुषीं श्रुत्वा स राजा विस्मयान्वितः

॥३२॥

शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मतेजसा ।

हाहा कष्टं कृतं मेऽद्य येनासौ घातितो द्विजः

॥३३॥

चित्रसेन उवाच

अकामाद्घातितस्त्वं तु मृगभ्रान्त्या मयानघ ।

गृहीत्वा बहुदारूणि स्वतनुं दाहयाम्यहम्

॥३४॥

दृष्टादृष्टं तु यत्किंचिन्न समं ब्रह्महत्यया ।

अन्यथा ब्रह्महत्यायाः शुद्धिर्मे न भविष्यति

॥३५॥

ऋक्षशृङ्ग उवाच

न ते सिद्धिर्भवेत्काचिन्मयि पञ्चत्वमागते ।

बह्व्यो हत्या भविष्यन्ति विनाशे मम साम्प्रतम्

॥३६॥

जननी मे पिता वृद्धो भ्रातरश्च तपस्विनः ।

भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते

॥३७॥

एता हत्या भविष्यन्ति कथं शुद्धिर्भवेत्तव ।

उपायं कथयिष्यामि तं कर्तुं यदि मन्यसे

॥३८॥

चित्रसेन उवाच

उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते ।

करिष्ये तमहं सर्वं यत्नेनापि महामुने

॥३९॥

ऋक्षशृङ्ग उवाच

पृच्छामि त्वां कथं को वा कुतस्त्वमिह चागतः ।

ब्रह्मक्षत्रविशां मध्ये को भवानुत शूद्रजः

॥४०॥

चित्रसेन उवाच

नाहं शूद्रोऽस्मि भोस्तात न वैश्यो ब्राह्मणो न वा ।

न चान्त्यजोऽस्मि विप्रेन्द्र क्षत्रियोऽस्मि महामुने

॥४१॥

धर्मज्ञश्च कृतज्ञश्च सर्वसत्त्वहिते रतः ।

अकामात्पातकं जातं कथं शुद्धिर्भविष्यति

॥४२॥

ऋक्षशृङ्ग उवाच

मां गृहीत्वा आश्रमं गच्छ यत्र तौ पितरौ मम ।

आवेदयस्व चात्मानं पुत्रघातिनमातुरम्

॥४३॥

ते दृष्ट्वा मां करिष्यन्ति कारुण्यं च तवोपरि ।

उपायं कथयिष्यन्ति येन शान्तिर्भविष्यति

॥४४॥

तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तम ।

स्कन्धे कृत्वा तु तं विप्रं जगामाश्रमसन्निधौ

॥४५॥

न शक्नोति यदा वोढुं विश्राम्यति पुनःपुनः ।

तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम्

॥४६॥

मुमोच चित्रसेनस्तं छायायां वटभूरुहः ।

वस्त्रं चतुर्गुणं कृत्वा चक्रे वातं मुहुर्मुहुः

॥४७॥

पश्यतस्तस्य राजेन्द्र ऋक्षशृङ्गो महातपाः ।

पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित्

॥४८॥

दाहयामास तं विप्रं विधिदृष्टेन कर्मणा ।

स्नानं कृत्वा स शोकार्तो विललाप मुहुर्मुहुः

॥४९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गस्वर्गगमनवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥