स्कन्देन निर्मितं पूर्वं तपः कृत्वा सुदारुणम्
श्रीमार्कण्डेय उवाच
नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।
स्कन्देन निर्मितं पूर्वं तपः कृत्वा सुदारुणम्
॥१॥युधिष्ठिर उवाच
स्कन्दस्य चरितं सर्वमाजन्म द्विजसत्तम ।
तीर्थस्य च विधिं पुण्यं कथयस्व यथार्थतः
॥२॥श्रीमार्कण्डेय उवाच
देवदेवेन वै तप्तं तपः पूर्वं युधिष्ठिर ।
विज्ञप्तेन सुरैः सर्वैरुमादेवी विवाहिता
॥३॥नास्ति सेनापतिः कश्चिद्देवानां सुरसत्तम ।
नीयन्ते दानवैर्घोरैः सर्वे देवाः सवासवाः
॥४॥यथा निशा विना चन्द्रं दिवसो भास्करं विना ।
न शोभते मुहूर्तं वै तथा सेना विनायका
॥५॥एवं ज्ञात्वा महादेव परया दयया विभो ।
सेनानीर्दीयतां कश्चित्त्रिषु लोकेषु विश्रुतः
॥६॥एतच्छ्रुत्वा शुभं वाक्यं देवानां परमेश्वरः ।
कामयान उमां देवीं सस्मार मनसा स्मरम्
॥७॥तेन मूर्छितसर्वाङ्गः कामरूपो जगद्गुरुः ।
कामयामास रुद्राणीं दिव्यं वर्षशतं किल
॥८॥देवराजस्ततो ज्ञात्वा महामैथुनगं हरम् ।
संमन्त्र्य दैवतैः सार्द्धं प्रैषयज्जातवेदसम्
॥९॥तेन गत्वा महादेवः परमानन्दसंस्थितः ।
सहसा तेन दृष्टोऽसौ हाहेत्युक्त्वा समुत्थितः
॥१०॥ततः क्रुद्धा महादेवी शापवाचमुवाच ह ।
वेपमाना महाराज शृणु यत्ते वदाम्यहम्
॥११॥अहं यस्मात्सुरैः सर्वैर्याचिता पुत्रजन्मनि ।
कृता रतिश्च विफला संप्रेष्य जातवेदसम्
॥१२॥तस्मात्सर्वे पुत्रहीना भविष्यन्ति न संशयः ।
हरेणोक्तस्ततो वह्निरस्माकं बीजमावह
॥१३॥यथा भवति लोकेषु तथा त्वं कर्तुमर्हसि ।
मम तेजस्त्वया शक्यं गृहीतुं सुरसत्तम ।
देवकार्यार्थसिद्ध्यर्थं नान्यः शक्तो जगत्त्रये
॥१४॥अग्निरुवाच
तेजसस्तव मे देव का शक्तिर्धारणे विभो ।
करोति भस्मसात्सर्वं त्रैलोक्यं सचराचरम्
॥१५॥ईश्वर उवाच
उदरस्थेन बीजेन यदि ते जायते रुजा ।
तदा क्षिपस्व तत्तेजो गङ्गातोये हुताशन
॥१६॥एवमुक्त्वा महादेवोऽमोघं बीजमुत्तमम् ।
हव्यवाहमुखे सर्वं प्रक्षिप्यान्तरधीयत
॥१७॥गते चादर्शनं देवे दह्यमानो हुताशनः ।
गङ्गातोये विनिक्षिप्य जगाम स्वंनिवेशनम्
॥१८॥असहन्ती तु तत्तेजो गङ्गापि सरितां वरा ।
शरस्तम्बे विनिक्षिप्य जगामाशु यथागतम्
॥१९॥तत्र जातं तु तद्दृष्ट्वा सर्वे देवाः सवासवाः ।
कृत्तिकां प्रेषयामासुः स्तन्यं पाययितुं तदा
॥२०॥दृष्ट्वा ता आगताः सर्वा गङ्गागर्भे महामतेः ।
षण्मुखैः षण्मुखो भूत्वा पिपासुरपिबत्स्तनम्
॥२१॥जातकर्मादिसंस्कारान्वेदोक्तान्पद्मसम्भवः ।
चकार सर्वान्दाजेन्द्र विधिदृष्टेन कर्मणा
॥२२॥षण्मुखात्षण्मुखो नाम कार्त्तिकेयस्तु कृत्तिकात् ।
कुमारश्च कुमारत्वाद्गङ्गागर्भोऽग्निजोऽपरः
॥२३॥एवं कुमारः सम्भूतो ह्यनधीत्य स वेदवित् ।
शास्त्राण्यनेकानि वेद चचार विपुलं तपः
॥२४॥देवारण्येषु सर्वेषु नदीषु च नदेषु च ।
पृथिव्यां यानि तीर्थानि समुद्राद्यानि भारत
॥२५॥ततः पर्याययोगेन नर्मदातटमाश्रितः ।
नर्मदादक्षिणे कूले चचार विपुलं तपः
॥२६॥ऋग्यजुःसामविहितं जपञ्जाप्यमहर्निशम् ।
ध्यायमानो महादेवं शुचिर्धमनिसंततः
॥२७॥ततो वर्षसहस्रान्ते पूर्णे देवो महेश्वरः ।
उमया सहितः काले तदा वचनमब्रवीत्
॥२८॥ईश्वर उवाच
अहं ते वरदस्तात गौरी माता पिता ह्यहम् ।
वरं वृणीष्व यच्चेष्टं त्रिषु लोकेषु दुर्लभम्
॥२९॥षण्मुख उवाच
यदि तुष्टो महादेव उमया सह शङ्कर ।
वृणोमि मातापितरौ नान्या गतिर्मतिर्मम
॥३०॥एतच्छ्रुत्वा शुभं वाक्यं पुत्रस्य वदनाच्च्युतम् ।
तथेत्युक्त्वा तु स्नेहेन प्रेम्णा तं परिषस्वजे
॥३१॥ततस्तं मूर्ध्न्युपाघ्राय ह्युमयोवाच शङ्करः
॥३२॥ईश्वर उवाच
अक्षयश्चाव्ययश्चैव सेनानीस्त्वं भविष्यसि
॥३३॥शिखी च ते वाहनं दिव्यरूपो दत्तो मया शक्तिधरस्य संख्ये ।
सुरासुरादींश्च जयेति चोक्त्वा जगाम कैलासवरं महात्मा
॥३४॥गते चादर्शनं देवे तदा स शिखिवाहनः ।
स्थापयित्वा महादेवं जगाम सुरसन्निधौ
॥३५॥तदाप्रभृति तत्तीर्थं स्कन्दतीर्थमिति श्रुतम् ।
सर्वपापहरं पुण्यं मर्त्यानां भुवि दुर्लभम्
॥३६॥तत्र तीर्थे तु यो राजन्भक्त्या स्नात्वार्चयेच्छिवम् ।
गन्धमाल्याभिषेकैश्च याज्ञिकं स लभेत्फलम्
॥३७॥स्कन्दतीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
तिलमिश्रेण तोयेन तस्य पुण्यफलं शृणु
॥३८॥पिण्डदानेन चैकेन विधियुक्तेन भारत ।
द्वादशाब्दानि तुष्यन्ति पितरो नात्र संशयः
॥३९॥तत्र तीर्थे तु राजेन्द्र शुभं वा यादि वाशुभम् ।
इह लोके परे चैव तत्सर्वं जायतेऽक्षयम्
॥४०॥तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करिष्यति ।
शास्त्रयुक्तेन विधिना स गच्छेच्छिवमन्दिरम्
॥४१॥कल्पमेकं वसित्वा तु देवगन्धर्वपूजितः ।
अत्र भारतवर्षे तु जायते विमले कुले
॥४२॥वेदवेदाङ्गतत्त्वज्ञः सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं पुत्रपौत्रसमन्वितः
॥४३॥इदं ते कथितं राजन्स्कन्दतीर्थस्य सम्भवम् ।
धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् ।
सर्वपापहरं पुण्यं देवदेवेन भाषितम्
॥४४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे स्कन्दतीर्थमाहात्म्यवर्णनं नामैकादशोत्तरशततमोऽध्यायः ॥