कम्बुकेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
अतः परं प्रवक्ष्यामि कम्बुकेश्वरमुत्तमम् ।
हिरण्यकशिपुर्दैत्यो दानवो बलदर्पितः
॥१॥अवध्यः सर्वलोकानां त्रिषु लोकेषु विश्रुतः ।
तस्य पुत्रो महातेजाः प्रह्लादो नाम नामतः
॥२॥विष्णुप्रसादाद्भक्त्या च तस्य राज्ये प्रतिष्ठितः ।
विरोचनस्तस्य सुतस्तस्यापि बलिरेव च
॥३॥बलिपुत्रोऽभवद्बाणस्तस्मादपि च शम्बरः ।
शम्बरस्यान्वये जातः कम्बुर्नाम महासुरः
॥४॥ज्ञात्वा विष्णुमयं घोरं महद्भयमुपस्थितम् ।
दानवानां विनाशाय नान्यो हेतुः कदाचन
॥५॥स त्यक्त्वा पुत्रदारांश्च सुहृद्बन्धुपरिग्रहान् ।
चचार मौनमास्थाय तपः कम्बुर्महामतिः
॥६॥अक्षसूत्रकरो भूत्वा दण्डी मुण्डी च मेखली ।
शाकयावकभक्षश्च वल्कलाजिनसंवृतः
॥७॥स्नात्वा नित्यं धृतिपरो नर्मदाजलमाश्रितः ।
पूजयंस्तु महादेवमर्बुदं वर्षसंख्यया
॥८॥ततस्तुतोष भगवान्देवदेवो महेश्वरः ।
उवाच दानवं काले मेघगम्भीरया गिरा
॥९॥भोभोः कम्बो महाभाग तुष्टोऽहं तव सुव्रत ।
इष्टं व्रतानां परमं मौनं सर्वार्थसाधनम्
॥१०॥चरितं च त्वया लोके देवदानवदुश्चरम् ।
वरं वृणीष्व भद्रं ते यत्ते मनसि रोचते
॥११॥कम्बुरुवाच
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
अक्षय्यश्चाव्ययश्चैव स्वेच्छया विचराम्यहम्
॥१२॥दैत्यदानवसङ्घानां संयुगेष्वपलायिता ।
भयं चान्यन्न विद्येत मुक्त्वा देवं गदाधरम्
॥१३॥तस्याहं संयुगे साध्यो येनोपायेन शङ्कर ।
भवामि न सदा कालं तं वदस्व वरं मम
॥१४॥ईश्वर उवाच
मम संनिहितो यत्र त्वं भविष्यसि दानव ।
तत्र विष्णुभयं नास्ति वसात्र विगतज्वरः
॥१५॥तस्य देवाधिदेवस्य वेदगर्भस्य संयुगे ।
शङ्खचक्रधरस्येशा नाहं सर्वे सुरासुराः
॥१६॥किं पुनर्यो द्विषत्येनं लोकालोकप्रभुं हरिम् ।
स सुखी वर्तते कालं न निमेषं मतं मम
॥१७॥तस्मात्त्वं परया भक्त्या सर्वभूतहिते रतः ।
वसिष्यसि चिरं कालमित्युक्त्वादर्शनं गतः
॥१८॥गते चादर्शनं देवे तत्र तीर्थे महामतिः ।
स्थापयामास देवेशं शिवं शान्तमनामयम्
॥१९॥तस्मिंस्तीर्थे महादेवं स्थापयित्वा दिवं गतः ।
तदाप्रभृति तत्पार्थ कम्बुतीर्थमिति श्रुतम् ।
विख्यातं सर्वलोकेषु महापातकनाशनम्
॥२०॥कम्बुतीर्थे नरः स्नात्वा विधिनाभ्यर्च्य भास्करम् ।
ऋग्यजुःसाममन्त्रैश्च स्तूयमानो नृपोत्तम
॥२१॥तस्य पुण्यं समुद्दिष्टं ब्राह्मणैर्वेदपारगैः ।
तत्सर्वं तु शृणुष्वाद्य ममैव गदतो नृप
॥२२॥ऋग्यजुःसामगीतेषु साङ्गोपाङ्गेषु यत्फलम् ।
तत्फलं समवाप्नोति गायत्रीमात्रमन्त्रवित्
॥२३॥तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
पूजयेद्देवमीशानं सोऽग्निष्टोमफलं लभेत्
॥२४॥अकामो वा सकामो वा तत्र तीर्थे कलेवरम् ।
यस्त्यजेन्नात्र सन्देहो रुद्रलोकं स गच्छति
॥२५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कम्बुकेश्वरतीर्थमाहात्म्यवर्णनं नाम विंशत्युत्तरशततमोऽध्यायः ॥