चाणक्यसिद्धिप्राप्तिवर्णनम्
श्रीमार्कण्डेय उवाच
अतः परं प्रवक्ष्यामि सर्वतीर्थादनुत्तमम् ।
उत्तरे नर्मदाकूले शुक्लतीर्थं युधिष्ठिर
॥१॥तस्य तीर्थस्य चान्यानि पुण्यत्वाच्छुभदर्शनात् ।
पृथिव्यां सर्वतीर्थानि कलां नार्हन्ति षोडशीम्
॥२॥युधिष्ठिर उवाच
तस्य तीर्थस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ।
भ्रातृभिः सहितः सर्वैस्तथान्यैर्द्विजसत्तमैः
॥३॥श्रीमार्कण्डेय उवाच
शुक्लतीर्थस्य चोत्पत्तिमाकर्णय नरेश्वर ।
यस्य संदर्शनादेव ब्रह्महत्या प्रलीयते
॥४॥नर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
यच्च बाल्यं कृतं पापं दर्शनादेव नश्यति
॥५॥मोक्षदानि न सर्वत्र शुक्लतीर्थमृते नृप ।
शुक्लतीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया
॥६॥समागमे मुनीनां तु देवानां हि तथैव च ।
कथितं देवदेवेन शितिकण्ठेन भारत ।
कैलासे पर्वतश्रेष्ठे तत्ते संकथयाम्यहम्
॥७॥पुरा कृतयुगस्यादौ तोषितुं गिरिजापतिम् ।
तपश्चचार विपुलं विष्णुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारः शुक्लतीर्थे व्यवस्थितः
॥८॥ततः प्रत्यक्षतामागाद्देवदेवो महेश्वरः ।
प्रादुर्भूतस्तु सहसा तत्र तीर्थे नराधिप
॥९॥क्रोशद्वयमिदं चक्रे भुक्तिमुक्तिप्रदायकम् ।
तस्मिंस्तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः
॥१०॥गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ।
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा
॥११॥सर्वौषधीनामशनं प्रधानं सर्वेषु पेयेषु जलं प्रधानम् ।
निद्रा सुखानां प्रमदा रतीनां सर्वेषु गात्रेषु शिरः प्रधानम्
॥१२॥स्नातस्यापि यथा पुण्यं ललाटं नृपसत्तम ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां युधिष्ठिर
॥१३॥सरितां च यथा गङ्गा देवतानां जनार्दनः ।
शुक्लतीर्थं तथा पुण्यं नर्मदायां व्यवस्थितम्
॥१४॥चतुष्पदानां सुरभिर्वर्णानां ब्राह्मणो यथा ।
प्रधानं सर्वतीर्थानां शुक्लतीर्थं तथा नृप
॥१५॥ग्रहाणां तु यथादित्यो नक्षत्राणां यथा शशी ।
शिरो वा सर्वगात्राणां धर्माणां सत्यमिष्यते
॥१६॥तथैव पार्थ तीर्थानां शुक्लतीर्थमनुत्तमम् ।
दुर्विज्ञेयो यथा लोके परमात्मा सनातनः
॥१७॥सुसूक्ष्मत्वादनिर्देश्यः शुक्लतीर्थं तथा नृप ।
मन्दप्रज्ञत्वमापन्ने महामोहसमन्वितः
॥१८॥शुक्लतीर्थं ना जानाति नर्मदातटसंस्थितम् ।
बहुनात्र किमुक्तेन धर्मपुत्र पुनः पुनः
॥१९॥शुक्लतीर्थं महापुण्यं सम्प्राप्तं कल्मषक्षयात् ।
योऽत्र दत्ते शुचिर्भूत्वा एकं रेवाजलाञ्जलिम्
॥२०॥कल्पकोटिसहस्राणि पितरस्तेन तर्पिताः
॥२१॥एकः पुत्रो धरापृष्ठे पित्ःणामार्तिनाशनः ।
चाणक्यो नाम राजाभूच्छुक्लतीर्थं च वेद सः
॥२२॥युधिष्ठिर उवाच
कोऽसौ द्विजवरश्रेष्ठ चाणक्यो नाम नामतः ।
शुक्लतीर्थस्य यो वेत्ता नान्यो वेत्ता हि कश्चन
॥२३॥केनोपायेन तत्तीर्थं तेन ज्ञातं धरातले ।
तदहं श्रोतुमिच्छामि परं कौतूहलं हि मे
॥२४॥श्रीमार्कण्डेय उवाच
इक्ष्वाकुप्रभवो राजा नप्ता शुद्धोदनस्य च ।
चाणक्यो नाम राजर्षिर्बुभुजे पृथिवीमिमाम्
॥२५॥विक्रान्तो मतिमाञ्छूरः सर्वलोकैरवञ्चितः ।
वञ्चितः सहसा धूर्तवायसाभ्यां नृपोत्तमः
॥२६॥युधिष्ठिर उवाच
कथं स वञ्चितो राजा वायसाभ्यां कुतोऽथवा ।
पुरा येन प्रतिज्ञातं धीगर्भेण महात्मना
॥२७॥न जीवे वञ्चितोऽन्येन प्राणांस्त्यक्ष्ये न संशयः ।
एतन्मे वद विप्रेन्द्र परं कौतूहलं मम
॥२८॥श्रीमार्कण्डेय उवाच
आत्मानं वञ्चितं ज्ञात्वा तदा संगृह्य वायसौ ।
प्रेषयामास तीव्रेण दण्डेन यमसादनम्
॥२९॥वायसावूचतुः
सुन्दोपसुन्दयोः पुत्रावावां काकत्वमागतौ ।
मा वधीस्त्वं महाभाग कस्मिंश्चित्कारणान्तरे
॥३०॥तावावां कृतसंकल्पौ त्वया कोपेन मानद ।
निरस्तावनिरस्तौ वा यास्यावः परमां गतिम्
॥३१॥तदादेशय राजेन्द्र कृत्वा तव महत्प्रियम् ।
मुक्तशापौ भविष्यावो ब्रह्मणो वचनं तथा
॥३२॥तच्छ्रुत्वा काकवचनं चाणक्यो नृपसत्तमः ।
नाहं जीवे विदित्वैवं वञ्चितः केन कर्हिचित्
॥३३॥तस्मात्तीर्थं विजानीतं यमस्य सदने द्विजौ ।
प्रेषयामि यथान्यायं श्रुत्वा तत्कथयिष्यथः
॥३४॥तेनैव मुक्तौ तौ काकौ स्रक्चन्दनविभूषितौ ।
शीघ्रगौ प्रेषयामास यमस्य सदनं प्रति
॥३५॥राजोवाच
तत्र धर्मपुरं गत्वा विचरन्तावितस्ततः ।
यदि पृच्छति धर्मात्मा यमः संयमनो महान्
॥३६॥कुतो वामागतं ब्रूतं केन वा भूषितावुभौ ।
मदीया भारती तस्य कथनीया ह्यशङ्कितम्
॥३७॥इक्ष्वाकुसंभवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिना
॥३८॥तच्छ्रुत्वा वचनं राज्ञो गतौ तौ यमसादनम् ।
क्रीडितौ प्राङ्गणे तस्य स्रक्चन्दनविभूषितौ ।
धर्मराजेन तौ दृष्टौ पृष्टौ धृष्टौ च वायसौ
॥३९॥यम उवाच
कुतः स्थानात्समायातौ केन वा भूषितावुभौ ।
वृत्तं वै कथ्यतामेतद्वायसावविशङ्कया
॥४०॥काकावूचतुः
इक्ष्वाकुसम्भवो राजा चाणक्यो नाम धार्मिकः ।
द्वादशाहे मृतस्यास्य तर्पितावशनादिभिः
॥४१॥तयोस्तद्वचनं श्रुत्वा सदा वैवस्वतो यमः ।
चित्रगुप्तं कलिं कालं वीक्ष्यतामिदमब्रवीत्
॥४२॥अण्डजस्वेदजातीनां भूतानां सचराचरे ।
विहितं लोककर्त्ःणां सान्निध्यं ब्रह्मणा मम
॥४३॥गतः कुत्र दुराचारश्चाणक्यो नामतस्त्विह ।
अन्विष्यतां पुराणेषु त्वितिहासेषु या गतिः
॥४४॥ततस्तैर्धर्मपालैस्तु धर्मराजप्रचोदितैः ।
निरीक्षिता पुराणोक्ता कर्मजा गतिरागतिः
॥४५॥ततः प्रोवाच वचनं धर्मो धर्मभृतां वरः ।
शृण्वतां धर्मपालानां मेघगम्भीरया गिरा
॥४६॥शुक्लतीर्थे मृतानां तु नर्मदाविमले जले ।
अण्डजस्वेदजातीनां न गतिर्मम सन्निधौ
॥४७॥तत्तीर्थं धार्मिकं लोके ब्रह्मविष्णुमहेश्वरैः ।
निर्मितं परया भक्त्या लोकानां हितकाम्यया
॥४८॥पापोपपातकैर्युक्ता ये नरा नर्मदाजले ।
शुक्लतीर्थे मृताः शुद्धा न ते मद्विषयाः क्वचित्
॥४९॥एतच्छ्रुत्वा तु वचनं तौ काकौ यमभाषितम् ।
आगतौ शीघ्रगौ पार्थ दृष्ट्वा यमपुरं महत्
॥५०॥पृष्टौ तौ प्रणतौ राज्ञा यथावृत्तं यथाश्रुतम् ।
कथयामासतुः पार्थ दानवौ काकतां गतौ
॥५१॥अस्मात्स्थानाद्गतावावां यमस्य पुरमुत्तमम् ।
पृथिव्या दक्षिणे भागे ह्यतीत्य बहुयोनिजम्
॥५२॥तत्पुरं कामगं दिव्यं स्वर्णप्राकारतोरणम् ।
अनेकगृहसम्बाधं मणिकाञ्चनभूषितम्
॥५३॥चतुष्पथैश्चत्वरैश्च घण्टामार्गोपशोभितम् ।
उद्यानवनसंछन्नं पद्मिनीखण्डमन्दितम्
॥५४॥हंससारससंघुष्टं कोकिलाकुलसंकुलम् ।
सिंहव्याघ्रगजाकीर्णमृक्षवानरसेवितम्
॥५५॥नरनारीसमाकीर्णं नित्योत्सवविभूषितम् ।
शंखदुन्दुभिर्निर्घोषैर्वीणावेणुनिनादितम्
॥५६॥यममार्गेऽपि विहितं स्वर्गलोकमिवापरम् ।
गतौ तत्र पुनश्चान्यैर्यमदूतैर्यमाज्ञया
॥५७॥विदितौ प्रेषितौ तत्र यत्र देवो जगत्प्रभुः ।
प्राणस्य भीत्या दृष्टोऽसौ सिंहासनगतः प्रभुः
॥५८॥महाकायो महाजङ्घो महास्कन्धो महोदरः ।
महावक्षा महाबाहुर्महावक्त्रेक्षणो महान्
॥५९॥महामहिषमारूढो महामुकुटभूषितः ।
तत्रान्यश्च कलिः कालश्चित्रगुप्तो महामतिः
॥६०॥समागतौ तदा दृष्टौ मध्ये ज्वलितपावकौ ।
पुण्यपापानि जन्तूनां श्रुतिस्मृत्यर्थपारगौ
॥६१॥विचारयन्तौ सततं तिष्ठाते तौ दिवानिशम् ।
ततो ह्यावां प्रणामान्ते यमेन यममूर्तिना
॥६२॥पृष्टावागमने हेतुं तमब्रूव शृणुष्व तत् ।
उज्जयिन्यां महीपालश्चाणक्योऽभूत्प्रतापवान्
॥६३॥द्वादशाहे मृतस्यास्य भुक्त्वा प्राप्तौ यमालयम् ।
ततोऽस्माकं वचः श्रुत्वा कम्पयित्वा शिरो यमः
॥६४॥उवाच वचनं सत्यं सभामध्ये हसन्निव ।
अस्ति तत्कारणं येन चाणक्यः पापपूरुषः
॥६५॥नायातो मम लोके तु सर्वपापभयंकरे ।
शुक्लतीर्थे मृतानां तु नर्मदायां परं पदम्
॥६६॥जायते सर्वजन्तूनां नात्र काचिद्विचारणा ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले
॥६७॥मृतः स वै न सन्देहो रुद्रस्यानुचरो भवेत् ।
तद्धर्मवचनं श्रुत्वा निर्गत्य नगराद्बहिः
॥६८॥पश्यन्तौ विविधां घोरां नरके लोकयातनाम् ।
त्रिंशत्कोट्यो हि घोराणां नरकाणां नृपोत्तम
॥६९॥दृष्टा भीतौ परामार्तिगतौ तत्र महापथि ।
नरको रौरवस्तत्र महारौरव एव च
॥७०॥पेषणः शोषणश्चैव कालसूत्रोऽस्थिभञ्जनः ।
तामिस्रश्चान्धतामिस्रः कृमिपूतिवहस्तथा
॥७१॥दृष्टश्चान्यो महाज्वालस्तत्रैव विषभोजनः ।
नरकौ दंशमशकौ तथा यमलपर्वतौ
॥७२॥नदी वैतरणी दृष्टा सर्वपापप्रणाशिनी ।
शीतलं सलिलं यत्र पिबन्ति ह्यमृतोपमम्
॥७३॥तदेव नीरं पापानां शोणितं परिवर्तते ।
असिपत्रवनं चान्यद्दृष्टान्या महती शिला
॥७४॥अग्निपुंजनिभाकारा विशाला शाल्मली परा ।
इत्यादयस्तथैवान्ये शतसाहस्रसंज्ञिताः
॥७५॥घोरघोरतरा दृष्टाः क्लिश्यन्ते यत्र मानवाः ।
वाचिकैर्मानसैः पापैः कर्मजैश्च पृथग्विधैः
॥७६॥अहंकारकृतैर्दोषैर्मायावचनपूर्वकैः ।
पिता माता गुरुर्भ्राता अनाथा विकलेन्द्रियाः
॥७७॥भ्रमन्ति नोद्धृता येषां गतिस्तेषां हि रौरवे ।
तत्र ते द्वादशाब्दानि क्षपित्वा रौरवेऽधमाः
॥७८॥इह मानुष्यके लोके दीनान्धाश्च भवन्ति ते ।
देवब्रह्मस्वहर्त्ःणां नराणां पापकर्मणाम्
॥७९॥महारौरवमाश्रित्य ध्रुवं वासो यमालये ।
ततः कालेन महता पापाः पापेन वेष्टिताः
॥८०॥जायन्ते कण्टकैर्भिन्नाः कोशे वा कोशकारकाः ।
मृगपक्षिविहङ्गानां घातका मांसभक्षकाः
॥८१॥पेषणं नरकं यान्ति शोषणं जीवबन्धनात् ।
तत्रत्यां यातनां घोरां सहित्वा शास्त्रचोदिताम्
॥८२॥इह मानुष्यतां प्राप्य पङ्ग्वन्धबधिरा नराः ।
गवार्थे ब्राह्मणार्थे च ह्यनृतं वदतामिह
॥८३॥पतनं जायते पुंसां नरके कालसूत्रके ।
तत्रत्या यातना घोरा विहिता शास्त्रकर्तृभिः
॥८४॥भुक्त्वा समागता ह्यत्र ते यास्यन्त्यन्त्यजां गतिम् ।
बन्धयन्ति च ये जीवांस्त्यक्त्वात्मकुलसन्ततिम्
॥८५॥पतन्ति नात्र सन्देहो नरके तेऽस्थिभञ्जने ।
तत्र वर्षशतस्यान्त इह मानुष्यतां गताः
॥८६॥कुब्जा वामनकाः पापा जायन्ते दुःखभागिनः ।
ये त्यजन्ति स्वकां भार्यां मूढाः पण्डितमानिनः
॥८७॥ते यान्ति नरकं घोरं तामिस्रं नात्र संशयः ।
तत्र वर्षशतस्यान्ते इह मानुष्यतां गताः
॥८८॥दुश्चर्माणो दुर्भगाश्च जायन्ते मानवा हि ते ।
मानकूटं तुलाकूटं कूटकं तु वदन्ति ये
॥८९॥नरके तेऽन्धतामिस्रे प्रपच्यन्ते नराधमाः ।
शतसाहस्रिकं कालमुषित्वा तत्र ते नराः
॥९०॥इह शत्रुगृहे त्वन्धा भ्रमन्ते दीनमूर्तयः ।
पितृदेवद्विजेभ्योऽन्नमदत्त्वा येऽत्र भुञ्जते
॥९१॥नरके कृमिभक्ष्ये ते पतन्ति स्वात्मपोषकाः ।
ततः प्रसूतिकाले हि कृमिभुक्तश्च सव्रणः
॥९२॥जायतेऽशुचिगन्धोऽत्र परभाग्योपजीवकः ।
स्वकर्मविच्युताः पापा वर्णाश्रमविवर्जिताः
॥९३॥नरके पूयसम्पूर्णे क्लिश्यन्ते ह्ययुतं समाः ।
पूर्णे तत्र ततः काले प्राप्य मानुष्यकं भवम्
॥९४॥उद्वेजनीया भूतानां जायन्ते व्याधिभिर्वृताः ।
अग्निदो गरदश्चैव लोभमोहान्वितो नरः
॥९५॥नरके विषसम्पूर्णे निमज्जति दुरात्मवान् ।
तत्र वर्षशतात्कालादुन्मज्जनमवस्थितः
॥९६॥भुवि मानुषतां प्राप्य कृपणो जायते पुनः ।
पादुकोपानहौ छत्रं शय्यां प्रावरणानि च
॥९७॥अदत्त्वा दंशमशकैर्भक्ष्यन्ते जन्यसप्ततिम् ।
पितुर्द्रव्यापहर्तारस्ताडनक्रोशने रताः
॥९८॥पीडनं क्रियते तेषां यत्र तौ युग्मपर्वतौ ।
या सा वैतरणी घोरा नदी रक्तप्रवाहिनी
॥९९॥पिबन्ति रुधिरं तत्र येऽभियान्ति रजस्वलाम् ।
असिपत्रवने घोरे पीड्यन्ते पापकारिणः
॥१००॥परपीडाकरा नित्यं ये नरोऽन्त्यजगामिनः ।
गुरुदाररतानां तु महापातकिनामपि
॥१०१॥शिलावगूहनं तेषां जायते जन्मसप्ततिम् ।
ज्वलन्तीमायसीं घोरां बहुकण्टकसंवृताम्
॥१०२॥शाल्मलीं तेऽवगूहन्ति परदाररता हि ये ।
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च
॥१०३॥अरण्ये निर्जले देशे स भवेत्क्रूरराक्षसः ।
देवस्वं ब्राह्मणस्वं च लोभेनैवाहरेच्च यः
॥१०४॥स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ।
एवमादीनि पापानि भुञ्जन्ते यमशासनात्
॥१०५॥येषां तु दर्शनादेव श्रवणाज्जायते भयम् ।
तथा दानफलं चान्ये भुञ्जाना यममन्दिरे
॥१०६॥दृष्टाः श्रुतं कथयतां दूतानां च यमाज्ञया ।
रथैरन्ये गजैरन्ये केचिद्वाजिभिरावृताः
॥१०७॥दृष्टास्तत्र महाभाग तपःसंचयसंस्थिताः ।
गोदाता स्वर्णदाता च भूमिरत्नप्रदा नराः
॥१०८॥शय्याशनगृहादीनां स लोकः कामदो नृणाम् ।
अन्नं पानीयसहितं ददते येऽत्र मानवाः
॥१०९॥तत्र तृप्ताः सुसंतुष्टाः क्रीडन्ते यमसादने ।
अत्र यद्दीयते दानमपि वालाग्रमात्रकम्
॥११०॥तदक्षयफलं सर्वं शुक्लतीर्थे नृपोत्तम ।
एतत्ते कथितं सर्वं यद्दृष्टं यच्च वै श्रुतम्
॥१११॥कुरुष्व यदभिप्रेतं यदि शक्नोषि मुच्यताम् ।
तयोस्तद्वचनं श्रुत्वा चाणक्यो हृष्टमानसः
॥११२॥विसर्जयामास खगावभिनन्द्य पुनःपुनः ।
ताभ्यां गताभ्यां सर्वस्वं दत्त्वा विप्रेषु भारत
॥११३॥कामक्रोधौ परित्यज्य जगामामरपर्वतम् ।
तत्र बद्ध्वोडुपं गाढं कृष्णरज्ज्वावलम्बितम्
॥११४॥प्लवमानो जगामाऽशु ध्यायन्देवं जनार्दनम् ।
आरोग्यं भास्करादिच्छेद्धनं वै जातवेदसः
॥११५॥प्राप्नोति ज्ञानमीशानान्मोक्षं प्राप्नोति केशवात् ।
नीलं रक्तं तदभवन्मेचकं यद्धि सूत्रकम्
॥११६॥शुद्धस्फटिकसङ्काशं दृष्ट्वा रज्जुं महामतिः ।
आप्लुत्य विमले तोये गतोऽसौ वैष्णवं पदम्
॥११७॥गायन्ति यद्वेदविदः पुराणं नारायणं शाश्वतमच्युताह्वयम् ।
प्राप्तः स तं राजसुतो महात्मा निक्षिप्य देहं शुभशुक्लतीर्थे
॥११८॥एषा ते कथिता राजन्सिद्धिश्चाणक्यभूभृतः ।
तथान्यत्तव वक्ष्यामि शृणुष्वैकाग्रमानसः
॥११९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चाणक्यसिद्धिप्राप्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥