दर्शनाद्देवदेवस्य यत्र पापं प्रणश्यति
श्रीमार्कण्डेय उवाच
तस्यैवानन्तरं तीर्थं लिङ्गेश्वरमिति श्रुतम् ।
दर्शनाद्देवदेवस्य यत्र पापं प्रणश्यति
॥१॥कृत्वा तु कदनं घोरं दानवानां युधिष्ठिर ।
वाराहं रूपमास्थाय नर्मदायां व्यवस्थितः
॥२॥तत्र तीर्थे तु यः स्नानं कृत्वा देवं नमस्यति ।
स मुच्यते नृपश्रेष्ठ महापापैः पुराकृतैः
॥३॥द्वादश्यां कृष्णपक्षस्य शुक्ले च समुपोषितः ।
गन्धमाल्यैर्जगन्नाथं पूजयेत्पाण्डुनन्दन
॥४॥ब्राह्मणांश्च महाभाग दानसंमानभोजनैः ।
पूजयेत्परया भक्त्या तस्य पुण्यफलं शृणु
॥५॥सत्रयाजिफलं जन्तुर्लभते द्वादशाब्दकैः ।
ब्राह्मणान्भोजयंस्तत्र तदेव लभते फलम्
॥६॥तर्पयित्वा पितॄन् देवान् स्नात्वा तद्गतमानसः ।
जपेद्द्वादशनामानि देवस्य पुरतः स्थितः
॥७॥मासि मासि निराहारो द्वादश्यां कुरुनन्दन ।
केशवं पूजयेन्नित्यं मासि मार्गशिरे बुधः
॥८॥पौषे नारायणं देवं माघमासे तु माधवम् ।
गोविन्दं फाल्गुने मासि विष्णुं चैत्रे समर्चयेत्
॥९॥वैशाखे मधुहन्तारं ज्येष्ठे देवं त्रिविक्रमम् ।
वामनं तु तथाषाढे श्रावणे श्रीधरं स्मरेत्
॥१०॥हृषीकेशं भाद्रपदे पद्मनाभं तथाश्विने ।
दामोदरं कार्त्तिके तु कीर्तयन्नावसीदति
॥११॥वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
तन्नश्यति न सन्देहो मासनामानुकीर्तनात्
॥१२॥स्वयं विनुद्धः सततमुन्मिषन्निमिषंस्तथा ।
शीघ्रं प्रपश्य भुञ्जानो मन्त्रहीनं समुद्गिरेत्
॥१३॥परमापद्गतस्यापि जन्तोरेषा प्रतिक्रिया ।
यन्मासाधिपतेर्विष्णोर्मासनामानुकीर्तनम्
॥१४॥ता निशास्ते च दिवसास्ते मासास्ते च वत्सराः ।
नराणां सफला येषु चिन्तितो भगवान्हरिः
॥१५॥परमापद्गतस्यापि यस्य देवो जनार्दनः ।
नावसर्पति हृत्पद्मात्स योगी नात्र संशयः
॥१६॥ते भाग्यहीना मनुजाः सुशोच्यास्ते भूमिभाराय कृतावताराः ।
अचेतनास्ते पशुभिः समाना ये भक्तिहीना भगवत्यनन्ते
॥१७॥ते पूर्णकार्याः पुरुषाः पृथिव्यां ते स्वाङ्गपाताद्भुवनं पुनन्ति ।
विचक्षणा विश्वविभूषणास्ते ये भक्तियुक्ता भगवत्यनन्ते
॥१८॥स एव सुकृती तेन लब्धं जन्मतरोः फलम् ।
चित्ते वचसि काये च यस्य देवो जनार्दनः
॥१९॥एतत्तीर्थवरं पुण्यं लिङ्गो यत्र जनार्दनः ।
वञ्चयित्वा रिपून्संख्ये क्रोधो भूत्वा सनातनः
॥२०॥उपप्लवे चन्द्रमसो रवेश्च यो ह्यष्टकानामयनद्वये च ।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः
॥२१॥घोणोन्मीलितमेरुरन्ध्रनिवहो दुःखाब्धिमज्जत्प्लवः प्रादुर्भूतरसातलोदरबृहत्पङ्कार्धमग्नक्षुरः ।
फूत्कारोत्करनुन्नवातविदलद्दिग्दन्तिनादश्रुतिन्यस्तस्तब्धवपुः श्रुतिर्भवतु वः क्रोडो हरिः शान्तये
॥२२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे लिङ्गवाराहतीर्थमाहात्म्यवर्णनं नामैकोनपञ्चाशदधिकशततमोऽध्यायः ॥