कुर्कुरीतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
कुर्कुरीनाम विख्यातं सर्वपापप्रणाशनम्
॥१॥यं यं प्रार्थयते कामं पशुपुत्रधनादिकम् ।
तं तं ददाति देवेशी कुर्कुरी तीर्थदेवता
॥२॥क्षेत्रपालो वसेत्तत्र ढौण्ढेशो नाम नामतः ।
तस्य चाराधनं कृत्वा नारी वा पुरुषोऽपि वा
॥३॥वन्दनादपि राजेन्द्र दौर्भाग्यं नाशमाप्नुयात् ।
अपुत्रो लभते पुत्रमधनो धनमुत्तमम्
॥४॥नारी नरस्तथाप्येवं लभते काममुत्तमम् ।
स्पर्शनाद्दर्शनात्तस्य तीर्थस्य विधिपूर्वकम्
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुर्कुरीतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः॥