मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २३०

3
अवन्तीखण्डः · रेवाखण्डः · 230

सूत उवाच - इत्युक्त्वोपररामथ पाण्डोः पुत्राय वै मुनिः

सूत उवाच

इत्युक्त्वोपररामथ पाण्डोः पुत्राय वै मुनिः ।

मृकण्डतनयो धीमान्सप्तकल्पस्मरः पुरः

॥१॥

मार्कण्डमुनिना प्रोक्तं यथा पार्थाय सत्तमाः ।

तथा वः कथितं सर्वं रेवामाहात्म्यमुत्तमम्

॥२॥

इयं पुण्या सरिच्छ्रेष्ठा रेवा विश्वैकपावनी ।

रुद्रदेहसमुद्भूता सर्वभूताभयप्रदा

॥३॥

ओङ्कारजलधिं यावदुवाच भृगुनन्दनः ।

तीर्थसङ्गमभेदान्वै धर्मपुत्राय पृच्छते

॥४॥

समासेनैव मुनयस्तथाहं कथयामि वः ।

सप्तषष्टिसहस्राणि षष्टिकोट्यस्तथैव च

॥५॥

कथं केनात्र शक्यन्ते वक्तुं वर्षशतैरपि ।

तथाप्यत्र मुनिश्रेष्ठाः प्रोक्तं पार्थाय वै यथा

॥६॥

तीर्थमोंकारमारभ्य वक्ष्ये तीर्थावलिं शुभाम् ।

प्रोच्यमानां समासेन तां शृणुध्वं महर्षयः

॥७॥

नत्वा सोमं महेशानं नत्वा ब्रह्माच्युतावुभौ ।

सरस्वतीं गणेशानं देव्यासाङ्घ्रिपञ्कजम्

॥८॥

पूर्वाचार्यांस्तथा सर्वान्दृष्ट्वादृष्टार्थवेदिनः ।

प्रणम्य नर्मदां देवीं वक्ष्ये तीर्थावलिं त्विमाम्

॥९॥

ओं नमो विश्वरूपाय ओङ्कारायाखिलात्मने ।

यमारभ्ये प्रवक्ष्यामि रेवातीर्थावलिं द्विजाः

॥१०॥

अस्मिन्मार्कण्डगदिते रेवातीर्थक्रमे शुभे ।

पुराणसंहिताध्याया मार्कण्डाश्रमवर्णनम्

॥११॥

ततः प्रश्नाधिकारश्च प्रशंसा नर्मदोद्भवा ।

तथा पञ्चदशानां च प्रवाहानां प्रकीर्तनम्

॥१२॥

नामनिर्वचनं तद्वत्तथा कल्पसमुद्भवाः ।

एकविंशतिकल्पानां तद्वन्नामानुकीर्तनम्

॥१३॥

मार्कण्डेयानुभूतानां सप्तानां लक्षणानि च ।

माहात्म्यं चैव रेवायाः शिवविष्ण्वोस्तथैव च

॥१४॥

संहारलक्षणं तद्वदोङ्कारस्य च सम्भवः ।

तथैवौंकारमाहात्म्यममरकण्टकीर्तनम्

॥१५॥

अमरेश्वरतीर्थं च तथा दारुवनं महत् ।

दारुकेश्वरतीर्थं च तीर्थं वै चरुकेश्वरम्

॥१६॥

चरुकासङ्गमस्तद्व्यद्वतीपातेश्वरं तथा ।

पातालेश्वरतीर्थं च कोटियज्ञाह्वयं तथा

॥१७॥

वरुणेश्वरतीर्थं च लिङ्गान्यष्टोत्तरं शतम् ।

सिद्धेश्वरं यमेशं च ब्रह्मेश्वरमतः परम्

॥१८॥

सारस्वतं चाष्टरुद्रं सावित्रं सोमसंज्ञितम् ।

शिवखातं महातीर्थं रुद्रावर्तं द्विजोत्तमाः

॥१९॥

ब्रह्मावर्तं परं तीर्थं सूर्यावर्तमतः परम् ।

पिप्पलावर्ततीर्थं च पिप्पल्याश्चैव सङ्गमः

॥२०॥

अमरकण्टमाहात्म्यं कपिलासङ्गमस्तथा ।

विशल्यासम्भवश्चापि भृगुतुङ्गाद्रिकीर्तनम्

॥२१॥

विशल्यासङ्गमः पुण्यः करमर्दासमागमः ।

करमर्देश्वरं तीर्थं चक्रतीर्थमनुत्तमम्

॥२२॥

सङ्गमो नीलगङ्गायाः विध्वंसस्त्रिपुरस्य च ।

कीर्तनं तीर्थदानानां मधुकतृतीयाव्रतम्

॥२३॥

अप्सरेश्वरतीर्थं च देहक्षेपे विधिस्ततः ।

तीर्थं ज्वालेश्वरं नाम ज्वालायाः सङ्गमस्तथा

॥२४॥

शक्रतीर्थं कुशावर्तं हंसतीर्थं तथैव च ।

अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा

॥२५॥

मातृकेश्वरतीर्थं च भृगुतुङ्गानुवर्णनम् ।

तत्र भैरवमाहात्म्यं चपलेश्वरकीर्तनम्

॥२६॥

चण्डपाणेश्च माहात्म्यं कावेरीसङ्गमस्तथा ।

कुबेरेश्वरतीर्थं च वाराहीसङ्गमस्तथा

॥२७॥

सङ्गमश्चण्डवेगायास्तीर्थं चण्डेश्वरं तथा ।

एरण्डीसङ्गमः पुण्य एरण्डेश्वरमुत्तमम्

॥२८॥

पितृतीर्थं च तत्रैव ओङ्कारस्य च सम्भवम् ।

माहात्म्यं पञ्चलिङ्गानामोङ्कारस्य मुनीश्वराः

॥२९॥

कोटितीर्थस्य माहात्म्यं तीर्थं काकह्रदं तथा ।

जम्बुकेश्वरतीर्थं च सारस्वतमतः परम्

॥३०॥

कपिलासङ्गमस्तद्वत्तीर्थं च कपिलेश्वरम् ।

दैत्यसूदनतीर्थं च चक्रतीर्थं च वामनम्

॥३१॥

तीर्थलक्षं विदुः पूर्वे कपिलायास्तु सङ्गमे ।

स्वर्गस्य नरकस्यापि लक्षणं मुनिभाषितम्

॥३२॥

व्यवस्थानं शरीरस्य गोप्रदानानुवर्णनम् ।

अशोकवनिकातीर्थं मतङ्गाश्रमवर्णनम्

॥३३॥

अशोकेश्वरतीर्थं च मतङ्गेश्वरमुत्तमम् ।

तथा मृगवनं पुण्यं तत्र तीर्थं मनोरथम्

॥३४॥

सङ्गमोऽङ्गारगर्ताया अङ्गारेश्वरमुत्तमम् ।

तथा मेघवनं तीर्थं देव्या नामानुकीर्तनम्

॥३५॥

सङ्गमश्चापि कुब्जायास्तीर्थं कुब्जेश्वरं तथा ।

बिल्वाम्रकं तथा तीर्थं पूर्णद्वीपमतः परम्

॥३६॥

तथा हिरण्यगर्भायाः सङ्गमः पुण्यकीर्तनः ।

द्वीपेश्वरं नाम तीर्थं पुण्यं यज्ञेश्वरं तथा

॥३७॥

माण्डव्याश्रमतीर्थं च विशोकासङ्गमस्तथा ।

वागीश्वरं नाम तीर्थं पुण्यो वै वागुसङ्गमः

॥३८॥

सहस्रावर्तकं तत्र तीर्थं सौगन्धिकं तथा ।

सङ्गमश्च सरस्वत्या ईशानं तीर्थमुत्तमम्

॥३९॥

देवतात्रयतीर्थं च शूलखातं ततः परम् ।

ब्रह्मोदं शाङ्करं सौम्यं सारस्वतमतः परम्

॥४०॥

सहस्रयज्ञतीर्थं च कपालमोचनं तथा ।

आग्नेयमदितीशं च वाराहं तीर्थमुत्तमम्

॥४१॥

तथा देवपथं तीर्थं तीर्थं यज्ञसहस्रकम् ।

शुक्लतीर्थं दीप्तिकेशं विष्णुतीर्थं च योधनम्

॥४२॥

नर्मदेश्वरतीर्थं च वरुणेशं च मारुतम् ।

योगेशं रोहिणीतीर्थं दारुतीर्थं च सत्तमाः

॥४३॥

ब्रह्मावर्तं च पत्त्रेशं वाह्नं सौरं च कीर्त्यते ।

मेघनादं दारुतीर्थं देवतीर्थं गुहाश्रयम्

॥४४॥

नर्मदेश्वरसंज्ञं तत्कपिलातीर्थमुत्तमम् ।

करञ्जेशं कुण्डलेशं पिप्पलादमतः परम्

॥४५॥

विमलेश्वरतीर्थं च पुष्करिण्याश्च सङ्गमः ।

प्रशंसा शूलभेदस्य तत्रैवान्धकविक्रमः

॥४६॥

देवाश्वासनदानं च तथैवान्धकनिग्रहः ।

शूलभेदस्य चोत्पत्तिस्तथा पात्रपरीक्षणम्

॥४७॥

प्रशंसा दानधर्मस्य ऋषिशृङ्गानुभावनम् ।

स्वर्गतिं दीर्घतपसो भानुमत्यास्तथेङ्गितम्

॥४८॥

शबरस्वर्गगमनं माहात्म्यं शूलभेदजम् ।

कपिलेश्वरतीर्थं च मोक्षतीर्थमतः परम्

॥४९॥

सङ्गमो मोक्षनद्याश्च तीर्थं च विमलेश्वरम् ।

तथैवोलूकतीर्थं च पुष्करिण्याश्च सङ्गमः

॥५०॥

आदित्येश्वरतीर्थं च तीर्थं वै सङ्गमेश्वरम् ।

सङ्गमो भीमकुल्यायास्तीर्थं भीमेश्वरं शुभम्

॥५१॥

मार्कण्डेश्वरतीर्थं च तथा वै पिप्पलेश्वरम् ।

करोटीश्वरतीर्थं च तीर्थमिन्द्रेश्वरं शुभम्

॥५२॥

अगस्त्येशं कुमारेशं व्यासेश्वरमनुत्तमम् ।

वैद्यनाथं च केदारमानन्देश्वरसंज्ञितम्

॥५३॥

मातृतीर्थं च मुण्डेशं चौरं कामेश्वरं तथा ।

सङ्गमश्चानुदुह्या वै तीर्थे भीमार्जुनाह्वये ।

तीर्थं धर्मेश्वरं नाम लुङ्केश्वरमतः परम्

॥५४॥

ततो धनदतीर्थं च जटेशं मङ्गलेश्वरम् ।

कपिलेश्वरतीर्थं च गोपारेश्वरमुत्तमम्

॥५५॥

मणिनागेश्वरं नाम मणिनद्याश्च सङ्गमः ।

तिलकेश्वरतीर्थं च गौतमेशमतः परम्

॥५६॥

तत्रैव मातृतीर्थं च मुनिनोक्तं मुनीश्वराः ।

शङ्खचूडं च केदारं पाराशरमतः परम्

॥५७॥

भीमेश्वरं च चन्द्रेशमश्ववत्याश्च सङ्गमः ।

बह्वीश्वरं नारदेशं वैद्यनाथं कपीश्वरम्

॥५८॥

कुम्भेश्वरं च मार्कण्डं रामेशं लक्ष्मणेश्वरम् ।

मेघेश्वरं मत्स्यकेशमप्सराह्रदसंज्ञकम्

॥५९॥

दधिस्कन्दं मधुस्कन्दं नन्दिकेशं च वारुणम् ।

पावकेश्वरतीर्थं च तथैव कपिलेश्वरम्

॥६०॥

नारायणाह्वयं तीर्थं चक्रतीर्थमनुत्तमम् ।

चण्डादित्यं परं तीर्थं चण्डिकातीर्थमुत्तमम्

॥६१॥

यमहासाह्वयं तीर्थं तथा गङ्गेश्वरं शुभम् ।

नन्दिकेश्वरसंज्ञं च नरनारायणाह्वयम्

॥६२॥

नलेश्वरं च मार्कण्डं शुक्लतीर्थमतः परम् ।

व्यासेश्वरं परं तीर्थं तत्र सिद्धेश्वरं तथा

॥६३॥

कोटितीर्थं प्रभातीर्थं वासुकीश्वरमुत्तमम् ।

सङ्गमश्च करञ्जाया मार्कण्डेश्वरमुत्तमम्

॥६४॥

तीर्थं कोटीश्वरं नाम तथा संकर्षणाह्वयम् ।

कनकेशं मन्मथेशं तीर्थं चैवानसूयकम्

॥६५॥

एरण्डीसङ्गमः पुण्यो मातृतीर्थं च शोभनम् ।

तीर्थं स्वर्णशलाकाख्यं तथा चैवाम्बिकेश्वरम्

॥६६॥

करञ्जेशं भारतेशं नागेशं मुकुटेश्वरम् ।

सौभाग्यसुन्दरी तीर्थं धनदेश्वरमुत्तमम्

॥६७॥

रोहिण्यं चक्रतीर्थं च उत्तरेश्वरसंज्ञितम् ।

भोगेश्वरं च केदारं निष्कलङ्कमतः परम्

॥६८॥

मार्कण्डं धौतपापं च तीर्थमाङ्गिरसेश्वरम् ।

कोटवीसङ्गमः पुण्यं कोटितीर्थं च तत्र वै

॥६९॥

अयोनिजं परं तीर्थमङ्गारेश्वरमुत्तमम् ।

स्कान्दं च नार्मदं ब्राह्मं वाल्मीकेश्वरसंज्ञितम्

॥७०॥

कोटितीर्थं कपालेशं पाण्डुतीर्थं त्रिलोचनम् ।

कपिलेशं कम्बुकेशं प्रभासं कोहनेश्वरम्

॥७१॥

इन्द्रेशं वालुकेशं च देवेशं शक्रमेव च ।

नागेश्वरं गौतमेशमहल्यातीर्थमुत्तमम्

॥७२॥

रामेश्वरं मोक्षतीर्थं तथा कुशलवेश्वरौ ।

नर्मदेशं कपर्दीशं सागरेशमतः परम्

॥७३॥

धौरादित्यं परं तीर्थं तीर्थं चापरयोनिजम् ।

पिङ्गलेश्वरतीर्थ च भृग्वीश्वरमनुत्तमम्

॥७४॥

दशाश्वमेधिकं तीर्थं कोटितीर्थं च सत्तमाः ।

मार्कण्डं ब्रह्मतीर्थं च आदिवाराहमुत्तमम्

॥७५॥

आशापूराभिधं तीर्थं कौबेरं मारुतं तथा ।

वरुणेशं यमेशं च रामेशं कर्कटेश्वरम्

॥७६॥

शक्रेशं सोमतीर्थं च नन्दाह्रदमनुत्तमम् ।

वैष्णवं चक्रतीर्थं च रामकेशवसंज्ञितम्

॥७७॥

तथैव रुक्मिणीतीर्थं शिवतीर्थमनुत्तमम् ।

जयवाराहर्तीर्थं च तीर्थमस्माहकाह्वयम्

॥७८॥

अङ्गारेशं च सिद्धेशं तपेश्वरमतः परम् ।

पुनः सिद्धेश्वरं नामतीर्थं च वरुणेश्वरम्

॥७९॥

पराशरेश्वरं पुण्यं कुसुमेशमनुत्तमम् ।

कुण्डलेश्वरतीर्थं च तथा कलकलेश्वरम्

॥८०॥

न्यङ्कुवाराहसंज्ञं च अङ्कोलं तीर्थमुत्तमम् ।

श्वेतवाराहतीर्थं च भार्गलं सौरमुत्तमम्

॥८१॥

हुङ्कारस्वामितीर्थं च शुक्लतीर्थं च शोभनम् ।

सङ्गमो मधुमत्याश्च तीर्थं वै सङ्गमेश्वरम्

॥८२॥

नर्मदेश्वरसंज्ञं च नदीत्रितयसङ्गमः ।

अनेकेश्वरतीर्थं च शर्भेशं मोक्षसंज्ञितम्

॥८३॥

कावेरीसङ्गमः पुण्यस्तीर्थं गोपेश्वराह्वयम् ।

मार्कण्डेशं च नागेशमुदम्बर्याश्च सङ्गमः

॥८४॥

साम्बादित्याह्वयं तीर्थमुदम्बर्याश्च सङ्गमः ।

सिद्धेश्वरं च मार्कण्डं तथा सिद्धेश्वरीकृतम्

॥८५॥

गोपेशं कपिलेशं च वैद्यनाथमनुत्तमम् ।

पिङ्गलेश्वरतीर्थं च सैन्धवायतनं महत्

॥८६॥

भूतीश्वराह्वयं तीर्थं गङ्गावाहमतः परम् ।

गौतमेश्वरतीर्थं च दशाश्वमेधिकं तथा

॥८७॥

भृगुतीर्थं तथा पुण्यं ख्याता सौभाग्यसुन्दरी ।

वृषखातं च तत्रैव केदारं धूतपातकम्

॥८८॥

तीर्थं धूतेश्वरीसङ्गमेरण्डीसंज्ञकं तथा ।

तीर्थं च कनकेश्वर्या ज्वालेश्वरं ततः परम्

॥८९॥

शालग्रामाह्वयं तीर्थं सोमनाथमनुत्तमम् ।

तथैवोदीर्णवाराहं तीर्थं चन्द्रप्रभासकम्

॥९०॥

द्वादशादित्यतीर्थं च तथा सिद्धेश्वराभिधम् ।

कपिलेश्वरतीर्थं च तथा त्रैविक्रमं शुभम्

॥९१॥

विश्वरूपाह्वयं तीर्थं नारायणकृतं तथा ।

मूलश्रीपतितीर्थं च चौलश्रीपतिसंज्ञकम्

॥९२॥

देवतीर्थं हंसतीर्थ प्रभासं तीर्थमुत्तमम् ।

मूलस्थानं च कण्ठेशमट्टहासमतः परम्

॥९३॥

भूर्भुवेश्वरतीर्थं च ख्याता शूलेश्वरी तथा ।

सारस्वतं दारुकेशमश्विनोस्तीर्थमुत्तमम्

॥९४॥

सावित्रीतीर्थमतुलं वालखिल्येश्वरं तथा ।

नर्मदेशं मातृतीर्थं देवतीर्थमनुत्तमम्

॥९५॥

मच्छकेश्वरतीर्थं च शिखितीर्थं च शोभनम् ।

कोटितीर्थं मुनिश्रेष्ठास्तत्र कोटीश्वरी मृडा

॥९६॥

तीर्थं पैतामहं नाम माण्डव्ये श्वरसंज्ञितम् ।

तत्र नारायणेशं च अक्रूरेशमतः परम्

॥९७॥

देवखातं सिद्धरुद्रं वैद्यनाथमनुत्तमम् ।

तथैव मातृतीर्थं च उत्तरेशमतः परम्

॥९८॥

तथैव नर्मदेशां च मातृतीर्थं तथा पुनः ।

तथा च कुररीतीर्थं ढौण्ढेशं दशकन्यकम्

॥९९॥

सुवर्णबिन्दुतीर्थं च ऋणपापप्रमोचनम् ।

भारभूतेश्वरं तीर्थं तथा मुण्डीश्वरं विदुः

॥१००॥

एकशालं डिण्डिपाणिं तीर्थं चाप्सरसं परम् ।

मुन्यालयं च मार्कण्डं गणितादेवताह्वयम्

॥१०१॥

आमलेश्वरतीर्थं च तीर्थं कन्थेश्वरं तथा ।

आषाढीतीर्थमित्याहुः शृङ्गीतीर्थं तथैव च

॥१०२॥

बकेश्वरतीर्थं च कपालेशं तथैव च ।

मार्कण्डं कपिलेशं च एरण्डीसङ्गमस्तथा

॥१०३॥

एरण्डीदेवतातीर्थं रामतीर्थमतःपरम् ।

जमदग्नेः परं तीर्थं रेवासागरसङ्गमः

॥१०४॥

लोटनेश्वरतीर्थ तल्लुङ्केशनामकं तथा ।

वृषरखातं तत्र कुण्डं तथैव ऋषिसत्तमाः

॥१०५॥

तथा हंसेश्वरंनाम तिलादं वासवेश्वरम् ।

तथा कोटीश्वरं तीर्थमलिकातीर्थमुत्तमम् ।

विमलेश्वरतीर्थं च रेवासागरसङ्गमे

॥१०६॥

एवं तीर्थावलिः पुण्या मया प्रोक्ता महर्षयः ।

तीर्थसुक्तावलिः पुण्या ग्रथिता तटरज्जुना

॥१०७॥

नर्मदानीरनिर्णिक्ता मार्कण्डेयविनिर्मिता ।

मण्डनायेह साधूनां सर्वलोकहिताय च

॥१०८॥

दरितध्वान्तशमनीधार्या धर्मार्थिभिः सदा ।

अहोरात्रकृतं पापं सकृज्जप्त्वाशु नाशयेत्

॥१०९॥

त्रिकालं जप्त्वा मासोत्थं शिवाग्रे च त्रिमासिकम् ।

मासं जप्त्वाथ वर्षोत्थं वर्षं जप्त्वा शताब्दिकम्

॥११०॥

श्राद्धकाले च विप्राणां भुञ्जतां पुरतः स्थितः ।

पठंस्तीर्थावलिं पुण्यां गयाश्राद्धप्रदो भवेत्

॥१११॥

पूजाकाले च देवानां श्रद्धया पुरतः पठन् ।

प्रीणयेत्सर्वदेवांश्च पुनाति सकलं कुलम्

॥११२॥

एवं तीर्थावलिः पुण्या रेवातीरद्वयाश्रिता ।

मया प्रोक्ता मुनिश्रेष्ठास्तथैवशृणुतानघाः

॥११३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थावलिकथनं त्रिंशदधिकद्विशततमोऽध्यायः ॥