मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८

3
अवन्तीखण्डः · रेवाखण्डः · 18

सप्तभिश्चार्णवैः शुष्कैर्द्वीपैः सप्तभिरेव च

श्रीमार्कण्डेय उवाच

निर्दग्धेऽस्मिंस्ततो लोके सूर्यैरीश्वरसम्भवैः ।

सप्तभिश्चार्णवैः शुष्कैर्द्वीपैः सप्तभिरेव च

॥१॥

ततो मुखात्तस्य घना महोल्बणा निश्चेरुरिन्द्रायुधतुल्यरूपाः ।

घोराः पयोदा जगदन्धकारं कुर्वन्त ईशानवरप्रयुक्ताः

॥२॥

नीलोत्पलाभाः क्वचिदंजनाभा गोक्षीरकुन्देन्दुनिभाश्च केचित् ।

मयूरचन्द्राकृतयस्तथाऽन्ये केचिद्विधूमानलसप्रभाश्च

॥३॥

केचिन्महापर्वतकल्परूपाः केचिन्महामीनकुलोपमाश्च ।

केचिद्गजेन्द्राकृतयः सुरूपाः केचिन्महाकूटनिभाः पयोदाः

॥४॥

चलत्तरङ्गोर्मिसमानरूपा महापुरोधाननिभाश्च केचित् ।

सगोपुराट्टालकसंनिकाशाः सविद्युदुल्काशनिमण्डितान्ताः

॥५॥

समावृताङ्गः स बभूव देवः संवर्तकोनाम गणः स रौद्रः ।

प्रवर्षमाणो जगदप्रमाणमेकार्णवं सर्वमिदं चकार

॥६॥

ततो महामेघविवर्धमानमीशानमिन्द्राशनिभिर्वृताङ्गम् ।

ददर्श नाहं भयविह्वलाङ्गो गङ्गाजलौघैश्च समावृताङ्गः

॥७॥

गजाः पुनश्चैव पुनः पिबन्तो जगत्समन्तात्परिदह्यमानम् ।

आपूरितं चैव जगत्समन्तात्सर्वैश्च तैर्जग्मुरदर्शनं च ते

॥८॥

महार्णवाः सप्त सरांसि द्वीपा नद्योऽथ सर्वा अथ भूर्भुवश्च ।

आपूर्यमाणाः सलिलौघजालैरेकार्णवं सर्वमिदं बभूव

॥९॥

न दृश्यते किंचिदहो चराचरं निरग्निचन्द्रार्कमयेऽपि लोके ।

प्रणष्टनक्षत्रतमोऽन्धकारे प्रशान्तवातास्तमितैकनीडेः

॥१०॥

महाजलौघेऽस्य विशुद्धसत्त्वा स्तुतिर्मया भूप कृता तदानीम् ।

ततोऽहमित्येव विचिन्तयानः शरण्यमेकं क्व नु यामि शान्तम्

॥११॥

स्मरामि देवं हृदि चिन्तयित्वा प्रभुं शरण्यं जलसंनिविष्टः ।

नमामि देवं शरणं प्रपद्ये ध्यानं च तस्येति कृतं मया च

॥१२॥

ध्यात्वा ततोऽहं सलिलं ततार तस्य प्रसादादविमूढचेताः ।

ग्लानिः श्रमश्चैव मम प्रणष्टौ देव्याः प्रसादेन नरेन्द्रपुत्र

॥१३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ॥