मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३७

3
अवन्तीखण्डः · रेवाखण्डः · 137

कर्कटेश्वरतीर्थमाहात्म्यवर्णनम्

मार्कण्डेय उवाच

धर्मपुत्र ततो गच्छेत्कर्कटेश्वरमुत्तमम् ।

उत्तरे नर्मदाकूले सर्वपापक्षयंकरम्

॥१॥

तत्र स्नात्वा विधानेन यस्तु पूजयते शिवम् ।

अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम्

॥२॥

तस्य तीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ।

न तद्वर्णयितुं शक्यं संक्षेपेण वदाम्यतः

॥३॥

तत्र तीर्थे तु यः कुर्यात्किंचित्कर्म शुभाशुभम् ।

हर्षान्मदान्महाराज तत्सर्वं जायतेऽक्षयम्

॥४॥

तत्र तीर्थे तपस्तप्त्वा वालखिल्या मरीचयः ।

रमन्तेऽद्यापि लोकेषु स्वेच्छया कुरुनन्दन

॥५॥

तत्रस्थास्तन्न जानन्ति नराज्ञानबहिष्कृताः ।

शरीरस्थमिवात्मानमक्षयं ज्योतिरव्ययम्

॥६॥

तत्र तीर्थे नृपश्रेष्ठ देवी नारायणी पुरा ।

अद्यापि तपते घोरं तपो यावत्किलार्बुदम्

॥७॥

तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।

तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः

॥८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्कटेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥