मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५

3
अवन्तीखण्डः · रेवाखण्डः · 15

सृष्टिसंहरणसंरम्भवर्णनम्

श्रीमार्कण्डेय उवाच

ततो मातृसहस्रैश्च रौद्रैश्च परिवारिता ।

कालरात्रिर्जगत्सर्वं हरते दीप्तलोचना

॥१॥

ततस्ता मातरो घोरा ब्रह्मविष्णुशिवात्मिकाः ।

वाय्विन्द्रानलकौबेरा यमतोयेशशक्तयः

॥२॥

स्कन्दक्रोडनृसिंहानां विचरन्त्यो भयानकाः ।

चक्रशूलगदाखड्गवज्रशक्त्यृष्टिपट्टिशैः

॥३॥

खट्वाङ्गैरुल्मुकैर्दीप्तैर्व्यचरन्मातरः क्षये ।

उमासंनोदिता सर्वाः प्रधावन्त्यो दिशो दश

॥४॥

तासां चरणविक्षेपैर्हुङ्कारोद्गारनिस्वनैः ।

त्रैलोक्यमेतत्सकलं विप्रदग्धं समन्ततः

॥५॥

हाहारवाक्रन्दितनिस्वनैश्च प्रभिन्नरथ्यागृहगोपुरैश्च ।

बभूव घोरा धरणी समन्तात्कपालकोशाकुलकर्बुराङ्गी

॥६॥

यदेतच्छतसाहस्रं जम्बूद्वीपं निगद्यते ।

सर्वमेव तदुच्छन्नं समाधृष्य नृपोत्तम

॥७॥

जम्बुं शाकं कुशं क्रौञ्चं गोमेदं शाल्मलिस्तथा ।

पुष्करद्वीपसहिता ये च पर्वतवासिनः

॥८॥

ते ग्रस्ता मृत्युना सर्वे भूतैर्मातृगणैस्तथा ।

महासुरकपालैश्च मांसमेदोवसोत्कटैः

॥९॥

रुधिरोद्गारशोणाङ्गी महामाया सुभीषणा ।

पिबन्ती रुधिरं तत्र महामांसवसाप्रिया

॥१०॥

कपालहस्ता विकटा भक्षयन्ती सुरासुरान् ।

नृत्यन्ती च हसन्ती च विपरीता महारवा

॥११॥

त्रैलोक्यसंत्रासकरी विद्युत्संस्फोटहासिनी ।

सप्तद्वीपसमुद्रान्तां भक्षयित्वा च मेदिनीम्

॥१२॥

ततः स्वस्थानमगमद्यत्र देवो महेश्वरः ।

नर्मदातीरमाश्रित्यावसन्मातृगणैः सह

॥१३॥

अमराणां कटे तुङ्गे नृत्यन्ती हसितानना ।

अमरा देवताः प्रोक्ताः शरीरं कटमुच्यते

॥१४॥

तैः कटैरावृतो यस्मात्पर्वतोऽयं नृपोत्तम ।

छिन्नभिन्नास्थिनिकरैर्वसामेदोऽस्रविप्लुतैः

॥१५॥

अमरंकट इत्येवं तेन प्रोक्तो मनीषिभिः ।

महापवित्रो लोकेषु शम्भुना स विनिर्मितः

॥१६॥

नित्यं संनिहितस्तत्र शङ्करो ह्युमया सह ।

ततोऽहं नियतस्तत्र तस्य पादाग्रसंस्थितः

॥१७॥

प्रह्वः प्रणतभावेन स्तौमि तं नीललोहितम् ।

ततस्तालकसम्पातैर्गणैर्मातृगणैः सह

॥१८॥

संप्रनृत्यति संहृष्टो मृत्युना सह शङ्करः ।

खट्वाङ्गैरुल्मुकैश्चैव पट्टिशैः परिघैस्तथा

॥१९॥

मांसमेदोवसाहस्ता हृष्टा नृत्यन्ति संघशः ।

वामना जटिला मुण्डा लम्बग्रीवोष्ठमूर्द्धजाः

॥२०॥

महाशिश्नोदरभुजा नृत्यन्ति च हसन्ति च ।

विकृतैराननैर्घोरैरर्भुजोल्बणमुखादिभिः

॥२१॥

अमरं कण्टकं चक्रुः प्राप्ते कालविपर्यये ।

तेषां मध्ये महाघोरं जगत्सन्त्रासकारणम्

॥२२॥

मृत्युं पश्यामि नृत्यन्तं तडित्पिङ्गलमूर्द्धजम् ।

तस्य पार्श्वे स्थितां देवीं विमलाम्बरभूषिताम्

॥२३॥

कुण्डलोद्घुष्टगण्डां तां नागयज्ञोपवीतिनीम् ।

विचित्रैरुपहारैश्च पूजयन्तीं महेश्वरम्

॥२४॥

अपश्यं नर्मदां तत्र मातरं विश्ववन्दिताम् ।

नानातरङ्गां सावर्तां सुवेलार्णवसंनिभाम्

॥२५॥

महासरःसरित्पातैरदृश्यां दृश्यरूपिणीम् ।

वन्द्यमानां सुरैः सिद्धैर्मुनिसङ्घैश्च भारत

॥२६॥

एतस्मिन्नन्तरे घोरां सप्तसप्तकसंज्ञिताम् ।

महावीच्यौघफेनाढ्यां कुर्वन्तीं सजलं जगत्

॥२७॥

दृष्टवान्नर्मदां देवीं मृगकृष्णाम्बरां पुनः ।

सधूमाशनिनिर्ह्रादैर्वहन्तीं सप्तधा तदा

॥२८॥

इति संहारमतुलं दृष्टवान्राजसत्तम ।

नष्टचन्द्रार्ककिरणमभूदेतच्चराचरम्

॥२९॥

महोत्पातसमुद्भूतं नष्टनक्षत्रमण्डलम् ।

अलातचक्रवत्तूर्णमशेषं भ्रामयंस्ततः

॥३०॥

विमानकोटिसंकीर्णः स किंनरमहोरगः ।

महावातः सनिर्घातो येनाकम्पच्चराचरम्

॥३१॥

रुद्रवक्त्रात्समुद्भूतः संवर्तो नाम विश्रुतः ।

वायुः संशोषयामास विततन् सप्तसागरान्

॥३२॥

उद्धूलिताङ्गः कपिलाक्षमूर्द्धजो जटाकलापैरवबद्धमूर्द्धजः ।

महारवो दीप्तविशालशूलधृक्स पातु युष्मांश्च दिने दिने हरः

॥३३॥

शूली धनुष्मान्कवची किरीटी श्मशानभस्मोक्षितसर्वगात्रः ।

कपालमालाकुलकण्ठनालो महाहिसूत्रैरवबद्धमौलिः

॥३४॥

स गोनसौघैः परिवेष्टिताङ्गो विषाग्निचन्द्रामरसिन्धुमौलिः ।

पिनाकखण्टूवाङ्गकरालपाणिः स कृत्तिवासा डमरुप्रणादः

॥३५॥

स सप्तलोकान्तरनिःसृतात्मा महभुजावेष्टितसर्वगात्रः ।

नेत्रेण सूर्योदयसन्निभेन प्रवालकाङ्कूरनिभोदरेण

॥३६॥

सन्ध्याभ्ररक्तोत्पलपद्मरागसिन्दूरविद्युत्प्रकरारुणेन ।

ततेन लिङ्गेन च लोचनेन चिक्रीडमानः स युगान्तकाले

॥३७॥

हिरण्मयेनैव समुत्सृजन् स दण्डेन यद्वद्भगवान् समेरुः ।

पादाग्रविक्षेपविशीर्णशैलः कुर्वञ्जगत्सोऽपि जगाम तत्र

॥३८॥

संहर्तुकामस्त्रिदिवं त्वशेषं प्रमुञ्चमानो विकृताट्टहासम् ।

जहार सर्वं त्रिदिवं महात्मा संक्षोभयन्वै जगदीश एकः

॥३९॥

तं देवमीशानमजं वरेण्यं दृष्ट्वा जगत्संहरणं महेशम् ।

सा कालरात्रिः सह मातृभिश्च गणाश्च सर्वे शिवमर्चयन्ति

॥४०॥

नन्दी च भृङ्गी च गणादयश्च तं सर्वभूतं प्रणमन्ति देवम् ।

जागद्वरं सर्वजनस्य कारणं हरं स्मरारातिमहर्निशं ते

॥४१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सृष्टिसंहरणसंरम्भवर्णनं नाम पञ्चदशोऽध्यायः ॥