मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १८०

3
अवन्तीखण्डः · रेवाखण्डः · 180

तीर्थं सर्वगुणोपेतं महापातकनाशनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल दशाश्वमेधिकं परम् ।

तीर्थं सर्वगुणोपेतं महापातकनाशनम्

॥१॥

यत्र गत्वा महाराज स्नात्वा सम्पूज्य चेश्वरम् ।

दशानामश्वमेधानां फलं प्राप्नोति मानवः

॥२॥

युधिष्ठिर उवाच

अश्वमेधो महायज्ञो बहुसम्भारदक्षिणः ।

अशक्यः प्राकृतैः कर्तुं कथं तेषां फलं लभेत्

॥३॥

अत्याश्चर्यमिदं तत्त्वं त्वयोक्तं वदता सता ।

यथा मे जायते श्रद्धा दीर्घायुस्त्वं तथा वद

॥४॥

मार्कण्डेय उवाच

इदमाश्चर्यभूतं हि गौर्या पृष्टस्त्रियम्बकः ।

तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते निपुणाय वै

॥५॥

पुरा वृषस्थो देवेश ह्युमया सह शङ्करः ।

कदाचित्पर्यटन्पृथिवीं नर्मदातटमाश्रितः

॥६॥

दशाश्वमेधिकं तीर्थं दृष्ट्वा देवो महेश्वरः ।

तीर्थं प्रत्यञ्जलिं बद्ध्वा नमश्चक्रे त्रिलोचनः

॥७॥

कृताञ्जलिपुटं देवं दृष्ट्वा देवीदमब्रवीत्

॥८॥

देव्युवाच

किमेतद्देवदेवेश चराचरनमस्कृत ।

प्रह्वनम्राञ्जलिं बद्ध्वा भक्त्या परमया युतः

॥९॥

एतदाश्चर्यमतुलं सर्वं कथय मे प्रभो

॥१०॥

ईश्वर उवाच

प्रत्यक्षं पश्य तीर्थस्य फलं मा विस्मिता भव ।

वियत्स्था मे भुविस्थस्य क्षणं देवि स्थिरा भव

॥११॥

एवमुक्त्वा तु देवेशो गौरवर्णो द्विजोऽभवत् ।

क्षुत्क्षामकण्ठो जटिलः शुष्को धमनिसंततः

॥१२॥

उपविश्य भुवः पृष्ठे सुस्वरं मन्त्रमुच्चरन् ।

क्रमप्रियो महादेवो माधुर्येण प्रमोदयन्

॥१३॥

श्रुत्वा तां मधुरां वाणीं स्वयं देवेन निर्मिताम् ।

संभ्रान्ता ब्राह्मणाः सर्वे स्नातुं ये तत्र चागताः

॥१४॥

नित्यक्रिया च सर्वेषां विस्मृता श्रुतिविभ्रमात् ।

तं दृष्ट्वा पठमानं तु क्षुत्पिपासाभिपीडितम्

॥१५॥

द्विजोऽन्यमन्त्रयत्कश्चिद्भक्त्या तं भोजनाय वै ।

प्रसादः क्रियतां ब्रह्मन्भोजनाय गृहे मम

॥१६॥

अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ।

सर्वान्कामान्प्रदास्यन्ति प्रीता मेऽद्य पितामहाः

॥१७॥

त्वयि भुक्ते द्विजश्रेष्ठ प्रसीद त्वं ध्रुवं मम ।

एवमुक्तो महादेवो द्विजरूपधरस्तदा

॥१८॥

प्रहस्य प्रत्युवाचेदं ब्राह्मणं श्लक्ष्णया गिरा ।

मया वर्षसहस्रं तु निराहारं तपः कृतम्

॥१९॥

इदानीं तु गृहे तस्य करिष्ये द्विजसत्तम ।

दशभिर्वाजिमेधैश्च येनेष्टं पारणं तथा

॥२०॥

इत्युक्तो देवदेवेन ब्राह्मणो विस्मयान्वितः ।

उत्तमाङ्गं विधुन्वन्वै जगाम स्वगृहं प्रति

॥२१॥

एवं ते बहवो विप्राः प्रत्याख्याते निमन्त्रणे ।

पुराणार्थमजानन्तो नास्तिका बहवो गताः

॥२२॥

अथ कश्चिद्द्विजो विद्वान्पुराणार्थस्य तत्त्ववित् ।

देवं निमन्त्रयामास द्विजरूपधरं शिवम्

॥२३॥

तथैव सोऽपि देवेन प्रोक्तः स प्राह तं पुनः ।

मनसा चिन्तयित्वा तु पुराणोक्तं द्विजोत्तमः

॥२४॥

स्मृतिवेदपुराणेषु यदुक्तं तत्तथा भवेत् ।

इति निश्चित्य तं विप्रमुवाच प्रहसन्निव

॥२५॥

भोभो विप्र प्रतीक्षस्व यावदागमनं पुनः ।

इत्युक्त्वा तु द्विजो गत्वा दशाश्वमेधिकं परम्

॥२६॥

स्नानं महालम्भनादि कृतं तेन द्विजन्मना ।

जपं श्राद्धं तथा दानं कृत्वा धर्मानुसारतः

॥२७॥

संकल्प्य कपिलां तत्र पुराणोक्तविधानतः ।

समायात्त्वरितं तत्र यत्रासौ तिष्ठते द्विजः

॥२८॥

अथागत्य द्विजं प्राह वाजिमेधः कृतो मया ।

उत्तिष्ठ मे गृहं रम्यं भोजनार्थं हि गम्यताम्

॥२९॥

इत्युक्तः शङ्करस्तेन ब्राह्मणेनातिविस्मितः ।

उवाच ब्राह्मणं देव इदानीं त्वमितो गतः

॥३०॥

द्विजवर्य कथं चेष्टा दश यज्ञा महाधनाः

॥३१॥

द्विज उवाच

न विचारस्त्वया कार्यः कृता यज्ञा न संशयः ।

यदि वेदाः प्रमाणं तं भुवि देवा द्विजास्तथा

॥३२॥

दशाश्वमेधिकं तीर्थं तथा सत्यं द्विजोत्तम ।

यदि वेदपुराणोक्तं वाक्यं निःसंशयं भवेत्

॥३३॥

तदा प्राप्तं मया सर्वं नात्र कार्या विचारणा ।

एवमुक्तस्तु देवेश आस्तिक्यं तस्य चेतसः

॥३४॥

विमृश्य बहुभिः किंचिदुत्तरं न प्रपद्यत ।

जगाम तद्गृहं रम्यं पठन्ब्रह्म सनातनम्

॥३५॥

सम्प्राप्तं तं द्विजं भक्त्या पाद्यार्घ्येण तमर्चयत् ।

षड्रसं भोजनं तेन दत्तं पश्चाद्यथाविधि

॥३६॥

ततो भुक्ते महादेवे सर्वदेवमये शिवे ।

पुष्पवृष्टिः पपाताशु गगनात्तस्य मूर्धनि ।

तस्यास्तिक्यं तु संलक्ष्य तुष्टः प्रोवाच शङ्करः

॥३७॥

ईश्वर उवाच

किं तेऽद्य क्रियतां ब्रूहि वरदोऽहं द्विजोत्तम ।

अदेयमपि दास्यामि एकचित्तस्य ते ध्रुवम्

॥३८॥

ब्राह्मण उवाच

यदि प्रीतोऽसि मे देव यदि देयो वरो मम ।

अस्मिंस्तीर्थे महादेव स्थातव्यं सर्वदैव हि

॥३९॥

उपकाराय देवेश एष मे वर उत्तमः ।

एवमुक्तस्तु देवेन आरुरोह द्विजोत्तमः

॥४०॥

गन्धर्वाप्सरःसम्बाधं विमानं सार्वकामिकम् ।

पूज्यमानो गतस्तत्र यत्र लोका निरामयाः

॥४१॥

मार्कण्डेय उवाच

एतदाश्चर्यमतुलं दृष्ट्वा देवी सुविस्मिता ।

विस्मयोत्फुल्लनयना पुनः पप्रच्छ शङ्करम्

॥४२॥

पार्वत्युवाच

कथमेतद्भवेत्सत्यं यत्रेदमसमञ्जसम् ।

स्नानं कुर्वन्ति बहवो लोका ह्यत्र महेश्वर

॥४३॥

तेषां तु स्वर्गगमनं यथैष स्वर्गतिं गतः ।

कथमेतत्समाचक्ष्व विस्मयः परमो मम

॥४४॥

एतच्छ्रुत्वा तु देवेशः प्रहसन्प्रत्युवाच ताम् ।

वेदवाक्ये पुराणार्थे स्मृत्यर्थे द्विजभाषिते

॥४५॥

विस्मयो हि न कर्तव्यो ह्यनुमानं हि तत्तथा ।

असंभाव्यं हि लोकानां पुराणे यत्प्रगीयते

॥४६॥

यदि पक्षं पुरस्कृत्य लोकाः कुर्वन्ति पार्वति ।

तस्मान्न सिद्धिरेतेषां भवत्येको न विस्मयः

॥४७॥

नास्तिका भिन्नमर्यादा ये निश्चयबहिष्कृताः ।

तेषां सिद्धिर्न विद्येत आस्तिक्याद्भवते ध्रुवम्

॥४८॥

श्रुत्वाख्यानमिदं देवी ववन्दे तीर्थमुत्तमम् ।

सर्वपापहरं पुण्यं नर्मदायां व्यवस्थितम्

॥४९॥

मार्कण्डेय उवाच

दशाश्वमेधं राजेन्द्र सर्वतीर्थोत्तमोत्तमम् ।

तीर्थं सर्वगुणोपेतं महापातकनाशनम्

॥५०॥

तत्रागता महाभागा स्नातुकामा सरस्वती ।

पुण्यानां परमा पुण्या नदीनामुत्तमा नदी

॥५१॥

नाममात्रेण यस्यास्तु सर्वपापैः प्रमुच्यते ।

स्नातास्तत्र दिवं यान्ति ये मृतास्तेऽपुनर्भवाः

॥५२॥

दशाश्वमेधे सा राजन्नियता ब्रह्मचारिणी ।

आराधयित्वा देवेशं परं निर्वाणमागतीः

॥५३॥

कालुष्यं ब्रह्मसम्भूता संवत्सरसमुद्भवम् ।

प्रक्षालयितुमायाति दशम्यामाश्विनस्य च

॥५४॥

उपोष्य रजनीं तां तु सम्पूज्य त्रिपुरान्तकम् ।

राजन्निष्कल्मषा यान्ति श्वोभूते शाश्वतं पदम्

॥५५॥

युधिष्ठिर उवाच

सरस्वती महापुण्या नदीनामुत्तमा नदी ।

श्रीमार्कण्डेय उवाच - राजन्नाश्वयुजे मासि दशम्यां तद्विशिष्यते ।

पार्थिवेषु च तीर्थे तु सर्वेष्वेव न संशयः

॥५६॥

दशाश्वमेधिके राजन्नित्यं हि दशमी शुभा ।

विशेषादाश्विने शुक्ला महापातकनाशिनी

॥५७॥

तस्या स्नात्वार्चयेद्देवानुपवासपरायणः ।

श्राद्धं कृत्वा विधानेन पश्चात्सम्पूजयेच्छिवम्

॥५८॥

तत्रस्थां पूजयेद्देवीं स्नातुकामां सरस्वतीम् ।

नमो नमस्ते देवेशि ब्रह्मदेहसमुद्भवे

॥५९॥

कुरु पापक्षयं देवि संसारान्मां समुद्धर ।

गन्धधूपैश्च सम्पूज्य ह्यर्चयित्वा पुनःपुनः

॥६०॥

दश प्रदक्षिणा दत्त्वा सूत्रेण परिवेष्टयेत् ।

कपिलां तु ततो विप्रे दद्याद्विगतमत्सरः

॥६१॥

सर्वलक्षणसम्पन्नां सर्वोपस्करसंयुताम् ।

दत्त्वा विप्राय कपिलां न शोचति कृताकृते

॥६२॥

पश्चाज्जागरणं कुर्याद्घृतेनाज्वाल्य दीपकम् ।

पुराणपठनेनैव नृत्यगीतविवादनैः

॥६३॥

वेदोक्तैश्चैव पूजयेच्छशिशेखरम् ।

प्रभाते विमले पश्चात्स्नात्वा वै नर्मदाजले

॥६४॥

ब्राह्मणान् भोजयेद्भक्त्या शिवभक्तांश्च योगिनः ।

एवं कृते ततो राजन् सम्यक्तीर्थफलं लभेत्

॥६५॥

तत्र तीर्थे तु यः स्नात्वा पूजयेच्छङ्करं नरः ।

दशाश्वमेधावभृथं लभते पुण्यमुत्तमम्

॥६६॥

पूतात्मा तेन पुण्येन रुद्रलोकं स गच्छति ।

आरूढः परमं यानं कामगं च सुशोभनम्

॥६७॥

तत्र दिव्याप्सरोभिस्तु वीज्यमानोऽथ चामरैः ।

क्रीडते सुचिरं कालं जयशब्दादिमङ्गलैः

॥६८॥

ततोऽवतीर्णः कालेन इह राजा भवेद्ध्रुवम् ।

हस्त्यश्वरथसम्पन्नो महाभोगी परंतपः

॥६९॥

दशाश्वमेधे यद्दानं दीयते शिवयोगिनाम् ।

दशाश्वमेधसदृशं भवेत्तन्नात्र संशयः

॥७०॥

सर्वेषामेव यज्ञानामश्वमेधो विशिष्यते ।

दुर्लभः स्वल्पवित्तानां भूरिशः पापकर्मणाम्

॥७१॥

तत्र तीर्थे तु राजेन्द्र दुर्लभोऽपि सुरासुरैः ।

प्राप्यते स्नानदानेन इत्येवं शङ्करोऽब्रवीत्

॥७२॥

अकामो वा सकामो वा मृतस्तत्र नरेश्वर ।

देवत्वं प्राप्नुयात्सोऽपि नात्र कार्या विचारणा

॥७३॥

अग्निप्रवेशं यः कुर्यात्तत्र तीर्थे नरोत्तम ।

अग्निलोके वसेत्तावद्यावदाभूतसम्प्लवम्

॥७४॥

जलप्रवेशं यः कुर्यात्तत्र तीर्थे नराधिप ।

ध्यायमानो महादेवं वारुणं लोकमाप्नुयात्

॥७५॥

दशाश्वमेधे यः कश्चिच्छूरवृत्त्या तनुं त्यजेत् ।

अक्षया नु गतिस्तस्य इत्येवं श्रुतिनोदना

॥७६॥

न तां गतिं यान्ति भृगुप्रपातिनो न दण्डिनो नैव च सांख्ययोगिनः ।

ध्वजाकुले दुन्दुभिशङ्खनादिते क्षणेन यां यान्ति महाहवे मृताः

॥७७॥

यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः ।

अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते

॥७८॥

दशाश्वमेधे संन्यासं यः करोति विधानतः ।

अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन

॥७९॥

दशाश्वमेधे यत्पुण्यं संक्षेपेण युधिष्ठिर ।

कथितं परया भक्त्या सर्वपापप्रणाशनम्

॥८०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दशाश्वमेधतीर्थमाहात्म्यवर्णनं नामाशीत्युत्तरशततमोऽध्यायः ॥