मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८६

3
अवन्तीखण्डः · रेवाखण्डः · 86

पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महाराज पिङ्गलावर्तमुत्तमम् ।

सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे ।

हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः

॥१॥

युधिष्ठिर उवाच

हव्यवाहेन भगवन्नीश्वरः स्थापितः कथम् ।

एतदाख्याहि मे सर्वं प्रसादाद्वक्तुमर्हसि

॥२॥

मार्कण्डेय उवाच

शम्भुना रेतसा राजंस्तर्पितो हव्यवाहनः ।

प्राप्तसौख्येन रौद्रेण गौर्याक्रीडनचेतसा

॥३॥

हव्यवाहमुखे क्षिप्तं रुद्रेणामिततेजसा ।

रुद्रस्य रेतसा दग्धस्तीर्थयात्राकृतादरः

॥४॥

सागरांश्च नदीर्गत्वा क्रमाद्रेवां समागतः ।

चचार परया भक्त्या ध्यानमुग्रं हुताशनः

॥५॥

वायुभक्षः शतं साग्रं यावत्तेपे हुताशनः ।

तावत्तुष्टो महादेवो वरदो जातवेदसः ।

संनिधौ समुपेत्याथ वचनं चेदमब्रवीत्

॥६॥

ईश्वर उवाच

वरं वृणीष्व हव्याश यस्ते मनसि वर्तते

॥७॥

वह्निरुवाच

नमस्ते सर्वलोकेश उग्रमूर्ते नमोऽस्तु ते ।

रेतसा तव संदग्धः कुष्ठी जातो महेश्वर ।

कृपां कुरु महादेव मम रोगं विनाशय

॥८॥

ईश्वर उवाच

हव्यवाह भवारोगो मत्प्रसादाच्च सत्वरम् ।

अत्र तीर्थे कृतस्नानः स्वरूपं प्रतिपत्स्यसे

॥९॥

इत्युक्त्वा च महादेवस्तत्रैवान्तरधीयत ।

अनन्तरं हव्यवाहः सस्नौ रेवाजले त्वरन्

॥१०॥

तदैव रोगनिर्मुक्तोऽभवद्दिव्यस्वरूपवान् ।

स्थापयामास देवेशं स वह्निः पिङ्गलेश्वरम्

॥११॥

नाम्ना संपूजयामास तुष्टाव स्तुतिभिर्मुदा ।

ततो जगाम देशं स्वं देवानां हव्यवाहनः

॥१२॥

हव्यवाहेन भूपैवं स्थापितः पिङ्गलेश्वरः ।

जितक्रोधो हि यस्तत्र उपवासं समाचरेत्

॥१३॥

अतिरान्त्रफलं तस्य अन्ते रुद्रत्वमाप्नुयात् ।

गुणान्विताय विप्राय कपिलां तत्र भारत

॥१४॥

अलंकृत्य सवत्सां च शक्त्यालङ्कारभूषिताम् ।

यः प्रयच्छति राजेन्द्र स गच्छेत्परमां गतिम्

॥१५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पिङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नाम षडशीतितमोऽध्यायः ॥