मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १३१

3
अवन्तीखण्डः · रेवाखण्डः · 131

यत्र सिद्धा महानागा भये जाते ततो नृप

श्रीमार्कण्डेय उवाच

नर्मदादक्षिणे कूले नागतीर्थमनुत्तमम् ।

यत्र सिद्धा महानागा भये जाते ततो नृप

॥१॥

युधिष्ठिर उवाच

महाभयानां लोकस्य नागानां द्विजसत्तम ।

कथं जातं भयं तीव्रं येन ते तपसि स्थिताः

॥२॥

भूतं भव्यं भविष्यच्च यत्सुरासुरमानवे ।

तात ते विदितं सर्वं तेन मे कौतुकं महत्

॥३॥

मम संतापजं दुःखं दुर्योधनसमुद्भवम् ।

तव वक्त्राम्बुजौघेन प्लावितं निर्वृतिं गतम्

॥४॥

श्रुत्वा तव मुखोद्गीतां कथां पापप्रणाशनीम् ।

भूयो भूयः स्मृतिर्जाता श्रवणे मम सुव्रत

॥५॥

न क्लेशत्वं द्विजे युक्तं न चान्यो जानते फलम् ।

विद्यादानस्य महतः श्रावितस्य सुतस्य च

॥६॥

एवं ज्ञात्वा यथान्यायं यः प्रश्नः पृच्छितो मया ।

कथा तु कथ्यतां विप्र दयां कृत्वा ममोपरि

॥७॥

मार्कण्डेय उवाच

यथा यथा त्वं नृप भाषसे च तथा तथा मे सुखमेति भारती ।

शैथिल्यभावाज्जरयान्वितस्य त्वत्सौहृदं नश्यति नैव तात

॥८॥

कथयामि यथावृत्तमितिहासं पुरातनम् ।

कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत

॥९॥

द्वे भार्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे ।

गरुत्मतो वै विनता सर्पाणां कद्रुरेव च

॥१०॥

अश्वसंदर्शनात्ताभ्यां कलिरूपं व्यवस्थितम् ।

प्रभातकाले राजेन्द्र भास्कराकारवर्चसम्

॥११॥

तं दृष्ट्वा विनता रूपमश्वं सर्वत्र पाण्डुरम् ।

अथ तां कद्रूमवोचत्सा पश्य पश्य वरानने

॥१२॥

उच्चैःश्रवसः सादृश्यं पश्य सर्वत्र पाण्डुरम् ।

धावमानमविश्रान्तं जवेन पवनोपमम्

॥१३॥

तं दृष्ट्वा सहसा यान्तमीर्ष्याभावेन मोहिता ।

कृष्णं मत्वा तथाजल्पत्तया सह नृपोत्तम

॥१४॥

विनते त्वं मृषा लोके नृशंसे कुलपांसनि ।

कृष्णं चैनं वद श्वेतं नरकं यास्यसे परम्

॥१५॥

विनतोवाच

सत्यानृते तु वचने पणोऽयं ते ममैव तु ।

सहस्रं वत्सरान्दासी भवेयं तव वेश्मनि

॥१६॥

तथेति ते प्रतिज्ञाय रात्रौ गत्वा स्वकं गृहम् ।

परित्यज्य उभे ते तु क्रोधमूर्छितमूर्छिते

॥१७॥

बन्धुगर्वस्य गत्वा तु कथयामास तं पणम् ।

कद्रूर्विनतया सार्द्धं यद्वृत्तं प्रमदालये

॥१८॥

तच्छ्रुत्वा बान्धवाः सर्वे कद्रूपुत्रास्तथैव च ।

न मन्यन्ते हितं कार्यं कृतं मात्रा विगर्हितम्

॥१९॥

अकृष्णः कृष्णतामम्ब कथं गच्छेद्धयोत्तमः ।

दासत्वं प्राप्स्यसे त्वं हि पणेनानेन सुव्रते

॥२०॥

कद्रूरुवाच

भवेयं न यथादासी तत्कुरुध्वं हि सत्वरम् ।

विशध्वं रोमकूपेषु तस्याश्वस्य मतिर्मम

॥२१॥

क्षणमात्रं कृते कार्ये सा दासी च भवेन्मम ।

ततः स्वस्थोरगाः सर्वे भविष्यथ यथासुखम्

॥२२॥

सर्पा ऊचुः

यथा त्वं जननी देवि पन्नगानां मता भुवि ।

तथापि सा विशेषेण वञ्चितव्या न कर्हिचित्

॥२३॥

कद्रूरुवाच

मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः ।

हव्यवाहमुखं सर्वे ते यास्यन्त्यविचारिताः

॥२४॥

एतच्छ्रुत्वा तु वचनं घोरं मातृमुखोद्भवम् ।

केचित्प्रविष्टा रोमाणि तथान्ये गिरिसंस्थिताः

॥२५॥

केचित्प्रविष्टा जाह्नव्यामन्ये च तपसि स्थिताः

॥२६॥

ततो वर्षसहस्रान्ते तुतोष परमेश्वरः ।

महादेवो जगद्धाता ह्युवाच परया गिरा

॥२७॥

भो भोः सर्पा निवर्तध्वं तपसोऽस्य महत्फलम् ।

यमिच्छथ ददाम्यद्य नात्र कार्या विचारणा

॥२८॥

सर्पा ऊचुः

कद्रूशापभयाद्भीता देवदेव महेश्वर ।

तव पार्श्वे वसिष्यामो यावदाभूतसम्प्लवम्

॥२९॥

देवदेव उवाच

एकश्चायं महाबाहुर्वासुकिर्भुजगोत्तमः ।

मम पार्श्वे वसेन्नित्यं सर्वेषां भयरक्षकः

॥३०॥

अन्येषां चैव सर्पाणां भयं नास्ति ममाज्ञया ।

आप्लुत्य नर्मदातोये भुजगास्ते च रक्षिताः

॥३१॥

नास्ति मृत्युभयं तेषां वसध्वं यत्र चेप्सितम् ।

कद्रूशापभयं नास्ति ह्येष मे विस्तरः परः

॥३२॥

एवं दत्त्वा वरं तेषां देवदेवो महेश्वरः ।

जगामाकाशमाविश्य कैलासं धरणीधरम्

॥३३॥

गते चादर्शनं देवे वासुकिप्रमुखा नृप ।

स्थापयित्वा तथा जग्मुर्देवदेवं महेश्वरम्

॥३४॥

तत्र तीर्थे तु यः कश्चित्पञ्चम्यामर्चयेच्छिवम् ।

तस्य नागकुलान्यष्टौ न हिंसन्ति कदाचन

॥३५॥

मृतः कालेन महता तत्र तीर्थे नरेश्वर ।

शिवस्यानुचरो भूत्वा वसते कालमीप्सितम्

॥३६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः ॥