देवतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
नर्मदादक्षिणे कूले देवतीर्थमनुत्तमम् ।
तत्र देवैः समागत्य तोषितः परमेश्वरः
॥१॥तत्र तीर्थे तु यः स्नात्वा कामक्रोधविवर्जितः ।
स लभेन्नात्र सन्देहो गोसहस्रफलं ध्रुवम्
॥२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम त्रिंशदधिकशततमोऽध्यायः ॥