मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १६६

3
अवन्तीखण्डः · रेवाखण्डः · 166

आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम्

मार्कण्डेय उवाच

ततः सिद्धेश्वरी देवी वैष्णवी पापनाशिनी ।

आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम्

॥१॥

तत्र तीर्थे नरः स्नात्वा पूजयेत्पितृदेवताः ।

देवीं पश्यति यो भक्त्या मुच्यते सर्वपातकैः

॥२॥

मृतवत्सा तु या नारी वन्ध्या स्त्रीजननी तथा ।

पुत्रं सा लभते नारी शीलवन्तं गुणान्वितम्

॥३॥

तत्र तीर्थे तु यः स्नात्वा पश्येद्देवीं सुभक्तितः ।

अष्टम्यां वा चतुर्दश्यां सर्वकालेऽथवा नृप

॥४॥

सङ्गमे तु ततः स्नाता नारी वा पुरुषोऽपि वा ।

पुत्रं धनं तथा देवी ददाति परितोषिता

॥५॥

गोत्ररक्षां प्रकुरुते दृष्टा देवी सुपूजिता ।

प्रजां च पाति सततं पूज्यमाना न संशयः

॥६॥

नवम्यां च महाराज स्नात्वा देवीमुपोषितः ।

पूजयेत्परया भक्त्या श्रद्धापूतेन चेतसा

॥७॥

स गच्छेत्परमं लोकं यः सुरैरपि दुर्लभः

॥८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥