मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९१

3
अवन्तीखण्डः · रेवाखण्डः · 191

अमृतस्रावि तल्लिङ्गमाद्यं स्वायम्भुवं तथा

श्रीमार्कण्डेय उवाच

सिद्धेश्वरं ततो गच्छेत्तस्यैव तु समीपतः ।

अमृतस्रावि तल्लिङ्गमाद्यं स्वायम्भुवं तथा

॥१॥

दृष्टमात्रेण येनेह ह्यनृणो जायते नरः ।

पुरा वर्षशतं साग्रमाराध्य परमेश्वरम्

॥२॥

प्राप्नुयुः परमां सिद्धिमादित्या द्वादशैव तु ।

अतः सिद्धेश्वरः प्रोक्तः सिद्धिदः सिद्धिकाङ्क्षिणाम्

॥३॥

युधिष्ठिर उवाच

कथं सिद्धेश्वरे प्राप्ताः सिद्धिं देवा द्विजोत्तम ।

आदित्या इति यच्चोक्तं तन्मे विस्मापनं कृतम्

॥४॥

तपस्युग्रे व्यवसिता आदित्याः केन हेतुना ।

सम्प्राप्तास्तु द्विजश्रेष्ठ सिद्धिं चैवाभिलाषिकीम्

॥५॥

संक्षिप्य तु मया पृष्टं विस्तराद्द्विज शंस मे

॥६॥

मार्कण्डेय उवाच

अदितेर्द्वादशादित्या जाताः शक्रपुरोगमाः ।

इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा

॥७॥

विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ।

त इमे द्वादशादित्या इच्छन्तो भास्करं पदम्

॥८॥

नर्मदातटमाश्रित्य तपस्युग्रे व्यवस्थिताः ।

सिद्धेश्वरे महाराज काश्यपेयैर्महात्मभिः

॥९॥

परा सिद्धिरनुप्राप्ता द्वादशादित्यसंज्ञितैः ।

स्थापितश्च जगद्धाता तस्मिंस्तीर्थे दिवाकरः

॥१०॥

स्वकीयांशविभागेन द्वादशादित्यसंज्ञितैः ।

तदाप्रभृति तत्तीर्थं राजन्ख्यातिं गतं भुवि

॥११॥

प्रलये समनुप्राप्ते ह्यादित्या द्वादशैव ते ।

द्वादशादित्यतो राजन् सम्भवन्ति युगक्षये

॥१२॥

इन्द्रस्तपति पूर्वेण धाता चैवाग्निगोचरे ।

गभस्तिपतिर्वै याम्ये त्वष्टा नैरृतदिङ्मुखः

॥१३॥

वरुणः पश्चिमे भागे मित्रस्तु वायवे तथा ।

विष्णुश्च सौम्यदिग्भागे विवस्वानीशगोचरे

॥१४॥

ऊर्ध्वतश्चैव सविता ह्यधः पूषा विशोषयन् ।

अंशुमांस्तु तथा विष्णुर्मुखतो निर्गतं जगत्

॥१५॥

प्रदहन्वै नरश्रेष्ठ बभ्रमुश्च इतस्ततः ।

यथैव ते महाराज दहन्ति सकलं जगत्

॥१६॥

तथैव द्वादशादित्या भक्तानां भावसाधनाः ।

प्रातरुत्थाय यः स्नात्वा द्वादशादित्यसंज्ञितम्

॥१७॥

पश्यते देवदेवेशं शृणु तस्यैव यत्फलम् ।

वाचिकं मानसं पापं कर्मजं यत्पुराकृतम्

॥१८॥

नश्यते तत्क्षणादेव द्वादशादित्यदर्शनात् ।

प्रदक्षिणं तु यः कुर्यात्तस्य देवस्य भारत

॥१९॥

प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ।

तत्र तीर्थे तु सप्तम्यामुपवासेन यत्फलम्

॥२०॥

अन्यत्र सप्तसप्तम्यां लभन्ति न लभन्ति च ।

षष्ठ्यां वारे दैनकरे द्वादशादित्यदर्शनात्

॥२१॥

प्रदक्षिणं तु यः कुर्यात्तस्य पापं तु नश्यति ।

अरोगी सप्तजन्मानि भवेद्वै नात्र संशयः

॥२२॥

यस्तु प्रदक्षिणशतं दद्याद्भक्त्या दिने दिने ।

दद्रूपिटककुष्ठानि मण्डलानि विचर्चिकाः

॥२३॥

नश्यन्ति व्याधयः सर्वे गरुडेनेव पन्नगाः ।

पुत्रप्राप्तिर्भवेत्तस्य षष्ट्या वासरसेवनात्

॥२४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे द्वादशादित्यतीर्थमाहात्म्यवर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ॥