मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३५

3
अवन्तीखण्डः · रेवाखण्डः · 35

मेघनादतीर्थमाहात्म्यवर्णनम्

युधिष्ठिर उवाच

जलमध्ये महादेवः केन तिष्ठति हेतुना ।

उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम

॥१॥

श्रीमार्कण्डेय उवाच

एतदाख्यानमतुलं पुण्यं श्रुतिमुखावहम् ।

पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः

॥२॥

त्रेतायुगे महाभाग रावणो देवकण्टकः ।

त्रैलोक्यविजयी रौद्रः सुरासुरभयंकरः

॥३॥

देवदानवगन्धर्वैरृषिभिश्च तपोधनैः ।

अवध्योऽथ विमानेन यावत्पर्यटते महीम्

॥४॥

तावद्धिन्ध्यगिरेर्मध्ये दानवो बलदर्पितः ।

मयो नामेति विख्यातो गुहावासी तपश्चरन्

॥५॥

तस्य पार्श्वगतो रक्षो विनयादवनिं गतः ।

पूजितो दानसन्मानैरिदं वचनमब्रवीत्

॥६॥

कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना ।

किंनामधेया तपति तप उग्रं कथं विभो

॥७॥

मय उवाच

दानवानां पतिः श्रेष्ठो मयोऽहं नाम नामतः ।

भार्या तेजोवती नाम तस्यास्तु तनया शुभा

॥८॥

मन्दोदरीति विख्याता तपते भर्तृकारणात् ।

आराधयन्ती भर्तारमुमाया दयितं शुभम्

॥९॥

तच्छ्रुत्वा वचनं तस्य रावणो मदमोहितः ।

प्रसृतः प्रणतो भूत्वा मयं वचनमब्रवीत्

॥१०॥

पौलस्त्यान्वयसंजातो देवदानवदर्पहा ।

प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि

॥११॥

ज्ञात्वा पैतामहं वृत्तं मयेनापि महात्मना ।

रावणाय सुता दत्ता पूजयित्वा विधानतः

॥१२॥

गृहीत्वा तां तदा रक्षोऽभ्यर्च्यमानो निशाचरैः ।

देवोद्याने विमानैश्च क्रीडते स तया सह

॥१३॥

केनचित्त्वथ कालेन रावणो लोकरावणः ।

पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत

॥१४॥

तेनैव जातमात्रेण रावो मुक्तो महात्मना ।

संवर्तकस्य मेघस्य तेन लोका जडीकृताः

॥१५॥

श्रुत्वा तन्नर्दितं घोरं ब्रह्मा लोकपितामहः ।

नाम चक्रे तदा तस्य मेघनादो भविष्यति

॥१६॥

एवंनामा कृतः सोऽपि परमं व्रतमास्थितः ।

तोषयामास देवेशमुमया सह शङ्करम्

॥१७॥

व्रतैर्नियमदानैश्च होमजाप्यविधानतः ।

कृच्छ्रचान्द्रायणैर्नित्यं कृशं कुर्वन्कलेवरम्

॥१८॥

एवमन्यद्दिने तात कैलासं धरणीधरम् ।

गत्वा लिङ्गद्वयं गृह्य प्रस्थितो दक्षिणामुखः

॥१९॥

नर्मदातटमाश्रित्य स्नातुकामो महाबलः ।

निक्षिप्य पूजयन् देवं कृतजाप्यो नरेश्वर

॥२०॥

तत्रायतनावासेन स्नातो हुतहुताशनः ।

कृतकृत्यमिवात्मानं मानयित्वा निशाचरः

॥२१॥

गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम ।

एकमुद्धरतो लिङ्गं प्रणतः सव्यपाणिना

॥२२॥

द्वितीयं तु द्वितीयेन भक्त्या पौलस्त्यनन्दनः ।

तावदेव महालिङ्गं पतितं नर्मदांभसि

॥२३॥

याहि याहीति चेत्युक्त्वा जलमध्ये प्रतिष्ठितः ।

नमित्वा रावणिस्तस्य देवस्य परमेष्ठिनः

॥२४॥

जगामाकाशमाविश्य पूज्यमानो निशाचरैः ।

तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम्

॥२५॥

पूर्वं तु गर्जनं नाम सर्वपापक्षयंकरम् ।

तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत्

॥२६॥

अहोरात्रोषितो भूत्वा अश्वमेधफलं लभेत् ।

पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप

॥२७॥

यत्फलं सत्त्रयज्ञेन तद्भवेन्नात्र संशयः ।

तेन द्वादशवर्षाणि पितरः संप्रतर्पिताः

॥२८॥

यस्तु भोजयते विप्रं षड्रसात्रेन भारत ।

अक्षयपुण्यमाप्नोति तत्र तीर्थे नरोत्तम

॥२९॥

प्राणत्यागं तु यः कुर्याद्भावितो भावितात्मना ।

स वसेच्छाङ्करे लोके यावदा भूतसम्प्लवम्

॥३०॥

एषा ते नरशार्दूल गर्जनोत्पत्तिरुत्तमा ।

कथिता स्नेहबन्धेन सर्वपापक्षयकरी

॥३१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मेघनादतीर्थमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥