मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ११३

3
अवन्तीखण्डः · रेवाखण्डः · 113

कोटितीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र कोटितीर्थमनुत्तमम् ।

ऋषिकोटिर्गता तत्र परां सिद्धिमुपागता

॥१॥

तत्र तीर्थे तु यः स्नात्वा भोजयेद्ब्राह्मणाञ्छुचिः ।

एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता

॥२॥

तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।

पूजिते तु महादेवे वाजपेयफलं लभेत्

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्रयोदशाधिकशाततमोऽध्यायः ॥