मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९४

3
अवन्तीखण्डः · रेवाखण्डः · 194

श्रीपतिविवाहवर्णनम्

श्रीमार्कण्डेय उवाच

तच्छ्रुत्वानान्तदेवेन विश्वरूपमुदाहृतम् ।

देवराजस्तथा देवाः परं विस्मयमागताः

॥१॥

दृष्ट्वा चाप्सरसं पुण्यामुर्वशीं कमलाननाम् ।

संत्रस्तो विस्मितश्चाभूदिन्द्रो राजश्रिया वृतः

॥२॥

न किंचिदुत्तरं वाक्यमुक्तवाञ्जोषमास्थितः ।

इति वृत्तान्तभूतं हि नारायणविचेष्टितम्

॥३॥

भृगोः खात्यां(?) समुत्पन्ना लक्ष्मीः श्रुत्वा तु वै नृप ।

वैश्वरूपं परं रूपं विस्मिताचिन्तयत्तदा

॥४॥

केनोपायेन स स्यान्मे भर्ता नारायणः प्रभुः ।

व्रतेन तपसा वापि दानेन नियमेन च

॥५॥

वृद्धानां सेवनेनाथ देवताराधनेन वा ।

इति चिन्तापरां कन्यां सती ज्ञात्वा युधिष्ठिर

॥६॥

प्राह प्राप्तो मया भर्ता शङ्करस्तपसा किल ।

प्रजापतिश्च गायत्र्या ह्यन्याभिरभिवाञ्छिताः

॥७॥

तपसैव हि ते प्राप्यस्तस्मात्तच्चर सुव्रते ।

तपस्त्वं हि महच्चोग्रं सर्ववाञ्छितदायकम्

॥८॥

मार्कण्डेय उवाच

सागरान्तं समासाद्य लक्ष्मीः परपुरंजय ।

चचार विपुलं कालं तपः परमदुश्चरम्

॥९॥

स्थाणुवत्संस्थिता साभूद्दिव्यं वर्षसहस्रकम् ।

तत इन्द्रादयो देवाः शङ्खचक्रगदाधराः

॥१०॥

भूत्वा जग्मुस्तदर्थं ते सा तु पृष्टवती सुरान् ।

विश्वरूपं वैष्णवं यत्तद्दर्शयत माचिरम्

॥११॥

विलक्षा व्रीडिता देवा गत्वा नारायणं तदा ।

अब्रुवन् वैश्वरूपं नो शक्ता दर्शयितुं वयम्

॥१२॥

ततो यथेष्टं ते जग्मुः स च विष्णुरचिन्तयत् ।

उग्ररूपा स्थिता देवी देहं दहति भार्गवी

॥१३॥

तां तस्मात्तत्र गत्वाहं वरं दत्त्वा तु वाञ्छितम् ।

पुनस्तपः करिष्यामि दर्शयिष्यामि वा पुनः ।

वैष्णवं विश्वरूपं यद्दुर्दश्यं देवदानवैः

॥१४॥

मार्कण्डेय उवाच

ततो गत्वा हृषीकेशः सागरान्तस्थितां श्रियम् ।

प्राह तुष्टोऽस्मि ते देवि वरं वृणु यथेप्सितम्

॥१५॥

श्रीरुवाच

यदि तुष्टोऽसि मे देव प्रपन्नाया जनार्दन ।

तदा दर्शय यद्दृष्टमप्सरोभिस्तवानघ

॥१६॥

विश्वरूपमनन्तं च भूतभावन केशव ।

गन्धमादनमासाद्य कृतं यच्च तपस्त्वया

॥१७॥

तद्वदस्व विभो विष्णो न मिथ्या यदि केशव ।

श्रद्दधामि न चैवाहं रूपस्यास्य कथंचन

॥१८॥

बहुभिर्यक्षरक्षोभिर्मायाचारिप्रचारिभिः ।

छन्दिता मम जानद्भिर्भावमन्तर्गतं हरौ

॥१९॥

भूत्वा विष्णुस्वरूपास्ते चक्रिणश्च चतुर्भुजाः ।

सुव्रीडिता गताः सर्वे विश्वरूपो सहायतः

॥२०॥

मार्कण्डेय उवाच

नारायणोऽथ भगवाञ्छङ्खचक्रगदाभृतम् ।

तया तथोक्तस्तद्रूपं मुक्त्वा वै सुरपूजितम्

॥२१॥

रूपं परं यथोक्तं वै विश्वरूपमदर्शयत् ।

दर्शयित्वा वचः प्राह पञ्चरात्रविधानतः

॥२२॥

योऽर्चयिष्यति मां नित्यं स पूज्यः स च पूजितः ।

धनधान्यसमायुक्तः सर्वभोगसमन्वितः

॥२३॥

मूलं हि सर्वधर्माणां ब्रह्मचर्यं परं तपः ।

तेनाहं तत्र स्थास्यामि मूलश्रीपतिसंज्ञितः

॥२४॥

मूलश्रीः प्रोच्यते ब्राह्मी ब्रह्मचर्यस्वरूपिणी ।

सर्वयोगमयी पुण्या सर्वपापहरी शुभा

॥२५॥

पतिस्तस्याः प्रभुरहं वरदः प्राणिनां प्रिये ।

रेवाजले नरः स्नात्वा योऽर्चयेन्मां यतव्रतः

॥२६॥

मूलश्रीपतिनामानं वाञ्छिते प्राप्नुयात्फलम् ।

दानानि तत्र यो दद्यान्महादानानि च प्रिये

॥२७॥

सहस्रगुणितं पुण्यमन्यस्थानादवाप्यते ।

दृष्टं त्वया तत्र देशे सम्यक्चैवावधारितम् ।

तदर्चित्वा परान् कामानाप्स्यसि त्वं न संशयः

॥२८॥

वरं वृणीष्व देवेशि वाञ्छितं दुर्लभं सुरैः ।

दुर्गसंसारकान्तारपतितैः परमेश्वरि

॥२९॥

श्रीरुवाच

नारायण जगद्धातर्नारायण जगत्पते ।

नारायण परब्रह्म नारायणपरायण

॥३०॥

प्रसीद पाहि मां भक्त्या सम्यक्सर्गे नियोजय ।

प्रियो ह्यसि प्रियाहं ते यथा स्यां तत्तथा कुरु

॥३१॥

गृहं धर्मार्थकामानां कारणं देव संमतम् ।

तदास्थायाश्रमं पुण्यं मां श्रेयसि नियोजय

॥३२॥

नारायण उवाच

नारायणगिरा देवि विज्ञप्तोऽस्मि यतस्त्वया ।

नारायणगिरिर्नाम तेन मेऽत्र भविष्यति

॥३३॥

नारायणस्मृतौ याति दुरितं जन्मकोटिजम् ।

यस्माद्गिरति तस्माच्च गिरिरित्येव शब्दितम्

॥३४॥

तस्मात्सर्वाश्रयो देवि गिरिः पर्वतराङ्भवेत् ।

सुरासुरमनुष्याणां यथाहमपि चाश्रयः

॥३५॥

य एतत्पूजयिष्यन्ति मण्डलस्थं परं मम ।

नारायणगिरिर्नाम देवरूपं शुभेक्षणे

॥३६॥

ते दिव्यज्ञानसम्पन्ना दिव्यदेहविचेष्टिताः ।

दिव्यं लोकमवाप्स्यन्ति दिव्यभोगसमन्विताः

॥३७॥

मार्कण्डेय उवाच

तयोरेवं संवदतोर्देवा इन्द्रपुरोगमाः ।

समागता वनोद्देशं सागरान्ते महर्षयः

॥३८॥

ततो भृगुं देवराजो नारायणविचिन्तितम् ।

वव्रे ज्ञात्वा तु तत्कन्यां धर्मात्मा स ददौ च ताम्

॥३९॥

धर्मोऽपि विधिवद्वत्स विवाहं समकारयत् ।

देवदेवस्य राजर्षे देवतार्थे समाहितः

॥४०॥

युधिष्ठिर उवाच

धर्मो विवाहमकरोद्विधिवद्यत्त्वयोदितम् ।

को विधिस्तत्र का दत्ता दक्षिणा भृगुणापि च

॥४१॥

विवाहयज्ञे समभूत्स्रुक्स्रुवग्रहणे च कः ।

ऋत्विजः के सदस्याश्च तस्यासन् द्विजसत्तम

॥४२॥

किं तस्यावभृथं त्वासीत्तत्सर्वं वद विस्तरात् ।

त्वद्वाक्यामृतपानेन तृप्तिर्मम न विद्यते

॥४३॥

मार्कण्डेय उवाच

नारायणविवाहस्य यज्ञस्य च युधिष्ठिर ।

तपसस्तस्य देवस्य सम्यगाचरणस्य च

॥४४॥

वक्तुं समर्थो न गुणान्ब्रह्मापि परमेश्वरः ।

तथाप्युद्देशतो वच्मि शृणु भूत्वा समाहितः

॥४५॥

ब्रह्मा सप्तर्षयस्तत्र स्रुक्स्रुवग्रहणे रताः ।

अग्नीञ्जुहुविरे राजन्वेदिर्धात्री ससागरा

॥४६॥

ददुः समुद्रा रत्नानि ब्रह्मर्षिभ्यो नृपोत्तम ।

धनदोऽपि ददौ वित्तं सर्वब्राह्मणवाञ्छितम्

॥४७॥

विश्वकर्माऽपि देवानां ब्रह्मर्षीणां परंतप ।

वेश्मानि सुविचित्राणि सर्वरत्नमयानि च

॥४८॥

कृत्वा प्रदर्शयामास देवेन्द्राय यशस्विने ।

शतक्रतुस्ततो विप्रान्कापिष्ठलपुरोगमान्

॥४९॥

शौनकादींश्च पप्रच्छ बष्कलाञ्छागलानपि ।

आत्रेयानपि राजेन्द्र वृणुध्वमभिवाञ्छितम्

॥५०॥

दृष्ट्वा ते चित्ररत्नानि प्राहुः सर्वेश्वरेश्वरम् ।

देवानां च ऋषीणां च सङ्गमोऽयं सुपुण्यकृत्

॥५१॥

अस्मिन्पुण्ये सुरेशान वस्तुं वाञ्छामहे सदा ।

शतक्रतुः प्राह पुनर्वासो वात्र भविष्यति ।

सत्यधर्मरता यूयं यावत्कालं भविष्यथ

॥५२॥

मार्कण्डेय उवाच

पृष्टं यद्राजशार्दूल के मखे होत्रिणोऽभवन् ।

तत्प्रोच्यमानमधुना शृणु भूत्वा समाहितः

॥५३॥

सनत्कुमारप्रमुखाः सदस्यास्तस्य चाभवन् ।

औद्गात्रमत्र्यङ्गिरसौ मरीचिश्च चकार ह

॥५४॥

हौत्रं धर्मवसिष्ठौ च ब्रह्मत्वं सनको मुनिः ।

षट्त्रिंशद्ग्रामसाहस्रं प्रादात्तेभ्यः शतक्रतुः

॥५५॥

लक्ष्मीर्भर्त्रा च संयुक्ताभवत्तत्कृतवान्प्रभुः ।

ब्रह्मणो जुह्वतो वह्निं यावद्देशस्थितैः सुरैः

॥५६॥

दृष्टं ललाटं देशोऽसौ ललाट इति संज्ञितः ।

स देशः श्रीपतेः क्षेत्रपुण्यं देवर्षिसेवितम्

॥५७॥

सर्वाश्चर्यमयं दिव्यं दिव्यसिद्धिसमन्वितम् ।

ब्राह्मणानां ततः पङ्क्तिं निवेशयितुमुद्यता

॥५८॥

लक्ष्मीः श्रीपतिनामानमाह देवं वचस्तदा ।

श्रीरुवाच - य एते ब्राह्मणाः शिष्या भृग्वादीनां यतव्रताः

॥५९॥

तान्निवेशयितुमिच्छामि त्वत्प्रसादादधोक्षज ।

मरीच्यादयः सुरेन्द्रेण स्थापिता गरुडध्वज

॥६०॥

नैष्ठिकव्रतिनो विप्रा बहवोऽत्र यतव्रताः ।

प्राजापत्ये व्रते ब्राह्मे केचिदत्र व्यवस्थिताः ।

तानहं स्थापयिष्यामि त्वत्प्रसादादधोक्षज

॥६१॥

मार्कण्डेय उवाच

ततः कौतूहलधरो भगवान्वृषभध्वजः ।

पप्रच्छ व्रतिनः सर्वान्वृत्तिभेदे व्यवस्थितान्

॥६२॥

नारदोऽपि महादेवमुपेत्य च सतीपतिम् ।

प्राह कृष्णाजिनधरो नैष्ठिका ब्राह्मणा ह्यमी

॥६३॥

अमी कार्याः सुवस्त्रेण छन्नगुह्या द्विजोत्तमाः ।

प्राजापत्याश्चतुर्विंशसहस्राणि नरेश्वर

॥६४॥

ब्रह्मचर्यव्रतस्थानां व्रतब्रह्मविचारिणाम् ।

द्वादशैषां सहस्राणि सन्ति वै वृषभध्वज

॥६५॥

नारदस्य वचः श्रुत्वा देवा देवर्षयोऽपि च ।

साधु साध्वित्यमन्यन्त नोचुः केचन किंचन

॥६६॥

समाह्वयत्ततो लक्ष्मीस्तान् विप्रान् भक्तिसंयुता ।

उवाच चरणान्गृह्य प्रसादः क्रियतां मयि

॥६७॥

षट्त्रिंशच्च सहस्राणि वेश्मनामत्र संस्थितिः ।

विश्वकर्मकृतानां तु तेषु तिष्ठन्तु वोऽखिलाः

॥६८॥

ते तथेति प्रतिज्ञाय स्थिताः संप्रीतमानसाः ।

धनधान्यसमृद्धाश्च वाञ्छितप्राप्तिलक्षणाः ।

सर्वकामसमृद्धाश्च ह्यनारम्भेषु कर्मणाम्

॥६९॥

इति संस्थाप्य तान् विप्रान् सा स्थिता पर्यपालयत् ।

चतुर्धा तु स्थितो विष्णुः श्रिया देव्याः प्रिये रतः

॥७०॥

एवं वैवाहिकमखे निवृत्ते ऋषयस्तु तम् ।

ऊचुश्चावभृथस्नानं कुत्र कुर्मो जनार्दन

॥७१॥

इति श्रुत्वा तु वचनं श्रीपतिः पादपङ्कजात् ।

मुमोच जाह्नवीतोयं रेवामध्यगमं शुचि

॥७२॥

हरेः पादोदकं दृष्ट्वा निःसृतं मुनयस्तु ते ।

विस्मिताः समपद्यन्त जानन्तस्तस्य गौरवम्

॥७३॥

रुद्रेण सहिताः सर्वे देवता ऋषयस्तथा ।

संकथा विस्मिताश्चक्रुर्विधुन्वन्तः शिरांसि च

॥७४॥

ऋषय ऊचुः

ब्रूहि शम्भो किमत्रायं अकस्माद्वारिसम्भवः ।

विष्णोः पादाम्बुजोत्थश्च सम्मोहकरणः परः

॥७५॥

ईश्वर उवाच

पादोदकमिदं विष्णोरहं जानामि वै सुराः ।

दशाश्वमेधावभृथैः स्नानमत्रातिरिच्यते

॥७६॥

युष्माभिः श्रीपतिः पूज्यः स्नानं चावभृथं कुतः ।

भविष्यतीति तेनाशु इदं वोऽर्थे विनिर्मितम्

॥७७॥

स्नात्वात्र त्रिदशेशाना यत्फलं सम्प्रपद्यते ।

वक्तुं न केनचिद्याति ततः किमुत्तरं वचः

॥७८॥

मार्कण्डेय उवाच

एवमुक्त्वा तु ते सर्वे स्नानं कृत्वा यथागतम् ।

जग्मुर्देवा महेशानपुरोगा भरतर्षभ

॥७९॥

ब्राह्मणाश्च ततः सर्वे स्ववेश्मान्येव भेजिरे ।

देवतीर्थे महाराज सर्वपापप्रणाशने

॥८०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीपतिविवाहवर्णनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥