मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९२

3
अवन्तीखण्डः · रेवाखण्डः · 192

श्रीपत्युत्पत्तिवर्णनम्

मार्कण्डेय उवाच

तस्यैवानन्तरं तात देवतीर्थमनुत्तमम् ।

दृष्ट्वा तु श्रीपतिं पापैर्मुच्यते मानवो भुवि

॥१॥

महर्षेस्तस्य जामाता भृगोर्देवो जनार्दनः

॥२॥

युधिष्ठिर उवाच

कोऽयं श्रियः पतिर्देवो देवानामधिपो विभुः ।

कथं जन्माभवत्तस्य देवेषु त्रिषु वा मुने

॥३॥

सम्बन्धी च कथं जातो भृगुणा सह केशवः ।

एतद्विस्तरतो ब्रह्मन् वक्तुमर्हसि भार्गव

॥४॥

मार्कण्डेय उवाच

संक्षेपात्कथयिष्यामि साध्यस्य चरितं महत् ।

न हि विस्तरतो वक्तुं शक्ताः सर्वे महर्षयः

॥५॥

नारायणस्य नाभ्यब्जाज्जातो देवश्चतुर्मुखः ।

तस्य दक्षोऽङ्गजो राजन् दक्षिणाङ्गुष्ठसम्भवः

॥६॥

धर्मः स्तनान्तात्संजातस्तस्य पुत्रोऽभवत्किल ।

नारायणसहायोऽसावजोऽपि भरतर्षभ

॥७॥

मरुत्वती वसुर्ज्ञाना लम्बा भानुमती सती ।

संकल्पा च मुहूर्ता च साध्या विश्वावती ककुप्

॥८॥

धर्मपत्न्यो दशैवैता दाक्षायण्यो महाप्रभाः ।

तासां साध्या महाभागा पुत्रानजनयन्नृप

॥९॥

नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।

विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः

॥१०॥

तथा नारायणनरौ गन्धमादनपर्वते ।

आत्मन्यात्मानमाधाय तेपतुः परमं तपः

॥११॥

ध्यायमानावनौपम्यं स्वं कारणमकारणम् ।

वासुदेवमनिर्देश्यमप्रतर्क्यमनन्तरम्

॥१२॥

योगयुक्तौ महात्मानावास्थितावुरुतापसौ ।

तयोस्तपःप्रभावेण न तताप दिवाकरः

॥१३॥

ववाह शङ्कितो वायुः सुखस्पर्शो ह्यशङ्कितः ।

शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः

॥१४॥

सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ।

तयोर्गौरिव भारार्ता पृथिवी पृथिवीपते

॥१५॥

चेरुश्च भूधराश्चैव चुक्षुभे च महोदधिः ।

देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः ।

बभूवुरवनीपाल परमं क्षोभमागताः

॥१६॥

देवराजस्तथा शक्रः संतप्तस्तपसा तयोः ।

युयोजाप्सरसस्तत्र तयोर्विघ्नचिकीर्षया

॥१७॥

इन्द्र उवाच

रम्भे तिलोत्तमे कुब्जे घृताचि ललिते शुभे ।

प्रम्लोचे सुभ्रु सुम्लोचे सौरभेयि महोद्धते

॥१८॥

अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि ।

विलोकनीयं बिभ्राणा वपुर्मन्मथबोधनम्

॥१९॥

गन्धमादनमासाद्य कुरुध्वं वचनं मम ।

नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ

॥२०॥

तेपाते धर्मतनयौ तपः परमदुश्चरम् ।

तावस्माकं वरारोहाः कुर्वाणौ परमं तपः

॥२१॥

कर्मातिशयदुःखार्तिप्रदावायतिनाशनौ ।

तद्गच्छत न भीः कार्या भवतीभिरिदं वचः

॥२२॥

स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ।

रूपं वयः समालोक्य मदनोद्दीपनं परम् ।

कन्दर्पवशमभ्येति विवशः को न मानवः

॥२३॥

मार्कण्डेय उवाच

इत्युक्त्वा देवराजेन मदनेन समं तदा ।

जग्मुरप्सरसः सर्वा वसन्तश्च महीपते

॥२४॥

गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् ।

चचार माधवो रम्यं प्रोत्फुल्लवनपादपम्

॥२५॥

प्रववौ दक्षिणाशायां मलयानुगतोऽनिलः ।

भृङ्गमालारुतरवै रमणीयमभूद्वनम्

॥२६॥

गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः ।

किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः

॥२७॥

वराङ्गनाश्च ताः सर्वा नरनारायणावृषी ।

विलोभयितुमारब्धा वागङ्गललितस्मितैः

॥२८॥

जगौ मनोहरं काचिन्ननर्त तत्र चाप्सराः ।

अवादयत्तथैवान्या मनोहरतरं नृप

॥२९॥

हावैर्भावैः सृतैर्हास्यैस्तथान्या वल्गुभाषितैः ।

तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः

॥३०॥

तथापि न तयोः कश्चिन्मनसः पृथिवीपते ।

विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः

॥३१॥

निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः ।

वासुदेवार्पणस्वस्थे तथैव मनसी तयोः

॥३२॥

पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः ।

यथा न याति संक्षोभं तथा तन्मानसं क्वचित्

॥३३॥

सर्वभूतहितं ब्रह्म वासुदेवमयं परम् ।

मन्यमानौ न रागस्य द्वेषस्य च वशंगतौ

॥३४॥

स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः ।

विद्यामयं दीपयुतमन्धकार इवालयम्

॥३५॥

पुष्पोज्ज्वलांस्तरुवरान् वसन्तं दक्षिणानिलम् ।

ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी

॥३६॥

यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् ।

ददर्शातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ

॥३७॥

दाहाय नामलो वह्नेर्नापः क्लेदाय चाम्भसः ।

तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः

॥३८॥

ततो विज्ञाय विज्ञाय परं ब्रह्म स्वरूपतः ।

मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः

॥३९॥

ततो गुरुतरं यत्नं वसन्तमदनौ नृप ।

चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनःपुनः

॥४०॥

अथ नारायणो धैर्यं संधायोदीर्णमानसः ।

ऊरोरुत्पादयामास वराङ्गीमबलां तदा

॥४१॥

त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते ।

गुणैर्लाघवमभ्येति यस्याः संदर्शनादनु

॥४२॥

तां विलोक्य महीपाल चकम्पे मनसानिलः ।

वसन्तो विस्मयं यातः स्मरः सस्मार किंचन

॥४३॥

रम्भातिलोत्तमाद्याश्च वैलक्ष्यं देवयोषितः ।

न रेजुरवनीपाल तल्लक्ष्यहृदयेक्षणाः

॥४४॥

ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः ।

प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ

॥४५॥

वसन्तकामाप्सरस ऊचुः

प्रसीदतु जगद्धाता यस्य देवस्य मायया ।

मोहिताः स्म विजानीमो नान्तरं विद्यते द्वयोः

॥४६॥

प्रसीदतु स वां देवो यस्य रूपमिदं द्विधा ।

धामभूतस्य लोकानामनादेरप्रतिष्ठतः

॥४७॥

नरनारायणौ देवौ शङ्खचक्रायुधावुभौ ।

आस्तां प्रसादसुमुखावस्माकमपराधिनाम्

॥४८॥

निधानं सर्वविद्यानां सर्वपापवनानलः ।

नारायणोऽतो भगवान् सर्वपापं व्यपोहतु

॥४९॥

शार्ङ्गचिह्नायुधः श्रीमानात्मज्ञानमयोऽनघः ।

नरः समस्तपापानि हतात्मा सर्वदेहिनाम्

॥५०॥

जटाकलापबद्धोऽयमनयोर्नः क्षमावतोः ।

सौम्यास्यदृष्टिः पापानि हन्तुं जन्मार्जितानि वै

॥५१॥

तथात्मविद्यादोषेण योऽपराधः कृतो महान् ।

त्रैलोक्यवन्द्यौ यौ नाथौ विलोभयितुमागताः

॥५२॥

प्रसीद देव विज्ञानधन मूढदृशामिव ।

भवन्ति सन्तः सततं स्वधर्मपरिपालकाः

॥५३॥

दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमुत्तमम् ।

त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः

॥५४॥

तेन सत्येन सत्यात्मन्परमात्मन्सनातन ।

नारायण प्रसीदेश सर्वलोकपरायण

॥५५॥

प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण ।

प्रसीद योगिनामीश नर सर्वगताच्युत

॥५६॥

नमस्यामो नरं देवं तथा नारायणं हरिम् ।

नमो नराय नम्याय नमो नारायणाय च

॥५७॥

प्रसन्नानामनाथानां तथा नाथवतां प्रभो ।

शं करोतु नरोऽस्माकं शं नारायण देहि नः

॥५८॥

मार्कण्डेय उवाच

एवमभ्यर्चितः स्तुत्या रागद्वेषादिवर्जितः ।

प्राहेशः सर्वभूतानां मध्ये नारायणो नृप

॥५९॥

नारायण उवाच

स्वागतं माधवे कामे भवत्वप्सरसामपि ।

यत्कार्यमागतानां च इहास्माभिस्तदुच्यताम्

॥६०॥

यूयं संसिद्धये नूनमस्माकं बलशत्रुणा ।

संप्रेषितास्ततोऽस्माकं नृत्ययोगादिदर्शनम्

॥६१॥

न वयं गीतनृत्येन नाङ्गचेष्टादिभाषितैः ।

लुब्धा वै विषयैर्मन्ये विषया दारुणात्मकाः

॥६२॥

शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः ।

तदा नृत्यादयो भावाः कथं लोभप्रदायिनः

॥६३॥

ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च ।

माधवस्य च शाक्रोऽपि स्वास्थ्यं यात्वविशङ्किताः

॥६४॥

योऽसौ परश्च परमः पुरुषः परमेश्वरः ।

परमात्मा समस्तस्य स्थावरस्य चरस्य च

॥६५॥

उत्पत्तिहेतुरेते च यस्मिन्सर्वं प्रलीयते ।

सर्वावासीति देवत्वाद्वासुदेवेत्युदाहृतः

॥६६॥

वयमंशांशकास्तस्य चतुर्व्यूहस्य मानिनः ।

तदादेशितवार्त्मानौ जगद्बोधाय देहिनाम्

॥६७॥

तत्सर्वभूतं सर्वेशं सर्वत्र समदर्शिनम् ।

कुतः पश्यन्तौ रागादीन्करिष्यामो विभेदिनः

॥६८॥

वसन्ते मयि चेन्द्रे च भवतीषु तथा स्मरे ।

यदा स एव भूतात्मा तदा द्वेषादयः कथम्

॥६९॥

तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु ।

सर्वेश्वरेश्वरो विष्णुः कुतो रागादयस्ततः

॥७०॥

ब्रह्माणमिन्द्रमीशानमादित्यमरुतोऽखिलान् ।

विश्वेदेवानृषीन् साध्यान्वसून्पितृगणांस्तथा

॥७१॥

यक्षराक्षसभूतादीन्नागान्सर्पान्सरीसृपान् ।

मनुष्यपक्षिगोरूपगजसिंहजलेचरान्

॥७२॥

मक्षिकामशकान्दंशाञ्छलभाञ्जलजान् कृमीन् ।

गुल्मवृक्षलतावल्लीत्वक्सारतृणजातिषु

॥७३॥

यच्च किंचिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः ।

मन्यध्वं जातमेकस्य तत्सर्वं परमात्मनः

॥७४॥

जायमानः कथं विष्णुमात्मानं परमं च यत् ।

रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः

॥७५॥

सर्वभूतमये विष्णौ सर्वगे सर्वधातरि ।

निपात्य तं पृथग्भूते कुतो रागादिको गुणः

॥७६॥

एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः ।

तन्मथैकत्वभूतेषु रागाद्यवसरः कुतः

॥७७॥

सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी ।

पृथग्विज्ञानमात्रैव लोकसंव्यवहारवत्

॥७८॥

भूतेन्द्रियान्तः करणप्रधानपुरुषात्मकम् ।

जगद्वै ह्येतदखिलं तदा भेदः किमात्मकः

॥७९॥

भवन्ति लयमायान्ति समुद्रसलिलोर्मयः ।

न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत्

॥८०॥

यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः ।

तथापि नाग्नितो भिन्नास्तथैतद्ब्रह्मणो जगत्

॥८१॥

भवतीभिश्च यत्क्षोभमस्माकं स पुरंदरः ।

कारयत्यसदेतच्च विवेकाचारचेतसाम्

॥८२॥

भवन्त्यः स च देवेन्द्रो लोकाश्च ससुरासुराः ।

समुद्राद्रिवनोपेता मद्देहान्तरगोचराः

॥८३॥

यथेयं चारुसर्वाङ्गी भवतीनां मयाग्रतः ।

दर्शिता दर्शयिष्यामि तथा चैवाखिलं जगत्

॥८४॥

प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् ।

यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः

॥८५॥

किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते ।

तारतम्यं सुरूपत्वे सततं भिन्नदर्शनात्

॥८६॥

भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् ।

मयेयं दर्शिता तन्वी ततस्तु शममेष्यथ

॥८७॥

यस्मान्मदूरोर्निष्पन्ना त्वियमिन्दीवरेक्षणा ।

उर्वशी नाम कल्याणी भविष्यति वराप्सराः

॥८८॥

तदियं देवराजस्य नीयतां वरवर्णिनी ।

भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता

॥८९॥

वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् ।

तपश्चर्या न वाप्राप्यफलं प्राप्तुमभीप्सता

॥९०॥

सन्मार्गमस्य जगतो दर्शयिष्ये करोम्यहम् ।

तथा नरेण सहितो जगतः पालनोद्यतः

॥९१॥

यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर ।

तमहं वारयिष्यामि निवृत्तो भव वासव

॥९२॥

कर्तासि चेत्त्वमाबाधां न दुष्टस्येह कस्यचित् ।

तं चापि शास्ता तदहं प्रवर्तिष्याम्यसंशयम्

॥९३॥

एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति ।

उपकाराय जगतामवतीर्णोऽस्मि वासव

॥९४॥

या चेयमुर्वशी मत्तः समुद्भूता पुरंदर त्रेताग्निहेतुभूतेयं एवं प्राप्य भविष्यति

॥९५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये श्रीपत्युत्पत्तिवर्णनं नाम द्विनवत्युत्तरशततमोऽध्यायः ॥