हुङ्कारस्वामितीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
तस्यैवानन्तरं राजञ्छुक्लतीर्थसमीपतः ।
वासुदेवस्य तीर्थं तु सर्वलोकेषु पूजितम्
॥१॥तद्धि पुण्यं सुविख्यातं नर्मदायां पुरातनम् ।
यत्र हुङ्कारमात्रेण रेवा क्रोशं जगाम सा
॥२॥यदा प्रभृति राजेन्द्र हुङ्कारेण गता सरित् ।
तदाप्रभृति स स्वामी हुङ्कारः शब्दितो बुधैः
॥३॥हुङ्कारतीर्थे यः स्नात्वा पश्यत्यव्ययमच्युतम् ।
स मुच्यते नरः पापैः सप्तजन्म कृतैरपि
॥४॥संसारार्णवमग्नानां नराणां पापकर्मिणाम् ।
नैवोद्धर्ता जगन्नाथं विना नारायणं परः
॥५॥सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ
॥६॥सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः
॥७॥यदन्यद्देवतार्चायाः फलं प्राप्नोति मानवः ।
साष्टाङ्गप्रणिपातेन तत्फलं लभते हरेः
॥८॥रेणुगुण्ठितगात्रस्य यावन्तोऽस्य रजःकणाः ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते
॥९॥सम्मार्जनाभ्युक्षणलेपनेन तदालये नश्यति सर्वपापम् ।
नारी नराणां परया तु भक्त्या दृष्ट्वा तु रेवां नरसत्तमस्य
॥१०॥येनार्चितो भगवान्वासुदेवो जन्मार्जितं नश्यति तस्य पापम् ।
स याति लोकं गरुडध्वजस्य विधूतपापः सुरसङ्घपूज्यताम्
॥११॥शाठ्येनापि नमस्कारं प्रयुञ्जंश्चक्रपाणिनः ।
सप्तजन्मार्जितं पापं गच्छत्याशु न संशयः
॥१२॥पूजायां प्रीयते रुद्रो जपहोमैर्दिवाकरः ।
शङ्खचक्रगदापाणिः प्रणिपातेन तुष्यति
॥१३॥भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम्
॥१४॥हुङ्कारतीर्थे राजेन्द्र शुभं वा यदि वाशुभम् ।
यत्कृतं पुरुषव्याघ्र तन्नश्यति न कर्हिचित्
॥१५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हुङ्कारस्वामितीर्थमाहात्म्यवर्णनं नाम सप्तपञ्चाशदधिकशततमोऽध्यायः ॥