मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ११७

3
अवन्तीखण्डः · रेवाखण्डः · 117

त्रिलोचनतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र पुण्यं तीर्थं त्रिलोचनम् ।

तत्र तिष्ठति देवेशः सर्वलोकनमस्कृतः

॥१॥

तत्र तीर्थे तु यः स्नात्वा भक्त्यार्चयति शङ्करम् ।

रुद्रस्य भवनं याति मृतो नास्त्यत्र संशयः

॥२॥

कल्पक्षये ततः पूर्णे क्रीडित्वा च इहागतः ।

आवियोगेन तिष्ठेत पूज्यमानः शतं समाः

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिलोचनतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरशततमोऽध्यायः ॥