मूलस्थानतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
तस्यैवानन्तरं गच्छेत्सूर्यतीर्थमनुत्तमम् ।
मूलस्थानमिति ख्यातं पद्मजस्थापितं शुभम्
॥१॥मूलश्रीपतिना देवी प्रोक्ता स्थापय भास्करम् ।
श्रुत्वा देवोदितं देवी स्थापयामास भास्करम्
॥२॥प्रोच्यते नर्मदातीरे मूलस्थानाख्यभास्करः
॥३॥तत्र तीर्थे नरो यस्तु स्नात्वा नियतमानसः ।
संतर्प्य पितृदेवांश्च पिण्डेन सलिलेन च
॥४॥मूलस्थानं ततः पश्येत्स गच्छेत्परमां गतिम् ।
गुह्याद्गुह्यतरस्तत्र विशेषस्तु श्रुतो मया
॥५॥समागमे मुनीनां तु शङ्कराच्छशिशेखरात् ।
सदा वै शुक्लसप्तम्यां मूलमादित्यवासरः
॥६॥तदा रेवाजलं गत्वा स्नात्वा संतर्प्य देवताः ।
पित्ःंश्च भरतश्रेष्ठ दत्त्वा दानं स्वशक्तितः
॥७॥करवीरैस्ततो गत्वा रक्तचन्दनवारिणा ।
संस्थाप्य भास्करं भक्त्या सम्पूज्य च यथाविधि
॥८॥ततः सागुरुकैर्धूपैः कुन्दरैश्च विशेषतः ।
धूपयेद्देवदेवेशं दीपान् बोध्य दिशो दश
॥९॥उपोष्य जागरं कुर्याद्गीतवाद्यं विशेषतः ।
एवं कृते महीपाल न भवेदुग्रदुःखभाक्
॥१०॥सूर्यलोके वसेत्तावद्यावत्कल्पशतत्रयम् ।
गन्धर्वैरप्सरोभिश्च सेव्यमानो नृपोत्तम
॥११॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मूलस्थानतीर्थमाहात्म्यवर्णनं नाम सप्तनवत्युत्तरशततमोऽध्यायः ॥