कर्मदेश्वरतीर्थमाहत्म्यवर्णनम्
मार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र कर्मदीतीर्थमुत्तमम् ।
यत्र तिष्ठति विघ्नेशो गणनाथो महाबलः
॥१॥तत्र तीर्थे नरः स्नात्वा चतुर्थ्यां वा ह्युपोषितः ।
विघ्नं न विद्यते तस्य सप्तजन्मनि भारत
॥२॥तत्र तीर्थे हि यत्किंचिद्दीयते नृपसत्तम ।
तदक्षयफलं सर्वं जायते नात्र संशयः
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्मदेश्वरतीर्थमाहत्म्यवर्णनं नाम त्रयोविंशत्युत्तरशततमोऽध्यायः॥