मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५४

3
अवन्तीखण्डः · रेवाखण्डः · 54

स्वर्गारोहणवर्णनम्

ईश्वर उवाच

ततश्चानन्तरं राजा जगामोद्वेगमुत्तमम् ।

कथं यामि गृहं त्वद्य वाराणस्यामहं पुनः

॥१॥

ब्रह्महत्यासमाविष्टो जुहोम्यग्नौ कलेवरम् ।

अथवा तस्य वाक्येन तं गच्छाम्याश्रमं प्रति

॥२॥

कथयामि यथावृत्तं गत्वा तस्य महामुनेः ।

एवं संचिन्त्य राजासौ जगामाश्रमसन्निधौ

॥३॥

ऋक्षशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः ।

दृष्टिमार्गे स्थितस्तस्य महर्षेर्भावितात्मनः

॥४॥

दीर्घतपा उवाच

आगच्छ स्वागतं तेऽस्तु आसनेऽत्रोपविश्यताम् ।

अर्घं ददाम्यहं येन मधुपर्कं सविष्टरम्

॥५॥

चित्रसेन उवाच

अर्घस्यास्य न योग्योऽहं महर्षे नास्मि भाषणे ।

मृगमध्यस्थितो विप्रस्तव पुत्रो मया हतः

॥६॥

पुत्रघ्नं विद्धि मां विप्र तीव्रदण्डेन दण्डय ।

मृगभ्रान्त्या हतो विप्र ऋक्षशृङ्गो महातपाः

॥७॥

इति मत्वा मुनिश्रेष्ठ कुरु मे त्वं यथोचितम् ।

माता तद्वचनं श्रुत्वा गृहान्निष्क्रम्य विह्वला

॥८॥

हा हतास्मीत्युवाचेदं पपात धरणीतले ।

विललाप सुदुःखार्ता पुत्रशोकेन पीडिता

॥९॥

हा हता पुत्र पुत्रेति करुणं कुररी यथा ।

विललापातुरा माता क्व गतो मां विहाय वै ।

मुखं दर्शय चात्मीयं मातरं मां हि मानय

॥१०॥

श्रुताध्ययनसम्पन्नं जपहोमपरायणम् ।

आगतं त्वां गृहद्वारे कदा द्रक्ष्यामि पुत्रक

॥११॥

लोकोक्त्या श्रूयते चैतच्चन्दनं किल शीतलम् ।

पुत्रगात्रपरिष्वङ्गश्चन्दनादपि शीतलः

॥१२॥

किं चन्दनेन पीयूपबिन्दुना किं किमिन्दुना

॥१३॥

पुत्रगात्रपरिष्वङ्गपात्रं गात्रं भवेद्यदि

॥१४॥

परिष्वजितुमिच्छामि त्वामहं पुत्र सुप्रिय ।

पञ्चत्वमनुयास्यामि त्वद्विहीनाद्य दुःखिता

॥१५॥

एवं विलपती दीना पुत्रशोकेन पीडिता ।

मूर्छिता विह्वला दीना निपपात महीतले

॥१६॥

भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडिताम् ।

चुकोप स मुनिस्तत्र चित्रसेनाय भूभृते

॥१७॥

दीर्घतपा उवाच

याहि याहि महापाप मा मुखं दर्शयस्व मे ।

किं त्वया घातितो विप्रो ह्यकामाच्च सुतो मम

॥१८॥

ब्रह्महत्या भविष्यन्ति बह्व्यस्ते वसुधाधिप ।

सकुटुम्बस्य मे त्वं हि मृत्युरेष उपस्थितः

॥१९॥

एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनःपुनः ।

परित्यज्य तदा क्रोधं मुनिभावाज्जगाद ह

॥२०॥

दीर्घतपा उवाच

उद्वेगं त्यज भो वत्स दुरुक्तं गदितो मया ।

पुत्रशोकाभिभूतेन दुःखतप्तेन मानद

॥२१॥

किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः ।

प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी

॥२२॥

अनेनैव विधानेन पञ्चत्वं विहितं मम ।

हत्यास्तव भविष्यन्ति पूर्वमुक्ता न संशयः

॥२३॥

ब्रह्मक्षत्रविशां मध्ये शूद्रचण्डालजातिषु ।

कस्त्वं कथय सत्यं मे कस्माच्च निहतो द्विजः

॥२४॥

चित्रसेन उवाच

विज्ञापयामि विप्रर्षे क्षन्तव्यं ते ममोपरि ।

नाहं विप्रोऽस्मि वै तात न वैश्यो न च शूद्रजः

॥२५॥

न व्याधश्चान्त्यजातो वा क्षत्रियोऽहं महामुने ।

काशीराजो मृगान् हन्तुमागतो वनमुत्तमम्

॥२६॥

भ्रान्त्या निपातितो ह्येष मृगरूपधरो मुनिः ।

इदानीं तव पादान्ते संश्रितः पातकान्वितः

॥२७॥

किं कर्तव्यं मया विप्र उपायं कथयस्व मे

॥२८॥

दीर्घतपा उवाच

ब्रह्महत्या न शक्येताप्येका निस्तरितुं प्रभो ।

दशैका च कथं शक्यास्ताः शृणुष्व नरेश्वर

॥२९॥

चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः ।

मया सह न जीवन्ति ऋक्षशृङ्गस्य कारणे

॥३०॥

उपायं शोभनं तात कथयिष्ये शृणुष्व तम् ।

शक्रोऽपि यदि तं कर्तुं सुखोपायं नरेश्वर

॥३१॥

सकुटुम्बं समस्तं मां दाहयित्वानले नृप ।

अस्थीनि नर्मदातोये शूलभेदे विनिक्षिप

॥३२॥

नर्मदादक्षिणे कूले शूलभेदं हि विश्रुतम् ।

सर्वपापहरं तीर्थं सर्वदुःखघ्नमुत्तमम्

॥३३॥

शुचिर्भूत्वा ममास्थीनि तत्र तीर्थे विनिक्षिप ।

मोक्ष्यसे सर्वपापैस्त्वं मम वाक्यान्न संशयः

॥३४॥

राजोवाच

आदेशो दीयतां तात करिष्यामि न संशयः ।

समस्तं मेऽस्ति यत्किंचिद्राज्यं कोशः सुहृत्सुताः

॥३५॥

तवाधीनं महाविप्र प्रयच्छामि प्रसीद मे ।

परस्परं विवदतोर्विप्र राज्ञोस्तदा नृप

॥३६॥

स्फुटित्वा हृदयं शीघ्रं मुनिभार्या मृता तदा ।

पुत्रशोकसमाविष्टा निर्जीवा पतिता क्षितौ

॥३७॥

पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः ।

स्नुषाश्चैव तदा सर्वा मृताश्च सह भर्तृभिः

॥३८॥

पञ्चत्वं च गताः सर्वे मुनिमुख्या नृपोत्तम ।

विप्रानाह्वापयामास ये तत्राश्रमवासिनः

॥३९॥

तेभ्यो निवेदयामास यथावृत्तं नृपोत्तमः ।

स तैस्तदाभ्यनुज्ञातः काष्ठान्यादाय यत्नतः

॥४०॥

दाहं संचयनं चक्रे चित्रसेनो महीपतिः ।

ऋक्षशृङ्गादिसर्वेषां गृहीत्वास्थीनि यत्नतः

॥४१॥

याम्याशां प्रस्थितो राजा पादचारी महीपते ।

न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति

॥४२॥

विश्रम्य च पुनर्गच्छेद्भाराक्रान्तो महीपतिः ।

सचैलं कुरुते स्नानं मुक्त्वास्थीनि पदे पदे

॥४३॥

पिबेज्जलं निराहारः स गच्छन् दक्षिणामुखः ।

अचिरेणैव कालेन संगतो नर्मदातटम्

॥४४॥

आश्रमस्थान् द्विजान् दृष्ट्वा पप्रच्छ पृथिवीपतिः

॥४५॥

चित्रसेन उवाच

कथ्यतां शूलभेदस्य मार्गं मे द्विजसत्तमाः ।

येन यामि महाभागाः स्वकार्यार्थस्य सिद्धये

॥४६॥

मुनय ऊचुः

इतः क्रोशान्तरादर्वाक्तीर्थं परमशोभनम् ।

नर्मदादक्षिणे कूले ततो द्रक्ष्यसि नान्यथा

॥४७॥

ऋषिवाक्येन राजासौ शीघ्रं गत्वा नरेश्वरः ।

स ददर्श ततः शीघ्रं बहुद्विजसमाकुलम्

॥४८॥

बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम् ।

ऋक्षसिंहसमाकीर्णं नानाव्रतधरैः शुभैः

॥४९॥

एकपादास्थिताः केचिदपरे सूर्यदृष्टयः ।

एकाङ्गुष्ठ स्थिताः केचिदूर्ध्वबाहुस्थिताः परे

॥५०॥

दिनैकभोजनाः केचित्केचित्कन्दफलाशनाः ।

त्रिरात्रभोजनाः केचित्पराकव्रतिनोऽपरे

॥५१॥

चान्द्रायणरताः केचित्केचित्पक्षोपवासिनः ।

मासोपवासिनः केचित्केचिदृत्वन्तपारणाः

॥५२॥

योगाभ्यासरताः केचित्केचिद्ध्यायन्ति तत्पदम् ।

शीर्णपर्णाशिनः केचित्केचिच्च कटुकाशनाः

॥५३॥

शैवालभोजनाः केचित्केचिन्मारुतभोजनाः ।

गार्हस्थ्ये च स्थिताः केचित्केचिच्चैवाग्निहोत्रिणः

॥५४॥

एवंविधान् द्विजान् दृष्ट्वा जानुभ्यामवनिं गतः ।

प्रणम्य शिरसा राजन्राजा वचनमब्रवीत्

॥५५॥

चित्रसेन उवाच

कस्मिन्देशे च तत्तीर्थं सत्यं कथयत द्विजाः ।

येनाभिवाञ्छिता सिद्धिः सफला मे भविष्यति

॥५६॥

ऋषय ऊचुः

धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि ।

कुण्डं द्रक्ष्यसि तत्पूर्णं विस्तीर्णं पयसा शिवम्

॥५७॥

तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य सन्निधौ ।

दृष्ट्वा चैव तु तत्तीर्थं भ्रान्तिर्जाता नृपस्य वै

॥५८॥

ततो विस्मयमापन्नश्चिन्तयन्वै मुहुर्मुहुः ।

आकाशस्थं ददर्शासौ सामिषं कुररं नृपः

॥५९॥

भ्रममाणं गृहीताहिं वध्यमानं निरामिषैः ।

परस्परं च युयुधुः सर्वेऽप्यामिषकाङ्क्षया

॥६०॥

हतश्चञ्चुप्रहारेण स ततः पतितोऽंभसि ।

शूलेन शूलिना यत्र भूभागो भेदितः पुरा

॥६१॥

तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् ।

विमानस्थं ददर्शासौ पुमांसं दिव्यरूपिणम्

॥६२॥

गन्धर्वाप्सरसो यक्षास्तं यान्तं तुष्टुवुर्दिवि ।

अप्सरोगीयमाने तु गते सूर्यस्य मूर्धनि ।

चित्रसेनस्ततस्तस्मिन्नाश्चर्यं परमं गतः

॥६३॥

ऋषिणा कथितं यद्वत्तद्वत्तीर्थं न संशयः ।

हृष्टरोमाभवद्दृष्ट्वा प्रभावं तीर्थसम्भवम्

॥६४॥

ममाद्य दिवसो धन्यो यस्मादत्र समागतः ।

अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथाविधि

॥६५॥

तिलमिश्रेण तोयेनातर्पयत्पितृदेवताः ।

गृह्यास्थीनि ततो राजा चिक्षेपान्तर्जले तदा

॥६६॥

क्षणमेकं ततो वीक्ष्य राजोर्द्ध्ववदनः स्थितः ।

तान् ददर्श पुनः सर्वान् दिव्यरूपधराञ्छुभान्

॥६७॥

दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान् ।

विमानैर्विविधैर्दिव्यैरप्सरोगणसेवितैः

॥६८॥

पृथग्भूतांश्च तान् सर्वान् विमानेषु व्यवस्थितान् ।

उत्पत्तिवत्समालोक्य राजा संहर्षी सोऽभवत्

॥६९॥

ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् ।

भोभोः साधो महाराज चित्रसेन महीपते

॥७०॥

त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममेदृषी ।

जातेयं यत्त्वया कार्यं कृतं परमशोभनम्

॥७१॥

स्वसुतोऽपि न शक्नोति पित्ःणां कर्तुमीदृशम् ।

मदीयवचनात्तात निष्पापस्त्वं भविष्यसि

॥७२॥

फलं प्राप्स्यसि राजेन्द्र कामिकं मनसेप्सितम् ।

आशीर्वादांस्ततो दत्त्वा चित्रसेनाय धीमते ।

स्वर्गं जगाम ससुतस्ततो दीर्घतपा मुनिः

॥७३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे दीर्घतपसः स्वर्गारोहणवर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥