मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५१

3
अवन्तीखण्डः · रेवाखण्डः · 51

यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत्

उत्तानपाद उवाच

काले तत्क्रियते कस्मिञ्छ्राद्धं दानं तथेश्वर ।

यात्रा तत्र प्रकर्तव्या तिथौ यस्यां वदाशु तत्

॥१॥

ईश्वर उवाच

पितृतीर्थं यथा पुण्यं सर्वकामिकमुत्तमम् ।

इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः

॥२॥

विशेषेण तु कुर्वीत श्राद्धं सर्वयुगादिषु ।

मन्वन्तरादयो वत्स श्रूयन्तां च चतुर्दश

॥३॥

अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिकस्य च ।

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च

॥४॥

आषाढस्यैव दशमी माघस्यैव तु सप्तमी ।

श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा

॥५॥

फाल्गुनस्य त्वमावास्या पौषस्यैकादशी सिता ।

कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी तथा

॥६॥

मन्वन्तरादयश्चैते अनन्तफलदाः स्मृताः ।

अयने चोत्तरे राजन्दक्षिणे श्राद्धमाचरेत्

॥७॥

कार्त्तिकी च तथा माघी वैशाखस्य तृतीयिका ।

पौर्णमासी च चैत्रस्य ज्येष्ठस्य च विशेषतः

॥८॥

अष्टकासु च संक्रान्तौ व्यतीपाते तथैव च ।

श्राद्धकाला इमे सर्वे दत्तमेष्वक्षयं स्मृतम्

॥९॥

मधुमासे सिते पक्ष एकादश्यामुपोषितः ।

निशि जागरणं कुर्याद्विष्णुपादसमीपतः

॥१०॥

धूपदीपादिनैवेद्यैः स्रङ्मालागुरुचन्दनैः ।

अर्चां कुर्वन्ति ये विष्णोः पठेयुः प्राक्तनीं कथाम्

॥११॥

ऋग्यजुःसाममन्त्रोक्तं सूक्तं जपति यो द्विजः ।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥१२॥

प्रातः श्राद्धं प्रकुर्वीत द्विजान् सम्पूज्य यत्नतः ।

दानं दद्याद्यथाशक्ति गोहिरण्याम्बरादिकम्

॥१३॥

पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम् ।

श्राद्धदस्तु व्रजेत्तत्र यत्र देवो जनार्दनः

॥१४॥

त्रयोदश्यां ततो गच्छेद्गुहावासिनि लिङ्गके ।

दृष्ट्वा मार्कण्डमीशानं मुच्यते सर्वपातकैः

॥१५॥

उत्तानपाद उवाच

गुहामध्ये महादेव लिङ्गं परमशोभितम् ।

येन प्रतिष्ठितं देव तन्ममाख्यातुमर्हसि

॥१६॥

ईश्वर उवाच

त्रिषु लोकेषु विख्यातो मार्कण्डेयो मुनीश्वरः ।

दिव्यं वर्षसहस्रं स तपस्तेपे सुदारुणम्

॥१७॥

गुहामध्यं प्रविष्टोऽसौ योगाभ्यासमुपाश्रितः ।

लिङ्गं तु स्थापितं तेन मार्कण्डेश्वरसंज्ञितम्

॥१८॥

तत्र स्नात्वा च यो भक्त्या सोपवासो जितेन्द्रियः ।

तत्र जागरणं कुर्वन् दद्याद्दीपं प्रयत्नतः

॥१९॥

देवस्य स्नपनं कुर्यान्मृतैः पञ्चभिस्तथा ।

यथा शक्त्या समालभ्य पूजां कुर्याद्यथाविधि

॥२०॥

स्वशाखोत्पन्नमन्त्रैश्च जपं कुर्युर्द्विजातयः ।

सावित्र्यष्टसहस्रं तु शताष्टकमथापि वा

॥२१॥

एतत्कृत्वा नृपश्रेष्ठ जन्मनः फलमाप्नुयात् ।

चतुर्दश्यां तु वै स्नात्वा पूजां कृत्वा यथाविधि

॥२२॥

पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता ।

पितरस्तस्य तृप्यन्ति द्वादशाब्दान्यसंशयम्

॥२३॥

दाता स गच्छते तत्र यत्र भोगाः सनातनाः ।

गुहामध्ये प्रविष्टस्तु लोटयेच्चैव शक्तितः

॥२४॥

नीले गिरौ हि यत्पुण्यं तत्समस्तं लभन्ति ते ।

शूलभेदे तु यः कुर्याच्छ्राद्धं पर्वणि पर्वणि

॥२५॥

विशेषाच्चैत्रमासान्ते तस्य पुण्यफलं शृणु ।

केदारे चैव यत्पुण्यं गङ्गासागरसङ्गमे

॥२६॥

सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः ।

अर्बुदे विद्यते पुण्यं पुण्यं चामरपर्वते

॥२७॥

गयादिसर्वतीर्थानां फलमाप्नोति मानवः ।

विधिमन्त्रसमायुक्तस्तर्पयेत्पितृदेवताः

॥२८॥

कुलानां तारयेद्विंशं दश पूर्वान् दशापरान् ।

दक्षिणस्यां ततो मूर्तौ शुचिर्भूत्वा समाहितः

॥२९॥

न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पिकाम् ।

शास्त्रोक्तैरष्टभिः पुष्पैर्मानसैः शृणु तद्यथा

॥३०॥

वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः ।

वानस्पत्यं भवेत्षष्ठं प्राजापत्यं तु सप्तमम्

॥३१॥

अष्टमं शिवपुष्पं स्यादेषां शृणु विनिर्णयम् ।

वारिजं सलिलं ज्ञेयं सौम्यं मधुघृतं पयः

॥३२॥

आग्नेयं धूपदीपाद्यं वायव्यं चन्दनादिकम् ।

पार्थिवं कन्दमूलाद्यं वानस्पत्यं फलात्मकम्

॥३३॥

प्राजापत्यं तु पाठाद्यं शिवपुष्पं तु वासना ।

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः

॥३४॥

तृतीयं तु दया पुष्पं क्षमा पुष्पं चतुर्थकम् ।

ध्यानपुष्पं तपः पुष्पं ज्ञानपुष्पं तु सप्तमम्

॥३५॥

सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यन्ति देवताः ।

भक्त्या तपस्विनः पूज्या ज्ञानिनश्च नराधिप

॥३६॥

छत्रमावरणं दद्यादुपानद्युगलं तथा ।

तेन पूजितमात्रेण पूजिताः पुरुषास्त्रयः

॥३७॥

स्वर्गलोके वसेत्तावद्यावदाभूतसम्प्लवम् ।

शूलपाणेस्तु भक्त्या वै जाप्यं कुर्वन्ति ये नराः

॥३८॥

पञ्चामृतैः पञ्चगव्यैर्यक्षकर्दमकुङ्कुमैः ।

समालभेत देवेशं श्रीखण्डागुरुचन्दनैः

॥३९॥

नानाविधैश्च ये पुष्पैरर्चां कुर्वन्ति शूलिनः ।

निशि जागरणं कुर्युर्दीपदानं प्रयत्नतः

॥४०॥

धूपनैवेद्यकं दद्यात्पठेत्पौराणिकीं कथाम् ।

तत्र स्थाने स्थिता भक्त्या जपं कुर्वन्ति ये नराः

॥४१॥

श्रीसूक्तं पौरुषं सूक्तं पावमानं वृषाकपिम् ।

वेदोक्तैश्चैव मन्त्रैश्च रौद्रीं वा बहुरूपिणीम्

॥४२॥

ब्राह्मणान् पूजयेद्भक्त्या पूजयित्वा प्रणम्य च ।

नानाविधैर्महाभोगैः शिवलोके महीयते

॥४३॥

अग्निमित्यादि जाप्यानि ऋग्वेदी जपते तु यः ।

रुद्रान् पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम्

॥४४॥

इषेत्वा दिकमन्त्रौघं ज्योतिर्ब्राह्मणमेव च ।

गायत्र्यं वै मधु चैव मण्डलब्राह्मणानि च

॥४५॥

एताञ्जप्यांस्तु यो भक्त्या यजुर्वेदी जपेद्यदि ।

देवव्रतं वामदेव्यं पुरुषर्षभमेव च

॥४६॥

बृहद्रथान्तरं चैव यो जपेद्भक्तितत्परः ।

स प्रयाति नरः स्थानं यत्र देवो महेश्वरः

॥४७॥

पादशौचं तथाभ्यङ्गं कुरुते योऽत्र भक्तितः ।

गोदाने चैव यत्पुण्यं लभते नात्र संशयः

॥४८॥

ब्राह्मणान् भोजयेत्तत्र मधुना पायसेन च ।

एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता

॥४९॥

सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजोत्तमे ।

तर्पितास्तेन देवाः स्युर्मनुष्याः पितरस्तथा

॥५०॥

चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः ।

देवार्चनं ये च कुर्युर्जपं होमं विशेषतः ।

दद्याद्दानं यथाशक्ति ब्राह्मणे वेदपारगे

॥५१॥

अश्वं रथं गजं यानं तुलापुरुषमेव च ।

शकटं यः प्रदद्याद्वा सप्तधान्यप्रपूरितम्

॥५२॥

सयोक्त्रं लाङ्गलं दद्याद्युवानौ तु धुरंधरौ ।

गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम्

॥५३॥

अपात्रे विदुषा किंचिन्न देयं भूतिमिच्छता ।

यतोऽसौ सर्वभूतानि दधाति धरणी किल

॥५४॥

ततो विप्राय सा देया सर्वसस्यौघमालिनी ।

अथान्यच्छृणु राजेन्द्र गोदानस्य तु यत्फलम्

॥५५॥

यावद्वत्सस्य पादौ द्वौ मुखं योन्यां प्रदृश्यते ।

तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति

॥५६॥

येन केनाप्युपायेन ब्राह्मणे तां समर्पयेत् ।

पृथ्वी दत्ता भवेत्तेन सशैलवनकानना

॥५७॥

तारयेन्नियतं दत्ता कुलानामेकविंशतिम् ।

रौप्यखुरीं कांस्यदोहां सवस्त्रां च पयस्विनीम्

॥५८॥

ये प्रयच्छन्ति कृतिनो ग्रस्ते सूर्ये निशाकरे ।

तेषां संख्यां न जानामि पुण्यस्याब्दशतैरपि

॥५९॥

सर्वस्यापि हि दानस्य संख्यास्तीह नराधिप ।

चन्द्रसूर्योपरागे च दानसंख्या न विद्यते

॥६०॥

यत्र गौर्दृश्यते राजन् सर्वतीर्थानि तत्र हि ।

तत्र पर्व विजानीयान्नात्र कार्या विचारणा

॥६१॥

पुनः स्मृत्वा तु तत्तीर्थं यः कुर्याद्गमनं नरः ।

अथवा म्रियते योऽत्र रुद्रस्यानुचरो भवेत्

॥६२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदे दानधर्मप्रशंसावर्णनं नामैकपञ्चाशत्तमोऽध्यायः ॥