अङ्गारकतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महाराज तीर्थमङ्गारकं परम् ।
रूपदं सर्वलोकानां विश्रुतं नर्मदातटे
॥१॥अङ्गारकेण राजेन्द्र पुरा तप्तं तपः किल ।
अर्बुदं च निखर्वं च प्रयुतं वर्षसंख्यया
॥२॥ततस्तुष्टो महादेवः परया कृपया नृप ।
प्रत्यक्षदर्शी भगवानुवाच क्षितिनन्दनम्
॥३॥वरदोऽस्मि महाभाग दुर्लभं त्रिदशैरपि ।
वरं दास्याम्यहं वत्स ब्रूहि यत्ते विवक्षितम्
॥४॥अङ्गारक उवाच
तव प्रसादाद्देवेश सर्वलोकमहेश्वर ।
ग्रहमध्यगतो नित्यं विचरामि नभस्तले
॥५॥यावद्धराधरो लोके यावच्चन्द्रदिवाकरौ ।
नद्यो नदाः समुद्राश्च वरो मे चाक्षयो भवेत्
॥६॥एवमस्त्विति देवेशो दत्त्वा वरमनुत्तमम् ।
जगामाकाशमाविश्य वन्द्यमानः सुरासुरैः
॥७॥भूमिपुत्रस्ततस्तस्मिन्स्थापयामास शङ्करम् ।
गतः सुरालये लोके ग्रहभावे निवेशितः
॥८॥तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
हुतहोमो जितक्रोधः सोऽश्वमेधफलं लभेत्
॥९॥चतुर्थ्यङ्गारके यस्तु स्नात्वा चाभ्यर्चयेद्ग्रहम् ।
अङ्गारकं विधानेन सप्तजन्मानि भारत
॥१०॥दशयोजनविस्तीर्णे मण्डले रूपवान् भवेत् ।
तत्रैव ता मृतो जन्तुः कामतोऽकामतोऽपि वा ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते
॥११॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्गारकतीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरशततमोऽध्यायः ॥