हंसतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेद्धराधीश हंसतीर्थमनुत्तमम् ।
यत्र हंसस्तपस्तप्त्वा ब्रह्मवाहनतां गतः
॥१॥हंसतीर्थे नरः स्नात्वा दानं दत्त्वा च काञ्चनम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति
॥२॥हंसयुक्तेन यानेन तरुणादित्यवर्चसा ।
सर्वकामसमृद्धेन सेव्यमानोऽप्सरोगणैः
॥३॥तत्र भुक्त्वा यथाकामं सर्वान् भोगान् यथेप्सितान् ।
जातिस्मरो हि जायेत पुनर्मानुष्यमागतः
॥४॥संन्यासेन त्यजेद्देहं मोक्षमाप्नोति भारत
॥५॥एतत्ते कथितं पार्थ हंसतीर्थस्य यत्फलम् ।
सर्वपापहरं पुण्यं सर्वदुःखविनाशनम्
॥६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हंसतीर्थमाहात्म्यवर्णनं नाम षण्णवत्युत्तरशततमोऽध्यायः ॥