यत्र सिद्धो महानन्दी तत्ते सर्वं वदाम्यहम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र नन्दिकेश्वरमुत्तमम् ।
यत्र सिद्धो महानन्दी तत्ते सर्वं वदाम्यहम्
॥१॥रेवायां पुरतः कृत्वा पुरा नन्दी गणेश्वरः ।
तपस्तपञ्जयं कुर्वंस्तीर्थात्तीर्थं जगाम ह
॥२॥दधिस्कन्दं मधुस्कन्दं यावत्त्यक्त्वा तु गच्छति ।
तावत्तुष्टो महादेवो नन्दिनाथमुवाच ह
॥३॥ईश्वर उवाच
भोभोः प्रसन्नो नन्दीश वरं वृणु यथेप्सितम् ।
तपसा तेन तुष्टोऽहं तीर्थयात्राकृतेन ते
॥४॥नन्दीश्वर उवाच
न चाहं कामये वित्तं न चाहं कुलसन्ततिम् ।
मुक्त्वा न कामये कामं तव पादाम्बुजात्परम्
॥५॥कृमिकीटपतङ्गेषु तिर्यग्योनिं गतस्य वा ।
जन्म जन्मान्तरेऽप्यस्तु भक्तिस्त्वयि ममाचला
॥६॥तथेत्युक्त्वा महादेवः परया कृपया नृप ।
गृहीत्वा तं करे सिद्धं जगाम निलयं हरः
॥७॥तस्मिंस्तीर्थे तु यः स्नात्वा भक्त्या त्र्यक्षं प्रपूजयेत् ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः
॥८॥तत्र तीर्थे तु यः स्नात्वा प्राणत्यागं करोति चेत् ।
शिवस्यानुचरो भूत्वा मोदते कल्पमक्षयम्
॥९॥ततः कालेन महता जायते विमले कुले ।
वेदवेदाङ्गतत्त्वज्ञो जीवेच्च शरदां शतम्
॥१०॥एतत्ते कथितं तात तीर्थमाहात्म्यमुत्तमम् ।
दुर्लभं मर्त्यसंज्ञस्य सर्वपापक्षयंकरम्
॥११॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः ॥