मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २०

3
अवन्तीखण्डः · रेवाखण्डः · 20

वाराहकल्पवृत्तान्तवर्णनम्

युधिष्ठिर उवाच

श्रुता मे विविधा धर्माः संहारास्त्वत्प्रसादतः ।

कृता देवेन सर्वेण ये च दृष्टास्त्वयानघ

॥१॥

साम्प्रतं श्रोतुमिच्छामि प्रभावं शार्ङ्गधन्वनः ।

त्वयानुभूतं विप्रेन्द्र तन्मे त्वं वक्तुमर्हसि

॥२॥

श्रीमार्कण्डेय उवाच

अतः परं प्रवक्ष्यामि प्रजासंहारलक्षणम् ।

यच्चिह्नं दृश्यते तत्र यथा कल्पो विधीयते

॥३॥

उल्कापाताः सनिर्घाता भूमिकम्पस्तथैव च ।

पतते पांशुवर्षं च निर्घोषश्चैव दारुणः

॥४॥

यक्षकिन्नरगन्धर्वाः पिशाचोरगराक्षसाः ।

सर्वे ते प्रलयं यान्ति युगान्ते समुपस्थिते

॥५॥

पर्वताः सागरा नद्यः सरांसि विविधानि च ।

वृक्षाः शेषं समायान्ति वल्लीजातं तृणानि च

॥६॥

एवं हि व्याकुलीभूते सर्वौषधिजलोज्झिते ।

काष्ठभूते तु संजाते त्रैलोक्ये सचराचरे

॥७॥

यावत्पश्यामि मध्याह्ने स्नानकाल उपस्थिते ।

त्रैलोक्यं ज्वलनाकारं दुर्निरीक्षं दुरासदम्

॥८॥

द्वौ सूर्यौ पूर्वतस्तात पश्चिमोत्तरयोस्तथा ।

तथैव दक्षिणे द्वौ च सूर्यौ दृष्टौ प्रतापिनौ

॥९॥

द्वौ सूर्यौ नागलोकस्थौ मध्ये द्वौ गगनस्य च ।

इत्येते द्वादशादित्यास्तपन्ते सर्वतो दिशम्

॥१०॥

पृथिवीमदहन्सर्वां सशैलवनकाननाम् ।

नादग्धं दृश्यते किंचिदृते रेवां च मां तथा

॥११॥

पृथिव्यां दह्यमानायां हविर्गन्धश्च जायते ।

ततो मे शुष्यते गात्रं तृषाप्येवं दुरासदा

॥१२॥

न हि विन्दामि पानीयं शोषितं च दिवाकरैः ।

यावत्कमण्डलुं वीक्षे शुष्कं तत्रापि तज्जलम्

॥१३॥

ततोऽहं शोकसंतप्तो विशेषात्क्षुत्तृषार्दितः ।

उत्पपात क्षितेरूर्ध्वं पश्यमानो दिवं प्रति

॥१४॥

तावत्पश्यामि गगने गृहं शृङ्गारभूषितम् ।

ततस्तज्ज्ञातुकामोऽहं प्रस्थितो राजसत्तम

॥१५॥

प्राकारेण विचित्रेण कपाटार्गलभूषितम् ।

विचित्रशिखरोपेतं द्वारदेशमुपागतः

॥१६॥

षडशीतिसहस्राणि योजनानां समुच्छ्रये ।

तदर्धं तु पृथक्त्वेन काञ्चनं रत्नभूषितम्

॥१७॥

तत्र मध्ये परां शय्यां पश्यामि नृपसत्तम ।

शय्योपरि शयानं तु पुरुषं दिव्यमूर्धजम्

॥१८॥

विकुञ्चिताग्रकेशान्तं समस्तं योजनायतम् ।

मुकुटेन विचित्रेण दीप्तिकान्तेन शोभितम्

॥१९॥

श्यामं कमलपत्राभं सुप्रभं च सुनासिकम् ।

सिंहास्यमायतभुजं गल्लश्मश्रुवराङ्कितम्

॥२०॥

त्रिवलीभङ्गसुभगं कर्णकुण्डलभूषितम् ।

विशालाभं सुपीनाङ्गं पार्श्वस्वावर्तभूषितम्

॥२१॥

शोभितं कटिभागेन विभक्तं जानुजङ्घयोः ।

पद्माङ्किततलं देवमाताम्रसुनखाङ्गुलिम्

॥२२॥

मेघनादसुगम्भीरं सर्वावयवसुन्दरम् ।

शय्यामध्यगतं देवमपश्यं पुरुषोत्तमम्

॥२३॥

शङ्खचक्रगदापाणिं शयानं दक्षिणेन तु ।

अक्षसूत्रोद्यतकरं सूर्यायुतसमप्रभम्

॥२४॥

तं दृष्ट्वा भक्तिमान्देवं स्तोतुकामो व्यवस्थितः ।

जयेश जय वागीश जय दिव्याङ्गभूषण

॥२५॥

जय देवपते श्रीमन्साक्षाद्ब्रह्म सनातन ।

तव लोकाः शरीरस्थास्त्वं गतिः परमेश्वर

॥२६॥

त्वदाधारा हि देवेश सर्वे लोका व्यवस्थिताः ।

त्वं श्रेष्ठः सर्वसत्त्वानां त्वं कर्ता धरणीधरः

॥२७॥

त्वं हौत्रमग्निहोत्राणां सूत्रमन्त्रस्त्वमेव च ।

गोकर्णं भद्रकर्णं च त्वं च माहेश्वरं पदम्

॥२८॥

त्वं कीर्तिः सर्वकीर्तीनां दैन्यपापप्रणाशिनी ।

त्वं नैमिषं कुरुक्षेत्रं त्वं च विष्णुपदं परम्

॥२९॥

त्वया तु लीलया देव पदाक्रान्ता च मेदिनी ।

त्वया बद्धो बलिर्देव त्वयेन्द्रस्य पदं कृतम्

॥३०॥

त्वं कलिर्द्वापरं देव त्रेता कृतयुगं तथा ।

प्रलम्बदमनश्च त्वं स्रष्टा त्वं च विनाशकृत्

॥३१॥

त्वया वै धार्यते लोकास्त्वं कालः सर्वसंक्षयः ।

त्वया हि देव सृष्टास्ताः सर्वा वै देवयोनयः

॥३२॥

त्वं पन्थाः सर्वलोकानां त्वं च मोक्षः परा गतिः ।

ब्रह्मा त्वदुद्भवो देवो रजोरूपः सनातनः ।

रुद्रः क्रोधोद्भवोऽप्येवं त्वं च सत्त्वे व्यवस्थितः

॥३३॥

एतच्चराचरं देव क्रीडनार्थं त्वया कृतम् ।

एवं संतप्तदेहेन स्तुतो देवो मया प्रभुः

॥३४॥

भक्त्या परमया राजन्सर्वभूतपतिः प्रभुः ।

स्तुवन्वै तत्र पश्यामि वारिपूर्णांस्ततो घटान्

॥३५॥

ततो मया विस्मृता या तृषा सा वर्धिता पुनः ।

उपासर्पं ततस्तस्य पार्श्वं वै पुरुषस्य हि

॥३६॥

पानीयं पातुकामेन चिन्तितं च मया पुनः ।

नापश्यत हि मां चैष सुप्तोऽपि न च बुध्यते

॥३७॥

यस्तु पापेन संमूढः सुखं सुप्तं प्रबोधयेत् ।

जायते तस्य पापस्य ब्रह्महत्याफलं महत्

॥३८॥

एवं संचिन्त्यमाने तु द्वितीयो ह्यागतः पुमान् ।

नेक्षते जल्पते किंचिद्वामस्कन्धे मृगाजिनी

॥३९॥

जटी कमण्डलुधरो दण्डी मेखलया वृतः ।

भस्मोन्मृदितसर्वाङ्गो महातेजास्त्रिलोचनः

॥४०॥

यावत्तं स्तोतुकामोऽहमपश्यं स्वच्छचक्षुषा ।

तावत्सर्वाङ्गसम्भूत्यामहत्या रूपसम्पदा

॥४१॥

अपश्यं संवृतां नारीं सर्वाभरणभूषिताम् ।

दृष्ट्वा तां पतितो भूमौ जयस्वेति ब्रुवंस्ततः

॥४२॥

जय रुद्राङ्गसम्भूते जयवाहिनि सनातनि ।

जय कौमारि माहेन्द्रि वैष्णवी वारुणी तथा

॥४३॥

जय कौबेरि सावित्रि जय धात्रि वरानने ।

तृष्णया तप्तदेहस्य रक्षां कुरु चराचरे

॥४४॥

श्रीदेव्युवाच

प्रसन्ना विप्रशार्दूल तव वाक्यैः सुशोभनैः ।

वर्तते मानसे यत्ते मया ज्ञातं द्विजोत्तम

॥४५॥

शृणु विप्र ममाप्यस्ति व्रतमेतत्सुदारुणम् ।

स्त्रीलघुत्वान्मयारब्धं दुष्करं मन्दमेधया

॥४६॥

यदि भावी च मे पुत्रो धर्मिष्ठो लोकविश्रुतः ।

विप्रस्य तु स्तनं दत्त्वा पश्चाद्दास्यामि बालके

॥४७॥

स मे पुत्रः समुत्पन्नो यथोक्तो मे महामुने ।

स्तनं पिब त्वं विप्रेन्द्र यदि जीवितुमिच्छसि

॥४८॥

श्रीमार्कण्डेय उवाच

अकार्यमेतद्विप्राणां यस्त्विमं पिबते स्तनम् ।

पुनश्चैवोपनयनं व्रतसिद्धिं न गच्छति

॥४९॥

ब्राह्मणत्वं त्रिभिर्लोकैर्दुर्लभं पद्मलोचने ।

संस्कारैः संस्कृतो विप्रो यैश्च जायेत तच्छृणु

॥५०॥

प्रथमं चैव नारीषु संस्कारैर्बीजवापतम् ।

बीजप्रक्षेपणादेव बीजक्षेपः स उच्यते

॥५१॥

तदन्ते च महाभागे गर्भाधानं द्वितीयकम् ।

पुंसवनं तृतीयं तु सीमन्तं च चतुर्थकम्

॥५२॥

पञ्चमं जातकर्म स्यान्नाम वै षष्ठमुच्यते ।

निष्क्रामः सप्तमश्चैव ह्यन्नप्राशनमष्टमम्

॥५३॥

नवमं वै चूडकर्म दशमं मौञ्जिबन्धनम् ।

ऐषिकं दार्विकं चैव सौमिकं भौमिकं तथा

॥५४॥

पत्नीसंयोजनं चान्यद्दैवकर्म ततः परम् ।

मानुष्यं पितृकर्म स्याद्दशमाष्टासु शोभने

॥५५॥

भूतं भव्यं तथेष्टं च पार्वणं च ततः परम्

॥५६॥

श्राद्धं श्रावण्यामाग्रयणं च चैत्राश्वयुज्यां दशपौर्णमास्याम् ।

निरूढपशुसवनसौत्रामण्यग्निष्टोमात्यग्निष्टोमाः

॥५७॥

षोडषीवाजपेयातिरात्राप्तोर्यामोदशवाजपेयाः ।

सर्वभूतेषु क्षान्तिरनसूया शौचमङ्गलमकार्पण्यमस्पृहेति

॥५८॥

एभिरष्टचत्वारिंशद्भिः संस्कारैः संकृतो ब्राह्मणो भवति

॥५९॥

एवं ज्ञात्वा महाभागे न तु मां पातुमर्हसि ।

शिशुपेयं स्तनं भद्रे कथं वै मद्विधः पिबेत्

॥६०॥

ममैतद्वचनं श्रुत्वा नारी वचनमब्रवीत्

॥६१॥

यदि त्वं न पिबेः स्तन्यं पयो बालो मरिष्यति ।

श्रूयते त्रिषु लोकेषु वेदेषु च स्मृतिष्वपि ।

मुच्यते सर्वपापेभ्यो भ्रूणहत्या न मुञ्चति

॥६२॥

भवित्री तव हत्या च महाभागवतः पुनः ।

जन्मानि च शतान्यष्टौ क्लिश्यते भ्रूणहत्यया

॥६३॥

मृतः शुनत्वं चाप्नोति वर्षाणां तु शतत्रयम् ।

ततस्तस्य क्षये जाते काकयोनिं व्रजेत्पुनः

॥६४॥

तत्रापि च शतान्यष्टौ क्लिश्यते पापकर्मणि ।

वराहो दश जन्मानि तदन्ते जायते कृमिः

॥६५॥

ततश्चारोहिणीं प्राप्य गोगजाश्वनृजन्मभाक् ।

श्रूयते श्रुतिशास्त्रेषु वेदेषु च परंतप

॥६६॥

सर्वपापाधिकं पापं बालहत्या द्विजोत्तम ।

बालहत्यायुतो विप्रः पच्यते नरके ध्रुवम्

॥६७॥

वर्षाणि च शतान्यष्टौ प्राप्नोति यमयातनाम् ।

तस्मादल्पतरो दोषः पिबतो मे स्तनं तव

॥६८॥

तथैवापिबतः पापं जायते बहुवर्षिकम् ।

क्षुधातृषाविरामस्ते पुण्यं च पिबतः स्तनम्

॥६९॥

अतो न चेतः संदिग्धं कर्तव्यमिह कर्हिचित् ।

एहि विप्र यथाकामं बालार्थे पिब मे स्तनम्

॥७०॥

ततोऽहं वचनं श्रुत्वा स्तनं पातुं समुद्यतः ।

न च तृप्तिं विजानामि पिबतः स्तनमुत्तमम्

॥७१॥

त्रिंशद्वर्षसहस्राणि भारतैवं शतानि च ।

ततः प्रबुद्धोत्सङ्गेऽहं मायानिद्राविमोहितः

॥७२॥

निद्राविगतमोहोऽहं यावत्पश्यामि पाण्डव ।

तावत्सुप्तं न पश्यामि न च तं बालकं विभो

॥७३॥

चतुरस्तांश्च वै कुम्भान् पश्यामि तत्र भारत ।

न च पश्यामि तां देवीं गता वै कुत्रचिच्च ते

॥७४॥

एवं विमृश्यमानस्य चिन्तयानस्य तिष्ठतः ।

ईषद्धसितया वाचा देवी वचनमब्रवीत्

॥७५॥

श्रीदेव्युवाच

कृष्णः स पुरुषः सुप्तो द्वितीयोऽप्यागतो हरः ।

ये चत्वारश्च ते कुम्भाः समुद्रास्ते द्विजोत्तम

॥७६॥

यश्च बालस्त्वया दृष्टो ब्राह्मा लोकपितामहः ।

अहं च पृथिवी ज्ञेया सप्तद्वीपा सर्वता

॥७७॥

या गता त्वां परित्यज्य भूतले सुप्रतिष्ठिता ।

इमां च प्रेक्षसे विप्र नर्मदां सरितां वराम्

॥७८॥

सर्वसत्त्वोपकाराय बृहते पुण्यलक्षणा ।

रेवानदी तु विख्याता न मृता तेन नर्मदा

॥७९॥

एवं ज्ञात्वा शमं गच्छ स्वस्थो भव महामुने ।

इत्युक्त्वा मां तदा देवी तत्रैवान्तरधीयत

॥८०॥

एवं हि शेते भगवान्सत्त्वस्थः प्रलये सदा ।

सत्त्वरूपो महादेवो यदाधारे जगत्स्थितम्

॥८१॥

एवं मयानुभूतं तु दृष्टमाश्चर्यमुत्तमम् ।

सर्वपापहरं पुण्यं कथितं ते नरोत्तम

॥८२॥

विष्णोश्चरितमित्युक्तं यत्त्वया परिपृच्छितम् ।

भूय एव महाबाहो किमन्यच्छ्रोतुमिच्छसि

॥८३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वाराहकल्पवृत्तान्तवर्णनं नाम विंशोऽध्यायः ॥