रवितीर्थवर्णनम्
श्रीमार्कण्डेय उवाच
तत्रैव तु भवेदन्यदादित्यस्य महात्मनः ।
कीर्तयामि नरश्रेष्ठ यदि ते श्रवणे मतिः
॥१॥युधिष्ठिर उवाच
एतदाश्चर्यमतुलं श्रुत्वा तव मुखोद्गतम् ।
विस्मयाद्धृष्टरोमाहं जातोऽस्मि मुनिसत्तम
॥२॥सहस्रकिरणो देवो हर्ता कर्ता निरञ्जनः ।
अवतारेण लोकानामुद्धर्ता नर्मदातटे
॥३॥पुरुषाकारो भगवानुताहो तपसः फलात् ।
कस्य गोत्रे समुत्पन्नः कस्य देवोऽभवद्वशी
॥४॥श्रीमार्कण्डेय उवाच
कुलिकान्वयसम्भूतो ब्राह्मणो भक्तिमाञ्छुचिः ।
ईक्ष्यामीति रविं तत्र तीर्थे यात्राकृतोद्यमः
॥५॥योजनानां शतं साग्रं निराहारो गतोदकः ।
प्रस्थितो देवदेवेन स्वप्नान्ते वारितः किल
॥६॥भोभो मुने महासत्त्व अलं ते व्रतमीदृशम् ।
सर्वं व्याप्य स्थितं पश्य स्थावरं जङ्गमं च माम्
॥७॥तपाम्यहं ततो वर्षं निगृह्णाम्युत्सृजामि च ।
न मृ(भृ?)तं चैव मृत्युं च यः पश्यति स पश्यति
॥८॥वरं वरय भद्रं त्वमात्मनो यस्तवेप्सितम्
॥९॥ब्राह्मण उवाच
यदि तुष्टोऽसि मे देव देयो यदि वरो मम ।
उत्तरे नर्मदाकूले सदा संनिहितो भव
॥१०॥ये भक्त्या परया देव योजनानां शते स्थिताः ।
स्मरिष्यन्ति जितात्मानस्तेषां त्वं वरदो भव
॥११॥कुब्जान्धबधिरा मूका ये केचिद्विकलेन्द्रियाः ।
तव पादौ नमस्यन्ति तेषां त्वं वरदो भव
॥१२॥शीर्णघ्राणा गतधियो ह्यस्थिचर्मावशेषिताः ।
तेषां त्वं करुणां देव अचिरेण कुरुष्व ह
॥१३॥येऽपि त्वां नर्मदातोये स्नात्वा तत्र दिने दिने ।
अर्चयन्ति जगन्नाथ तेषां त्वं वरदो भव
॥१४॥प्रभाते ये स्तविष्यन्ति स्तवैर्वैदिकलौकिकैः ।
अभिप्रेतं वरं देव तेषां त्वं दद भोच्युत
॥१५॥तवाग्रे वपनं देव कारयन्ति नरा भुवि ।
स्वामिंस्तेषां वरो देय एष मे परमो वरः
॥१६॥एवमस्त्विति तं चोक्त्वा मुनिं करुणया पुनः ।
शतभागेन राजेन्द्र स्थित्वा चादर्शनं गतः
॥१७॥तत्र तीर्थे नरो भक्त्या गत्वा स्नानं समाचरेत् ।
तर्पयेत्पितृदेवांश्च सोऽग्निष्टोमफलं लभेत्
॥१८॥अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
द्योतयन्वै दिशः सर्वा अग्निलोकं स गच्छति
॥१९॥यस्तत्तीर्थं समासाद्य त्यजतीह कलेवरम् ।
स गतो वारुणं लोकमित्येवं शङ्करोऽब्रवीत्
॥२०॥तत्र तीर्थे तु यः कश्चित्संन्यासेन तनुं त्यजेत् ।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते
॥२१॥अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते ।
उषित्वायाति मर्त्ये वै वेदवेदाङ्गविद्भवेत्
॥२२॥व्याधिशोकविनिर्मुक्तो धनकोटिपतिर्भवेत् ।
पुत्रदारसमोपेतो जीवेच्च शरदः शतम्
॥२३॥प्रातरुत्थाय यस्तत्र स्मरते भास्करं तदा ।
आजन्मजनितात्पापान्मुच्यते नात्र संशयः
॥२४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥