मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५

3
अवन्तीखण्डः · रेवाखण्डः · 5

विस्मयं परमापन्ना ऋषिसंघा मया सह

युधिष्ठिर उवाच

आश्चर्यमेतदखिलं कथितं भो द्विजोत्तम ।

विस्मयं परमापन्ना ऋषिसंघा मया सह

॥१॥

अहो भगवती पुण्या नर्मदेयमयोनिजा ।

रुद्रदेहाद्विनिष्क्रान्ता महापापक्षयंकरी

॥२॥

सप्तकल्पक्षये प्राप्ते त्वयेयं सह सुव्रत ।

न मृता च महाभागा किमतः पुण्यमुत्तमम्

॥३॥

के ते कल्पाः समुद्दिष्टाः सप्त कल्पक्षयंकराः ।

न मृता चेदियं देवी त्वं चैव ऋषिपुंगव

॥४॥

अपक्षिगणसंघाते जगत्येकार्णवीकृते ।

कीदृग्रूपः समभवन्महादेवो युगक्षये

॥५॥

कथं संहरते विश्वं कथं चास्ते महार्णवे ।

कथं च सृजते विश्वं कथं धारयते प्रजाः

॥६॥

कीदृग्रूपा भवेद्देवी सरिदेकार्णवीकृते ।

किमर्थं नर्मदा प्रोक्ता रेवती च कथं स्मृता

॥७॥

अञ्जनेति किमर्थं वा किमर्थं सुरसेति च ।

मन्दाकिनी किमर्थं च शोणश्चेति कथं भवेत्

॥८॥

त्रिकूटेति किमर्थं वा किमर्थं वालुवाहिनी ।

कोटिकोट्यो हि तीर्थानां प्रविष्टा या महार्णवम्

॥९॥

कियत्यः सरितां कोट्यो नर्मदां समुपासते ।

यज्ञोपवीतैरृषिभिर्देवताभिस्तथैव च

॥१०॥

विभक्तेयं किमर्थं च श्रूयते मुनिसत्तम ।

वैष्णवीति पुराणज्ञैः किमर्थमिह चोच्यते

॥११॥

केषु स्थानेषु तीर्थेषु पूजनीया सरिद्वरा ।

तीर्थानि च पृथग्ब्रूहि यत्र संनिहितो हरः

॥१२॥

यत्प्रमाणा च सा देवी या रुद्रेण विनिर्मिता ।

कीदृशानि च कर्माणि रुद्रेण कथितानि ते

॥१३॥

कथं म्लेच्छसमाकीर्णो देशोऽयं द्विजसत्तम ।

एतदाचक्ष्व मां ब्रह्मन्मार्कण्डेय महामते

॥१४॥

श्रीमार्कण्डेय उवाच

शृण्वन्तु ऋषयः सर्वे त्वं च तात युधिष्ठिर ।

पुराणं नर्मदायां तु कथितं च त्रिशूलिना

॥१५॥

वायोः सकाशाच्च मया तेनापि च महेश्वरात् ।

अशक्यत्वान्मनुष्याणां संक्षिप्तमृषिभिः पुरा

॥१६॥

मायूरं प्रथमं तात कौर्म्यं च तदनन्तरम् ।

पुरं तथा कौशिकं च मात्स्यं द्विरदमेव च

॥१७॥

वाराहं यन्मया दृष्टं वैष्णवं चाष्टमं परम् ।

न्यग्रोधाख्यमतः चासीदाकाङ्क्षं पुनरुत्तमम्

॥१८॥

पद्मं च तामसं चैव संवर्तोद्वर्तमेव च ।

महाप्रलयमित्याहुः पुराणे वेदचिन्तकाः

॥१९॥

एतत्संक्षेपतः सर्वं संक्षिप्तं तैर्महात्मभिः ।

विभक्तं च चतुर्भागैर्ब्रह्माद्यैश्च महर्षिभिः

॥२०॥

तदहं सम्प्रवक्ष्यामि पुराणार्थविशारद ।

सप्त कल्पा महाघोरा यैरियं न मृता सरित्

॥२१॥

आ जङ्गमं तमोभूतमप्रज्ञातमलक्षणम् ।

नष्टचन्द्रार्ककिरणमासीद्भूतविवर्जितम्

॥२२॥

तमसोऽतो महानाम्ना पुरुषः स जगद्गुरुः ।

चचार तस्मिन्नेकाकी व्यक्ताव्यक्तः सनातनः

॥२३॥

स चौंकारमयोऽतीतो गायत्रीमसृजद्द्विजः ।

स तया सार्द्धमीशानश्चिक्रीड पुरुषो विराट्

॥२४॥

स्वदेहादसृजद्विश्वं पञ्चभूतात्मसंज्ञितम् ।

क्रीडन्समसृजद्विश्वं पञ्चभूतात्मसंज्ञितम्

॥२५॥

क्रीडन् सृजद्विराट्संज्ञः सबीजं च हिरण्मयम् ।

तच्चाण्डमभवद्दिव्यं द्वादशादित्यसन्निभम्

॥२६॥

तद्भित्त्वा पुरुषो जज्ञे चतुर्वक्त्रः पितामहः ।

सोऽसृजद्विश्वमेवं तु सदेवासुरमानुषम्

॥२७॥

सतिर्यक्पशुपक्षीकं स्वेदाण्डजजरायुजम् ।

एतदण्डं पुराणेषु प्रथमं परिकीर्तितम्

॥२८॥

पूर्वकल्पे नृपश्रेष्ठ क्रीडन्त्या परमेष्ठिना ।

उमया सह रुद्रस्य क्रीडतश्चार्णवीकृतः

॥२९॥

हर्षाज्जज्ञे शुभा कन्या उमायाः स्वेदसंभवा ।

शर्वस्योरःस्थलाज्जज्ञे उमा कुचविमर्दनात्

॥३०॥

स्वेदाद्विजज्ञे महती कन्या राजीवलोचना ।

द्वितीयः संभवो यस्या रुद्रदेहाद्युधिष्ठिर

॥३१॥

सा परिभ्रमते लोकान् सदेवासुरमानवान् ।

त्रैलोक्योन्मादजननी रूपेणऽप्रतिमा तदा

॥३२॥

तां दृष्ट्वा देवदैत्येन्द्रा मोहिता लभते कथम् ।

मृगयन्ति स्म तां कन्यामितश्चेतश्च भारत

॥३३॥

हावभावविलासैश्च मोहयत्यखिलं जगत् ।

भ्रमते दिव्यरूपा सा विद्युत्सौदामिनी यथा

॥३४॥

मेघमध्ये स्थिता भाभिः सर्वयोषिदनुत्तमा ।

ततो रुद्रं सुराः सर्वे दैत्याश्च सह दानवैः

॥३५॥

वरयन्ति स्म तां कन्यां कामेनाकुलिता भृशम् ।

ततोऽब्रवीन्महादेवो देवदानवयोर्द्वयोः

॥३६॥

बलेन तेजसा चैव ह्यधिको यो भविष्यति ।

स इमां प्राप्स्यते कन्यां नान्यथा वै सुरोत्तमाः

॥३७॥

ततो देवासुराः सर्वे कन्यां वै समुपागमन् ।

अहमेनां ग्रहीष्यामि अहमेनामिति ब्रुवन्

॥३८॥

पश्यतामेव सर्वेषां सा कन्यान्तरधीयत ।

पुनस्तां ददृशुः सर्वे योजनान्तरधिष्ठिताम्

॥३९॥

जग्मुस्ते त्वरिताः सर्वे यत्र सा समदृश्यत ।

त्रिभिश्चतुर्भिश्च तथा योजनैर्दशभिः पुनः

॥४०॥

धिष्ठितां समपश्यंस्ते सर्वे मातंगगामिनीम् ।

योजनानां शतैर्भूयः सहस्रैश्चाप्यधिष्ठिताम्

॥४१॥

तथा शतसहस्रेण लघुत्वात्समदृश्यत ।

अग्रतः पृष्ठतश्चैव दिशासु विदिशासु च

॥४२॥

तां पश्यन्ति वरारोहामेकधा बहुधा पुनः ।

दिव्यवर्षसहस्रं तु भ्रामितास्ते तया पुरा

॥४३॥

न चावाप्ता तु सा कन्या महादेवाङ्गसंभवा ।

सहोमया ततो देवो जहासोच्चैः पुनःपुनः

॥४४॥

गणास्तालकसंपातैर्नृत्यन्ति च मुदान्विताः ।

अकस्माद्दृश्यते कन्या शंकरस्य समीपगा

॥४५॥

तां दृष्ट्वा विस्मयापन्ना देवा यान्ति पराङ्मुखाः ।

तस्याश्चक्रे ततो नाम स्वयमेव पिनाकधृक्

॥४६॥

नर्म चैभ्यो ददे यस्मात्तत्कृतैश्चेष्टितैः पृथक् ।

भविष्यसि वरारोहे सरिच्छ्रेष्ठा तु नर्मदा

॥४७॥

स्वरूपमास्थितो देवः प्राप हास्यं यतो भुवि ।

नर्मदा तेन चोक्तेयं सुशीतलजला शिवा

॥४८॥

सप्तकल्पक्षये जाते यदुक्तं शंभुना पुरा ।

न मृता तेन राजेन्द्र नर्मदा ख्यातिमागता

॥४९॥

ततस्तामददात्कन्यां शीलवतीं सुशोभनाम् ।

महार्णवाय देवेशः सर्वभूतपतिः प्रभुः

॥५०॥

ततः सा ऋक्षशैलेन्द्रात्फेनपुञ्जाट्टहासिनी ।

विवेश नर्मदा देवी समुद्रं सरितां पतिम्

॥५१॥

एवं ब्राह्मे पुरा कल्पे समुद्भूतेयमीश्वरात् ।

मात्स्ये कल्पे मया दृष्टा समाख्याता मया शृणु

॥५२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पञ्चमोऽध्यायः ॥