मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ३९

3
अवन्तीखण्डः · रेवाखण्डः · 39

स्नानमात्रान्नरो भक्त्या मुच्यते सर्वकिल्बिषैः

श्रीमार्कण्डेय उवाच

ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम् ।

स्नानमात्रान्नरो भक्त्या मुच्यते सर्वकिल्बिषैः

॥१॥

युधिष्ठिर उवाच

आश्चर्यभूतं लोकेषु कथितं द्विजसत्तम ।

नर्मदेश्वरमाहात्म्यं कापिलं कथयस्व मे

॥२॥

यस्मिन् कालेऽथ सम्बन्धे उत्पन्नं तीर्थमुत्तमम् ।

सर्वपापहरं पुण्यं तीर्थं जातं कथं प्रभो

॥३॥

मार्कण्डेय उवाच

शृणु वक्ष्येऽद्य ते राजन्कपिलातीर्थमुत्तमम् ।

येन ते विस्मयः सर्वः श्रुत्वा गच्छति भारत

॥४॥

पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः ।

उत्पादयित्वा सकलं भूतग्रामं चतुर्विधम्

॥५॥

जपहोमपरो भक्त्या क्षणं ध्यात्वा च तिष्ठति ।

ज्वलमानात्तु कपिला तावत्कुण्डात्समुत्थिता

॥६॥

अग्निज्वालोज्ज्वलैः शृङ्गैस्त्रिनेत्रा सुपयस्विनी ।

अग्निपूर्णा ह्यग्निमुखा अग्निघ्राणाग्निलोचना

॥७॥

अग्निखुरा ह्यग्निपृष्ठा अग्निसर्वाङ्गसंस्थितिः ।

सर्वलक्षणसम्पूर्णा घण्टाललितनिःस्वना

॥८॥

दृष्ट्वा तु तां महाभागां कपिलां कुण्डमध्यगाम् ।

ब्रह्मा लोकगुरुस्तात प्रणम्येदमुवाच ह

॥९॥

नमस्ते कपिले पुण्ये सर्वलोकनमस्कृते ।

मङ्गल्ये मङ्गले देवि त्रिषु लोकेष्वनुपमे

॥१०॥

त्वं लक्ष्मीस्त्वं स्मृतिर्मेधा त्वं धृतिस्त्वं वरानने ।

उमादेवीति विख्याता त्वं सती नात्र संशयः

॥११॥

वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने ।

कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च

॥१२॥

कालरात्रिस्तु भूतानां कुमारी परमेश्वरी ।

त्वं लवस्त्वं त्रुटिश्चैव मुहूर्तं लक्षमेव च

॥१३॥

संवत्सरस्त्वं मासस्त्वं कालस्त्वं च क्षणस्तथा ।

नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे

॥१४॥

एवं स्तुता तु मानेन कपिला परमेष्ठिना ।

तमुवाच महाभागं प्रहृष्य पद्मसम्भवम्

॥१५॥

प्रसन्ना तव वाक्येन देवदेव जगद्गुरो ।

किं करोमि प्रियं तेऽद्य ब्रूहि सर्वं पितामह

॥१६॥

ब्रह्मोवाच

जगद्धिताय जनिता मया त्वं परमेश्वरि ।

स्वर्गान्मर्त्यं ततो याहि लोकानां हितकाम्यया

॥१७॥

सर्वदेवमयी त्वं तु सर्वलोकमयी तथा ।

विधिना ये प्रदास्यन्ति तेषां वासस्त्रिविष्टपे

॥१८॥

एवमुक्त्वा ततो देवी ब्रह्माणं परमेश्वरी ।

वन्द्यमाना सुरैः सिद्धैराजगाम धरातलम्

॥१९॥

युधिष्ठिर उवाच

यदायातेह सा तात ब्राह्मणो वचनाच्छुभा ।

तदा देवाश्च लोकाश्च कथमङ्गेषु संस्थिताः

॥२०॥

कथं वा संस्थितागत्य कपिला सा द्विजोत्तम ।

तीर्थे वा ह्यूषरे क्षेत्र एतन्मे कथय द्विज

॥२१॥

मार्कण्डेय उवाच

सा तदा ब्रह्मणा चोक्ता धात्रा लोकस्य भारत ।

ब्रह्मलोकाद्गता पुण्यां नर्मदां लोकपावनीम्

॥२२॥

तपः कृत्वा सुविपुलं नर्मदातटमाश्रिता ।

चचार पृथिवीं सर्वां सशैलवनकाननाम्

॥२३॥

तदाप्रभृति राजेन्द्र कपिलातीर्थमुत्तमम् ।

सर्वपापहरं ख्यातमृषिसङ्घैर्निषेवितम्

॥२४॥

तत्तीर्थे विधिवत्स्नात्वा कपिलायाः प्रयच्छति ।

पृथ्वी तेन भवेद्दत्ता सशैलवनकानना

॥२५॥

तां तु पश्यति यो भक्त्या दीयमानां द्विजोत्तमे ।

तस्य वर्षशतं पापं नश्यते नात्र संशयः

॥२६॥

भूर्भुवः स्वर्महश्चैव जनः सत्यं तपस्तथा ।

ते तत्पृष्ठं समाश्रित्य स्थिता लोका नृपोत्तम

॥२७॥

मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः ।

धाता विधाता ह्योष्ठौ च जिह्वायां तु सरस्वती

॥२८॥

सहस्रकिरणौ देवौ चन्द्रादित्यौ सुलोचनौ ।

नासिकामध्यगश्चैव मारुतो नृपसत्तम

॥२९॥

ललाटे तु महादेवो ह्यश्विनौ कर्णसंस्थितौ ।

नरनारायणौ शृङ्गे शृङ्गमध्ये पितामहः

॥३०॥

कम्बलोऽधिगतस्तात पाशधृग्वरुणस्तथा ।

यमश्च भगवान्देव आश्रित्य चोदरं श्रितः

॥३१॥

खुरेषु पन्नगाश्चैवं पुच्छाग्रे सूर्यरश्मयः ।

एवम्भूतां हि कपिलां सर्वदेवमयीं नृप

॥३२॥

ये धारयन्ति च गृहे धन्यास्ते नात्र संशयः ।

प्रातरुत्थाय यस्तस्याः कुरुते तु प्रदक्षिणाम्

॥३३॥

प्रदक्षिणा कृता तेन सशैलवनकानना ।

कपिलापञ्चगव्येन यः स्नापयति शङ्करम्

॥३४॥

उपवासपरो यस्तु तस्मिंस्तीर्थे नराधिप ।

स्नात्वा ह्युक्तविधानेन तर्पयेत्पितृदेवताः

॥३५॥

तस्य ते वंशजाः सर्वे दश पूर्वे दशापरे ।

तृप्ता रोहन्ति वै स्वर्गे ध्यायन्तोऽस्य मनोरथान्

॥३६॥

एष ते विधिरुद्दिष्टः सम्भवो नृपसत्तम ।

तीर्थस्य च फलं पुण्यं किमन्यत्परिपृच्छसि

॥३७॥

धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम् ।

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः

॥३८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्ये कपिलातीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥