मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५४

3
अवन्तीखण्डः · रेवाखण्डः · 154

कलकलेश्वरतीर्थफलमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

नर्मदादक्षिणे कूले तीर्थं कलकलेश्वरम् ।

विख्यातं सर्वलोकेषु स्वयं देवेन निर्मितम्

॥१॥

अन्धकं समरे हत्वा देवदेवो महेश्वरः ।

सहितो देवगन्धर्वैः किन्नरैश्च महोरगैः

॥२॥

शङ्खतूर्यनिनादैश्च मृदङ्गपणवादिभिः ।

वीणावेणुरवैश्चान्यैः स्तुतिभिः पुष्कलादिभिः

॥३॥

गायन्ति सामानि यजूंषि चान्ये छन्दांसि चान्ये ऋचमुद्गिरन्ति ।

स्तोत्रैरनेकैरपरे गृणन्ति महेश्वरं तत्र महानुभावाः

॥४॥

प्रमथानां निनादेन कल्कलेन च बन्दिनाम् ।

यस्मात्प्रतिष्ठितं लिङ्गं तस्माज्जातं तदाख्यया

॥५॥

तत्र तीर्थे तु यः स्नात्वा वीक्षेत्कलकलेश्वरम् ।

वाजपेयात्परं पुण्यं स लभेन्मानवो भुवि

॥६॥

तेन पुण्येन पूतात्मा प्राणत्यागाद्दिवं व्रजेत् ।

आरूढः परमं यानं गीयमानोऽप्सरोगणैः

॥७॥

उपभुज्य महाभोगान्कालेन महता ततः ।

मर्त्यलोके महात्मासौ जायते विमले कुले

॥८॥

ब्राह्मणः सुभगो लोके वेदवेदाङ्गपारगः ।

व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कलकलेश्वरतीर्थफलमाहात्म्यवर्णनं नाम चतुःपञ्चाशदधिकशततमोऽध्यायः ॥