मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ६०

3
अवन्तीखण्डः · रेवाखण्डः · 60

आदित्येश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

भूयोऽप्यहं प्रवक्ष्यामि आदित्येश्वरमुत्तमम् ।

सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम्

॥१॥

आयुःश्रीवर्द्धनं नित्यं पुत्रदं स्वर्गदं शिवम् ।

यस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन

॥२॥

नालभन्त श्रियं नाके मर्त्ये पातालगोचरे ।

कुरुक्षेत्रं गया गङ्गा नैमिषं पुष्करं तथा

॥३॥

वाराणसी च केदारं प्रयागं रुद्रनन्दनम् ।

महाकालं सहस्राक्षं शुक्लतीर्थं नृपोत्तम

॥४॥

रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम् ।

रवितीर्थे हि यद्वृत्तं तच्छृणुष्व नृपोत्तम

॥५॥

स्नेहात्ते कथयिष्यामि वार्द्धकेनातिपीडितः ।

शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महौजसः

॥६॥

श्रुतं मे रुद्रसांनिध्ये नन्दिस्कन्दगणैः सह ।

पार्वत्या पृष्टः शम्भुश्च रवितीर्थस्य यत्फलम्

॥७॥

शम्भुना च यदाख्यातं गिरिजायाः ससम्भ्रमम् ।

तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया

॥८॥

तत्तेऽहं सम्प्रवक्ष्यामि शृणु यत्नेन पाण्डव ।

दुर्भिक्षोपहता विप्रा नर्मदां तु समाश्रिताः

॥९॥

उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा ।

याज्ञवल्क्योऽथ गर्गश्च शाण्डिल्यो गालवस्तथा

॥१०॥

नाचिकेतो विभाण्डश्च वालखिल्यादयस्तथा ।

शातातपश्च शङ्खश्च जैमिनिर्गोभिलस्तथा

॥११॥

जैगीषव्यः शतानीकः सर्व एव समागताः ।

तीर्थयात्रा कृता तैस्तु नर्मदायाः समन्ततः

॥१२॥

आदित्येश्वरमायाताः प्रसङ्गादृषिपुंगवाः ।

वृक्षैः संछादितं शुभ्रं धवतिन्दुकपाटलैः

॥१३॥

जम्बीरैरर्जुनैः कुब्जैः शमीकेसरकिंशुकैः ।

तस्मिंस्तीर्थे महापुण्ये सुगन्धिकुसुमाकुले

॥१४॥

पुन्नागनालिकेरैश्च खदिरैः कल्पपादपैः ।

अनेकश्वापदाकीर्णं मृगमार्जारसंकुलम्

॥१५॥

ऋक्षहस्तिसमाकीर्णं चित्रकैश्चोपशोभितम् ।

प्रविष्टा ऋषयः सर्वे वने पुष्पसमाकुले

॥१६॥

वनान्ते च स्त्रियो दृष्ट्वा रक्ता रक्ताम्बरान्विताः ।

रक्तमाल्यानुशोभाढ्या रक्तचन्दनचर्चिताः

॥१७॥

रक्ताभरणसंयुक्ताः पाशहस्ता भयावहाः ।

तासां समीपगा दृष्टाः कृष्णजीमूतसन्निभाः

॥१८॥

महाकाया भीमवक्त्राः पाशहस्ता भयावहाः ।

अनावृष्ट्युपमा दृष्टा आतुराः पिङ्गलोचनाः

॥१९॥

दीर्घजिह्वा करालास्या तीक्ष्णदंष्ट्रा दुरासदा ।

वृद्धा नारी कुरुश्रेष्ठ दृष्टान्या ऋषिपुंगवैः

॥२०॥

ततः समीपगा वृद्धा तस्य वृन्दस्य भारत ।

स्वाध्यायनिरता विप्रा दृष्टास्तैः पापकर्मभिः

॥२१॥

ऊचुस्ते तु समूहेन ब्राह्मणांस्तपसि स्थितान् ।

अस्माकं स्वामिनः सर्वे तिष्ठन्ते तीर्थमध्यतः ।

ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः

॥२२॥

तच्छ्रुत्वा वचनं तेषां सर्वे चैव त्वरान्विताः ।

जग्मुस्ते नर्मदाकक्षं दृष्ट्वा रेवां द्विजोत्तमाः

॥२३॥

ततः केचित्स्तुवन्त्यन्ये जय देवि नमोऽस्तु ते

॥२४॥

नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले ।

नमोऽस्तु ते विप्रसहस्रसेविते नमोऽस्तु रुद्राङ्गसमुद्भवे वरे

॥२५॥

नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरप्रदे शिवे ।

नमामि ते शीतजले सुखप्रदे सरिद्वरे पापहरे विचित्रिते

॥२६॥

अनेकभूतौघसुसेविताङ्गे गन्धर्वयक्षोरगपाविताङ्गे ।

महागजौघैर्महिषैर्वराहैरापीयसे तोयमहोर्मिमाले

॥२७॥

नमामि ते सर्ववरे सुखप्रदे विमोचयास्मानघपाशबद्धान्

॥२८॥

भ्रमन्ति तावन्नरकेषु मर्त्या यावत्तवाम्भो नहि संश्रयन्ति ।

स्पृष्टं करैश्चन्द्रमसो रवेश्चेत्तद्देवि दद्यात्परमं पदं तु

॥२९॥

अनेकसंसारभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।

गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम्

॥३०॥

नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र ।

दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि

॥३१॥

विण्मूत्रदेहाश्च निमग्नदेहा भ्रमन्ति तावन्नरकेषु मर्त्याः ।

महाबलध्वस्ततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति

॥३२॥

म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽंभस्तव देवि पुण्यम् ।

तेऽपि प्रमुच्यन्ति भयाच्च घोरात्किमत्र विप्रा भवपाशभीताः

॥३३॥

सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन्कलिनावसृष्टे ।

त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा

॥३४॥

तव प्रासादाद्वरदे विशिष्टे कालं यथेमं परिपालयित्वा ।

यास्याम मोक्षं तव सुप्रसादाद्वयं यथा त्वं कुरु नः प्रसादम्

॥३५॥

त्वामाश्रिता ये शरणं गताश्च गतिस्त्वमम्बेव पितेव पुत्रान् ।

त्वत्पालिता यावदिमं सुघोरं कालं त्वनावृष्टिहतं क्षिपामः

॥३६॥

एवं स्तुता तदा देवी नर्मदा सरितां वरा ।

प्रत्यक्षा सा परा मूर्तिर्ब्राह्मणानां युधिष्ठिर

॥३७॥

श्रीमार्कण्डेय उवाच

पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परया प्रशान्ताः ।

ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताङ्गाः

॥३८॥

ये स्तोत्रमेतत्सततं जपन्ति स्नात्वा च तोयेन तु नर्मदायाः ।

तेभ्योऽन्तकाले सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति

॥३९॥

प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवेन्द्रम् ।

देहक्षयं स्वे सलिले ददाति समाश्रयं तस्य महानुभाव

॥४०॥

पापैर्विमुक्ता दिवि मोदमानाः सम्भोगिनश्चैव तु नान्यथा च

॥४१॥

प्रसन्ना नर्मदा देवी स्तोत्रेणानेन भारत ।

जलेनाप्यायितान् विप्रान् दक्षिणापथवाहिनी

॥४२॥

अमृतत्वं तु वो दद्मि योगिभिर्यन्न गम्यते ।

दुर्लभं यत्सुरैः सर्वैर्मत्प्रसादाल्लभिष्यथ

॥४३॥

इति ते ब्राह्मणा राजंल्लब्धा वरमनुत्तमम् ।

गमिष्यन्तः प्रीतचित्ता ददृशुश्चित्रमद्भुतम्

॥४४॥

श्रीमार्कण्डेय उवाच

दृष्टास्तैः पुरुषाः पार्थ नर्मदातटसंस्थिताः ।

स्नानदेवार्चनासक्ताः पञ्च एव महाबलाः

॥४५॥

ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः ।

संपृष्टास्तैर्महाराज यथा तदवधारय

॥४६॥

विप्रा ऊचुः

वनान्ते स्त्रीयुगं दृष्ट्वा महारौद्रं भयावहम् ।

वृद्धाश्च पुरुषास्तत्र पाशहस्ता भयावहाः

॥४७॥

दुर्धर्षा दुर्निरीक्ष्याश्च इतश्चेतश्च चञ्चलाः ।

व्याहरन्तः शुभां वाचं न तत्र गतिरस्ति वै

॥४८॥

अपरस्परयोः सर्वे निरीक्षन्तः पुनःपुनः ।

तैस्तु यद्वचनं प्रोक्तं तत्सर्वं कथ्यतामिति

॥४९॥

अस्माकं पुरुषाः पञ्च तिष्ठन्ति तत्र सत्तमाः ।

ते प्रस्थाप्या महाभागाः सर्वथैव त्वरान्विताः

॥५०॥

अथ ते पुरुषाः पञ्च श्रुत्वा वाक्यमिदं शुभम् ।

परस्परं निरीक्षन्तो वदन्ति च पुनःपुनः

॥५१॥

क्व ते कस्य कुतो याताः किमुक्तं तैर्भयावहैः

॥५२॥

पुरुषा ऊचुः

तीर्थावगाहनं सर्वैः पूर्वदक्षिणपश्चिमैः ।

उत्तरैश्च कृतं भक्त्या न पापं तैर्व्यपोहितम्

॥५३॥

निष्पापाश्चाथ संजातास्तीर्थस्यास्य प्रभावतः ।

शृण्वन्तु ऋषयः सर्वे वह्निकालोपमा द्विजाः

॥५४॥

पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम् ।

पापिष्ठेन तु चैकेन गुरुदारा निषेविता

॥५५॥

हृतं चान्येन मित्रस्वं सुवर्णं च धनं तथा ।

ब्रह्महत्या महारौद्रा कृता चान्येन पातकम्

॥५६॥

सुरापानं तु चान्यस्य संजातं चाप्यकामतः ।

गोवध्या चाप्यकामेन कृता चैकेन पापिना

॥५७॥

अकामतोऽपि सर्वेषां पातकानि नराधिप ।

ब्राह्मणानां तु ते श्रुत्वा वाक्यं तद्विस्मयान्विताः

॥५८॥

सद्य एव तदा जाताः पापिष्ठा गतकल्मषाः ।

तीर्थस्यास्य प्रभावेन नर्मदायाः प्रभावतः

॥५९॥

न क्वचित्पातकानां तु प्रवेशश्चात्र जायते ।

एवं संचित्य ते सर्वे पापिष्ठाश्च परस्परम्

॥६०॥

चित्रभानुः स्मृतस्तैस्तु विचिन्त्य हृदये हरिम् ।

स्नात्वा रेवाजले पुण्ये तर्पिताः पितृदेवताः

॥६१॥

नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम् ।

प्रदक्षिणं तु तं भक्त्या ज्वलन्तं जातवेदसम्

॥६२॥

पतिताः पाण्डवश्रेष्ठ पापोद्विग्ना महीपते ।

सात्त्विकीं वासनां कृत्वा त्यक्त्वा रजस्तमस्तथा

॥६३॥

हतं तैः पावके सर्वं रेवाया उत्तरे तटे ।

विमानस्थास्तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर

॥६४॥

आश्चर्यमतुलं दृष्टमृषिभिर्नर्मदातटे ।

तदाप्रभृति ते सर्वे रागद्वेषविवर्जिताः

॥६५॥

रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया ।

तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप

॥६६॥

पीडितो वृद्धभावेन भक्त्या प्रीतो नरेश्वर ।

उद्देशं कथयिष्यामि द्विक्रोशाभ्यन्तरे स्थितः

॥६७॥

कुरुक्षेत्रं यथा पुण्यं रवितीर्थं श्रुतं मया ।

ईश्वरेण पुरा ख्यातं षण्मुखस्य नराधिप

॥६८॥

श्रुतं रुद्राच्च तैः सर्वैरहं तत्र समीपगः ।

ईश्वर उवाच - मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन ।

रवितीर्थे कुरुक्षेत्रे तुल्यमेतत्फलं लभेत्

॥६९॥

स्नाने दाने तथा जप्ये होमे चैव विशेषतः ।

कुरुक्षेत्रे समं पुण्यं नात्र कार्या विचारणा

॥७०॥

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।

रवितीर्थे विशेषेण रेवा पुण्यफलप्रदा

॥७१॥

षष्ठ्यां सूर्यदिने भक्त्या व्यतीपाते च वै धृतौ ।

संक्रान्तौ ग्रहणेऽमायां ये व्रजन्ति जितेन्द्रियाः

॥७२॥

कामक्रोधैर्विमुक्ताश्च रागद्वेषैस्तथैव च ।

उपोष्य परया भक्त्या देवस्याग्रे नराधिप

॥७३॥

रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् ।

कथां वै वैष्णवीं पार्थ वेदाभ्यसनमेव च

॥७४॥

ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम् ।

ऋचमेकां जपेद्यस्तु स वेदफलमाप्नुयात्

॥७५॥

गायत्र्या च चतुर्वेदफलमाप्नोति मानवः ।

प्रभाते पूजयेद्विप्रानन्नदानहिरण्यतः

॥७६॥

भूमिदानेन वस्त्रेण अन्नदानेन शक्तितः ।

छत्रोपानहशय्यादिगृहदानेन पाण्डव

॥७७॥

ग्रामधूर्वहदानेन गजकन्याहयेन च ।

विद्याशकटदानेन सर्वेषामभयं भवेत्

॥७८॥

शत्रुश्च मित्रतां याति विषं चैवामृतं भवेत् ।

ग्रहा भवन्ति सुप्रीताः प्रीतस्तस्य दिवाकरः

॥७९॥

एतत्ते सर्वमाख्यातं रवितीर्थफलं नृप ।

ये शृण्वन्ति नरा भक्त्या रवितीर्थफलं शुभम्

॥८०॥

तेऽपि पापविनिर्मुक्ता रविलोके वसन्ति हि ।

गोदानेन च यत्पुण्यं यत्पुण्यं भृगुदर्शने

॥८१॥

केदार उदकं पीत्वा तत्पुण्यं जायते नृणाम् ।

अब्दमश्वत्थसेवायां तिलपात्रप्रदो भवेत्

॥८२॥

तत्फलं समवाप्नोति आदित्येश्वरकीर्तनात् ।

श्रुते यस्य प्रभावे न जायते यन्नृपात्मज

॥८३॥

तत्सर्वं कथयिष्यामि भक्त्या तव महीपते ।

पापानि च प्रलीयन्ते भिन्नपात्रे यथा जलम्

॥८४॥

तीर्थस्याभिमुखो नित्यं जायते नात्र संशयः ।

गुह्याद्गुह्यतरं तीर्थं कथितं तव पाण्डव

॥८५॥

पापिष्ठानां कृतघ्नानां स्वामिमित्रावघातिनाम् ।

तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः

॥८६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आदित्येश्वरतीर्थमाहात्म्यवर्णनं नाम षष्टितमोऽध्यायः ॥