मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ७३

3
अवन्तीखण्डः · रेवाखण्डः · 73

गोप्रेक्षेश्वरमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

काशी: गंगातटे कूले तीर्थं परमशोभनम् ।

सर्वपापहरं पार्थ गोप्रेक्षेश्वरमुत्तमम् ।

गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप

॥१॥

युधिष्ठिर उवाच

गोदेहान्निःसृतं कस्माल्लिङ्गं पापक्षयंकरम् ।

काशी: गंगातटे कूले मणिनागसमीपतः ।

संक्षेपात्कथ्यतां विप्र गोप्रेक्षेश्वरसम्भवम्

॥२॥

श्रीमार्कण्डेय उवाच

कामधेनुस्तपस्तत्र पुरा पार्थ चकार ह ।

ध्यायते परया भक्त्या देवदेवं महेश्वरम्

॥३॥

तुष्टस्तस्या जगन्नाथ कपिलाय महेश्वरः ।

निःसृतो देहमध्यात्तु अच्छेद्यः परमेश्वरः

॥४॥

तुष्टो देवि जगन्मातः कपिले परमेश्वरि ।

आराधनं कृतं यस्मात्तद्वदाशु शुभानने

॥५॥

सुरभ्युवाच

लोकानामुपकाराय सृष्टाहं परमेष्ठिना ।

लोककार्याणि सर्वाणि सिध्यन्ति मत्प्रसादतः

॥६॥

लोकाः स्वर्गं प्रयास्यन्ति मत्प्रसादेन शङ्कर ।

तीर्थे त्वं भव मे शम्भो लोकानां हितकाम्यया

॥७॥

तथेति भगवानुक्त्वा तीर्थे तत्रावसन्मुदा ।

तदाप्रभृति तत्तीर्थं विख्यातं वसुधातले ।

स्नानेनैकेन राजेन्द्र पापसङ्घं व्यपोहति

॥८॥

गोप्रेक्षेश्वरगोदानं यस्तु भक्त्या च कारयेत् ।

योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चना

॥९॥

सवत्सा तरुणी शुभ्रा बहुक्षीरा सवस्त्रका ।

कृष्णपक्षे चतुर्दश्यामष्टम्यां वा प्रदापयेत्

॥१०॥

सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः ।

दापयेत्परया भक्त्या द्विजे स्वाध्यायतत्परे

॥११॥

विधिना च प्रदद्याद्यो विधिना यस्तु गृह्णते ।

तावुभौ पुण्यकर्माणौ प्रेक्षकः पुण्यभाजनम्

॥१२॥

पिण्डदानं प्रकुर्याद्यः प्रेतानां भक्तिसंयुतः ।

पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम्

॥१३॥

भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने ।

तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा

॥१४॥

तत्र तीर्थे तु यो राजन्वृषभं च समुत्सृजेत् ।

पितरश्चोद्धृतास्तेन शिवलोके महीयते

॥१५॥

युधिष्ठिर उवाच

वृषोत्सर्गे कृते तात फलं यज्जायते नृणाम् ।

तत्सर्वं कथयस्वाशु प्रयत्नेन द्विजोत्तम

॥१६॥

श्रीमार्कण्डेय उवाच

सर्वलक्षणसम्पूर्णे वृषे चैव तु यत्फलम् ।

तदहं सम्प्रवक्ष्यामि शृणुष्व धर्मनन्दन

॥१७॥

कार्त्तिके चैव वैशाखे पूर्णिमायां नराधिप ।

रुद्रस्य सन्निधौ भूत्वा शुचिः स्नातो जितेन्द्रियः

॥१८॥

वृषस्यैव समुत्सर्गं कारयेत्प्रीयतां हरः ।

सांनिध्ये कारयेत्पुत्र चतस्रो वत्सिकाः शुभाः

॥१९॥

दत्त्वा तु विप्रमुख्याय सर्वलक्षणसंयुताः ।

प्रीयतां च महादेवो ब्रह्मा विष्णुर्महेश्वरः

॥२०॥

वृषभे रोमसंख्या या सर्वाङ्गेषु नराधिप ।

तावद्वर्षप्रमाणं तु शिवलोके महीयते

॥२१॥

शिवलोके वसित्वा तु यदा मर्त्येषु जायते ।

कुले महति सम्भूतिर्धनधान्यसमाकुले

॥२२॥

नीरोगो रूपवांश्चैव विद्याढ्यः सत्यवाक्शुचिः ।

गोप्रेक्षेश्वरमाहात्म्यं मया ख्यातं युधिष्ठिर ।

गोदेहान्निःसृतं लिङ्गं काशी: गंगा तटे

॥२३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गोप्रेक्षेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥