मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १६५

3
अवन्तीखण्डः · रेवाखण्डः · 165

तीर्थं परं महाराज सिद्धैः कृतमिति प्रभो

श्रीमार्कण्डेय उवाच

नर्मदादक्षिणे कूले सिद्धेश्वरमिति श्रुतम् ।

तीर्थं परं महाराज सिद्धैः कृतमिति प्रभो

॥१॥

तत्र तीर्थं महापुण्यं सर्वतीर्थेषु पावनम् ।

नर्मदाया महाराज दक्षिणं कूलमाश्रितम्

॥२॥

तत्र तीर्थे नरः स्नात्वा तर्पयेत्पितृदेवताः ।

श्राद्धं तत्रैव यो दद्यात्पित्ःनुद्दिश्य भारत

॥३॥

तृप्यन्ति पितरस्तस्य द्वादशाब्दान्न संशयः ।

तत्र तीर्थे तु यो भक्त्या स्नात्वा पूजयते शिवम्

॥४॥

रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम् ।

ततः प्रभाते विमले स्नानं कुर्याद्यथाविधि

॥५॥

वीक्षते गिरिजाकान्तं स गच्छेत्परमां गतिम् ।

पुरा सिद्धा महाभागाः कपिलाद्या महर्षयः

॥६॥

जपन्तश्च परं ब्रह्म योगसिद्धा महाव्रताः ।

सिद्धिं ते परमां प्राप्ता नर्मदायाः प्रभावतः

॥७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥