मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १२४

3
अवन्तीखण्डः · रेवाखण्डः · 124

नर्मदेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल नर्मदेश्वरमुत्तमम् ।

तत्र तीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः

॥१॥

अग्निप्रवेशश्च जलेऽथवा मृत्युरनाशके ।

अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत्

॥२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥