मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५८

3
अवन्तीखण्डः · रेवाखण्डः · 58

एष मे संशयो देव कथयस्व प्रसादतः

उत्तानपाद उवाच

अथातो देवदेवेश भानुमत्यकरोच्च किम् ।

एष मे संशयो देव कथयस्व प्रसादतः

॥१॥

ईश्वर उवाच

चिन्तयित्वा मुहूर्तं सा गता कुण्डस्य सन्निधौ ।

दृष्ट्वा कुण्डस्य माहात्म्यं राज्ञी हर्षेण पूरिता

॥२॥

विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् ।

दत्त्वा तु विधिवद्दानं ब्राह्मणेभ्यो नृपात्मज

॥३॥

निश्चयं परमं कृत्वा स्थिता शान्तेन चेतसा ।

ततः सम्पूज्य विधिवत्पितॄन्देवान्नराधिप

॥४॥

क्षपयित्वा पक्षमेकं मधुमासस्य सा स्थिता ।

अमावास्यां ततो राज्ञी गता पर्वतसन्निधौ

॥५॥

नगशृङ्गं समारुह्य कृत्वा मुकुलितौ करौ ।

विज्ञाप्य ब्राह्मणान् सर्वानिदं वचनमब्रवीत्

॥६॥

मम माता पिता भ्राता ये चान्ये सखिबान्धवाः ।

क्षमापयित्वा सर्वांस्तान्वचनं मम कथ्यताम्

॥७॥

त्वत्पुत्री शूलभेदे तु तपः कृत्वा स्वशक्तितः ।

विसृज्य चैव सात्मानं तस्मिंस्तीर्थे दिवं ययौ

॥८॥

ब्राह्मणा ऊचुः

संदेशं कथयिष्यामस्त्वयोक्तं शोभनव्रते ।

मातापितृभ्यां सुश्रोणि मा तेऽभूदत्र संशयः

॥९॥

ततो विसृज्य तांल्लोकान् स्थिता पर्वतमूर्धनि ।

अर्धोत्तरीयवस्त्रेण गाढं बद्धा पुनःपुनः

॥१०॥

ततश्चिक्षेप सात्मानमेकचित्ता नराधिप ।

नगार्द्धे पतिता यावत्तावद्दृष्टाः सुराङ्गनाः

॥११॥

भोभो वत्से महाभागे भानुमत्यतितापसि ।

दिव्यं विमानमारुह्य कैलासं प्रति गम्यताम्

॥१२॥

ततः सा पश्यतां तेषां जनानां त्रिदिवं गता

॥१३॥

मार्कण्डेय उवाच

इति ते कथितः सर्वः शूलभेदस्य विस्तरः ।

यः श्रुतः शङ्करात्पूर्वमृषिदेवसमागमे

॥१४॥

य इदं पठते भक्त्या तीर्थे देवकुलेऽपि वा ।

स मुच्यते महापापादपि जन्मशतार्जितात्

॥१५॥

ब्रह्महा च सुरापी च स्तेयी च गुरुतल्पगः ।

गोघाती स्त्रीविघाती च देवब्रह्मस्वहारकः

॥१६॥

स्वामिद्रोही मित्रघाती तथा विश्वासघातकः ।

परन्यासापहारी च परनिक्षेपलोपकः

॥१७॥

रसभेदी तुलाभेदी तथा वार्द्धुषिकस्तु यः ।

यः कन्याविघ्नकर्ता च तथा विक्रयकारकः

॥१८॥

परभार्या भ्रातृभार्या गौः स्नुषा कन्यका तथा ।

अभिगामी परद्वेषी तथा धर्मप्रदूषकः

॥१९॥

मुच्यन्ते सर्वे एवैते शूलभेदप्रभावतः

॥२०॥

य इदं श्रावयेच्छ्राद्धे विप्राणां भुञ्जतां नृप ।

मुदं प्रयान्ति संहृष्टाः पितरस्तस्य सर्वशः

॥२१॥

यश्चेदं शृणुयाद्भक्त्या पठ्यमानं नरो वशी ।

स मुक्तः सर्वपापेभ्यः सर्वकल्याणभाग्भवेत्

॥२२॥

इदं यशस्यमायुष्यमिदं पावनमुत्तमम् ।

पठतां शृण्वतां नृणामायुःकीर्तिविवर्धनम्

॥२३॥

इति कथितमिदं ते शूलभेदस्य पुण्यं महिमन हि मनुष्यैः श्रूयते यत्सपापैः ।

मदनरिपुतटिन्या याम्यकूलस्थितस्य प्रबलदुरितकन्दोच्छेदकुद्दालकल्पम्

॥२४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः॥ शूलभेदमाहात्म्यं समाप्तम्