मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ४०

3
अवन्तीखण्डः · रेवाखण्डः · 40

करञ्जेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम् ।

यत्र सिद्धो महाभागो दैत्यो लोकेषु विश्रुतः

॥१॥

युधिष्ठिर उवाच

योऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः ।

कस्य पुत्रः कथं सिद्धः कस्मिन्काले वद द्विज

॥२॥

मार्कण्डेय उवाच

पुरा कृतयुगे राजन्मानसो ब्रह्मणः सुतः ।

वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः

॥३॥

तस्यापि तपसो राशेः कालेन महतानघ ।

पुत्रोऽथ मानसो जातः साक्षाद्ब्रह्मेव चापरः

॥४॥

क्षमा दमो दया दानं सत्यं शौचमथार्जवम् ।

मरीचेश्च गुणा ह्येते सन्ति तस्य च भारत

॥५॥

एवं गुणगणाकीर्णं कश्यपं द्विजसत्तमम् ।

ज्ञात्वा प्रजापतिर्दक्षो भार्यार्थे स्वसुतां ददौ

॥६॥

अदितिर्दितिर्दनुश्चैव तथाप्येवं दशापराः ।

यासां पुत्राश्च संजाताः पौत्राश्च भरतर्षभ

॥७॥

अदितिर्जनयामास पुत्रानिन्द्रपुरोगमान् ।

जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः

॥८॥

यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् ।

तथान्यस्य महाभागो दनोः पुत्रो व्यजायत

॥९॥

सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः ।

बाल एव महाभाग चचार स महत्तपः

॥१०॥

नर्मदातटमाश्रित्य चातिघोरमनुत्तमम् ।

दिव्यं वर्षसहस्रं च कृच्छ्रचान्द्रायणं नृप

॥११॥

शाकमूलफलाहारः स्नानहोमपरायणः ।

ततस्तुष्टो महादेव उमया सहितः किल

॥१२॥

वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः ।

भोः करञ्ज महासत्त्व परितुष्टोऽस्मि तेऽनघ

॥१३॥

वरं वृणीष्व ते दद्मि ह्यमरत्वमृते मम

॥१४॥

करञ्ज उवाच

यदि तुष्टो महादेव यदि देयो वरो मम ।

तर्हि पुत्राश्च पौत्राश्च सन्तु मे धर्मवत्सलाः

॥१५॥

तथेत्युक्त्वा महादेव उमया सहितस्तदा ।

वृषारूढो गणैः सार्द्धं तत्रैवान्तरधीयत

॥१६॥

गते चादर्शनं देवे सोऽपि दैत्यो मुदान्वितः ।

स्वनाम्नात्र महादेवं स्थापयित्वा ययौ गृहम्

॥१७॥

तदाप्रभृति तत्तीर्थं सर्वतीर्थेष्वनुत्तमम् ।

स्नानमात्रानरस्तत्र मुच्यते सर्वपातकैः

॥१८॥

तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।

सोऽग्निष्टोमस्य यज्ञस्य फलं प्राप्नोत्यसंशयम्

॥१९॥

अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।

अनिवर्त्या गतिस्तस्य रुद्रलोकं स गच्छति

॥२०॥

अथवाग्निजले प्राणान्यस्त्यजेद्धर्मनन्दन ।

अयुतद्वितयं वस्ते वर्षाणां शिवमन्दिरे

॥२१॥

ततश्चैव क्षये जाते जायते विमले कुले ।

वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः

॥२२॥

राजा वा राजतुल्यो वा जीवेच्च शरदः शतम् ।

पुत्रपौत्रसमोपेतः सर्वव्याधिविवर्जितः

॥२३॥

एवं ते सर्वमाख्यातं पृष्टं यद्यत्त्वयानघ ।

तीर्थस्य तु फलं तस्य स्नानदानेषु भारत

॥२४॥

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।

पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम्

॥२५॥

यस्तु श्रावयते श्राद्धे पठेत्पितृपरायणः ।

अक्षयं जायते पुण्यमित्येवं शङ्करोऽब्रवीत्

॥२६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करञ्जेश्वरतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥