मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १९०

3
अवन्तीखण्डः · रेवाखण्डः · 190

चन्द्रहास्यतीर्थमहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल सोमतीर्थमनुत्तमम् ।

चन्द्रहासेति विख्यातं सर्वदैवतपूजितम्

॥१॥

यत्र सिद्धिं परां प्राप्तः सोमो राजा सुरोत्तमः

॥२॥

युधिष्ठिर उवाच

कथं सिद्धिमनुप्राप्तः सोमो राजा जगत्पतिः ।

तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ

॥३॥

मार्कण्डेय उवाच

पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत ।

असेवनाद्धि दाराणां क्षयरोगी भविष्यसि

॥४॥

उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् ।

या निष्ठा जायते तेषां तां शृणुष्व नरोत्तम

॥५॥

ऋतुकाले तु नारीणां सेवनाज्जायते सुतः ।

सुतात्स्वर्गश्च मोक्षश्च हीत्येवं श्रुतिनोदना

॥६॥

तत्कालोचितधर्मेण ये न सेवन्ति तां नराः ।

तेषां ब्रह्मघ्नजं पापं जायते नात्र संशयः

॥७॥

तेन पापेन घोरेण वेष्टतो रौरवे पतेत् ।

तस्य तद्रुधिरं पापाः पिबन्ते कालमीप्सितम्

॥८॥

ततोऽवतीर्णकालेन यां यां योनिं प्रयास्यति ।

तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा

॥९॥

नारीणां तु सदा कामो ह्यधिकः परिवर्तते ।

विशेषेण ऋतोः काले भिद्यते कामसायकैः

॥१०॥

परिभूता हि सा भर्त्रा ध्यायतेऽन्यं पतिं ततः ।

तस्याः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम्

॥११॥

स्वर्गस्थास्तेन पितरः पूर्वं जाता महीपते ।

पतन्ति जातमात्रेण कुलटस्तेन चोच्यते

॥१२॥

तेन कर्मविपाकेन क्षयरोगी शशी ह्यभूत् ।

त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः

॥१३॥

तत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च ।

भ्रमित्वा नर्मदां प्राप्तः सर्वपापप्रणाशिनीम्

॥१४॥

उपवासस्तु दानानि व्रतानि नियमाश्च ये ।

चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः

॥१५॥

स्थापयित्वा महादेवं सर्वपातकनाशनम् ।

जगाम प्रभया पूर्णः सोमलोकमनुत्तमम्

॥१६॥

येनैव स्थापितो देवः पूज्यते वर्षसंख्यया ।

तावद्युगसहस्राणि तस्य लोकं समश्नुते

॥१७॥

तेन देवान् विधानोक्तान् स्थापयन्ति नरा भुवि ।

अक्षयं चाव्ययं यस्मात्फलं भवति नान्यथा

॥१८॥

सोमतीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।

जायते स नरो भूत्वा सोमवित्प्रियदर्शनः

॥१९॥

चन्द्रप्रभासे यो गत्वा स्नानं विधिवदाचरेत् ।

व्याधिना नाभिभूतः स्यात्क्षयरोगेण वा युतः

॥२०॥

चन्द्रहास्ये नरः स्नात्वा द्वादश्यां तु नरेश्वर ।

चतुर्दश्यामुपोष्यैव क्षीरस्य जुहुयाच्चरुम्

॥२१॥

मन्त्रैः पञ्चभिरीशानं पुरुषस्त्र्यम्बकं यजेत् ।

हविःशेषं स्वयं प्राश्य चन्द्रहास्येशमीक्षयेत्

॥२२॥

अनेन विधिना राजंस्तुष्टो देवो महेश्वरः ।

विधिना तीर्थयोगेन क्षयरोगाद्विमुच्यते

॥२३॥

सप्तभिः सोमवारैर्यः स्नानं तत्र समाचरेत् ।

स वै कर्णकृताद्रोगान्मुच्यते पूजयञ्छिवम्

॥२४॥

अक्षिरोगस्तथा राजंश्चन्द्रहास्ये विनश्यति ।

चन्द्रहास्ये तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः ।

स्नानं समाचरेद्भक्त्या मुच्यते सर्वपातकैः

॥२५॥

तत्र स्नानं च दानं च चन्द्रहास्ये शुभशुभम् ।

कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम्

॥२६॥

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।

चन्द्रहास्ये तु ये स्नात्वा पश्यन्ति ग्रहणं नराः

॥२७॥

वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।

स्नानमात्रात्तु राजेन्द्र तत्र तीर्थे प्रणश्यति

॥२८॥

बहवस्तन्न जानन्ति महामोहसमन्विताः ।

देहस्थ इव सर्वेषां परमात्मेव संस्थितम्

॥२९॥

पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् ।

तत्समग्रमवाप्नोति चन्द्रहास्ये न संशयः

॥३०॥

संक्रान्तौ च व्यतीपाते विषुवे चायने तथा ।

चन्द्रहास्ये नरः स्नात्वा सर्वपापैः प्रमुच्यते

॥३१॥

ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् ।

चन्द्रहास्यं न जानन्ति नर्मदायां व्यवस्थितम्

॥३२॥

चन्द्रहास्ये तु यः कश्चित्संन्यासं कुरुते नृप ।

अनिवर्तिका गतिस्तस्य सोमलोकात्कदाचन

॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चन्द्रहास्यतीर्थमहात्म्यवर्णनं नाम नवत्युत्तरशततमोऽध्यायः ॥