मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८९

3
अवन्तीखण्डः · रेवाखण्डः · 89

नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र पूतिकेश्वरमुत्तमम् ।

नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्

॥१॥

स्थापितं जाम्बुवन्तेन लोकानां तु हितार्थिना ।

राजा प्रसेनजिन्नाम तस्यां वक्षस्थलान्मणौ

॥२॥

समुत्क्षिप्ते तु तेनैव सपूतिरभवद्व्रणः ।

तत्र तीर्थे तपस्तप्त्वा निर्व्रणः समजायत

॥३॥

तेन तत्स्थापितं लिङ्गं पूतिकेश्वरमुत्तमम् ।

यस्तत्र मनुजो भक्त्या स्नायाद्भरतसत्तम

॥४॥

सर्वान्कामानवाप्नोति सम्पूज्य परमेश्वरम् ।

कृष्णाष्टम्यां चतुर्दश्यां सर्वकालं नराधिप ।

येऽर्चयन्ति सदा देवं ते न यान्ति यमालयम्

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पूतिकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोननवतितमोऽध्यायः ॥