मोक्षतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्पाण्डुपुत्र मोक्षतीर्थमनुत्तमम् ।
सेवितं देवगन्धर्वैर्मुनिभिश्च तपोधनैः
॥१॥बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः ।
यत्र सिद्धा महाभागा ऋषयः सतपोधनाः
॥२॥पुलस्त्यः पुलहो विद्वान्क्रतुश्चैव महामतिः ।
प्राचेतसो वसिष्ठश्च दक्षो नारद एव च
॥३॥एते चान्ये महाभागाः सप्तसाहस्रसंज्ञिताः ।
मोक्षं गताः सह सुतैस्तत्तीर्थं तेन मोक्षदम्
॥४॥तत्र प्रवाहमध्ये तु पतिता तमहा नदी ।
तत्र तत्सङ्गमं तीर्थं सर्वपापक्षयंकरम्
॥५॥ऋग्यजुःसामसंज्ञानामभ्यस्तानां तु यत्फलम् ।
सम्यग्जप्त्वा तु विधिना गायत्रीं तत्र तल्लभेत्
॥६॥तत्र दत्तं हुतं जप्तं तीर्थसेवार्जितं फलम् ।
सर्वमक्षयतां याति मोक्षसाधनमुत्तमम्
॥७॥तत्र तीर्थे मृतानां तु संन्यासेन द्विजन्मनाम् ।
अनिवर्तिका गतिस्तेषां मोक्षतीर्थप्रभावतः
॥८॥एष ते विधिरुद्दिष्टः संक्षेपेण मयानघ ।
व्युष्टिस्तीर्थस्य महती पुराणे याभिधीयते
॥९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मोक्षतीर्थमाहात्म्यवर्णनं नाम षष्ट्युत्तरशततमोऽध्यायः ॥