शुक्लतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
नास्ति लोकेषु तत्तीर्थं पृथिव्यां यन्नरेश्वर ।
शुक्लतीर्थेन सदृशमुपमानेन गीयते
॥१॥शुक्लतीर्थं महातीर्थं नर्मदायां व्यवस्थितम् ।
प्रागुदक्प्रवणे देशे मुनिसङ्घनिषेवितम्
॥२॥वैशाखे च तथा मासि कृष्णपक्षे चतुर्दशी ।
कैलासादुमया सार्द्धं स्वयमायाति शङ्करः
॥३॥मध्याह्नसमये स्नात्वा पश्यत्यात्मानमात्मना ।
ब्रह्मविष्ण्विन्द्रसहितः शुक्लतीर्थे समाहितः
॥४॥कार्त्तिक्यां तु विशेषेण वैशाख्यां च नरोत्तम ।
ब्रह्मविष्णुमहादेवान् स्नात्वा पश्यति तद्दिने
॥५॥देवराजः सुरैः सार्द्धं वायुमार्गव्यवस्थितः ।
कृष्णपक्षे चतुर्दश्यां स्नात्वा पश्यति शङ्करम्
॥६॥गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः ।
तद्दिने तेऽपि देवेशं दृष्ट्वा मुञ्चन्ति किल्बिषम्
॥७॥अर्धयोजनविस्तारं तदर्द्धेनैव चायतम् ।
शुक्लतीर्थं महापुण्यं महापातकनाशनम्
॥८॥यत्र स्थितैः प्रदृश्यन्ते वृक्षाग्राणि नरोत्तमैः ।
तत्र स्थिता महापापैर्मुच्यन्ते पूर्वसंचितैः
॥९॥पापोपपातकैर्युक्तो नरः स्नात्वा प्रमुच्यते ।
उपार्जिता विनश्येत भ्रूणहत्यापि दुस्त्यजा
॥१०॥यस्मात्तत्रैव देवेश उमया सह तिष्ठति ।
वैशाख्यां च विशेषेण कैलासादेति शङ्करः
॥११॥तेन तीर्थं महापुण्यं सर्वपातकनाशनम् ।
कथितं ब्रह्मणा पूर्वं मया तव तथा नृप
॥१२॥रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथा तत्र वपुःस्नानं पुरुषस्य भवेच्छुचि
॥१३॥पूर्वे वयसि पापानि कृत्वा पुष्टानि मानवः ।
अहोरात्रोषितो भूत्वा शुक्लतीर्थे व्यपोहति
॥१४॥शुक्लतीर्थे महाराज राकां रेवाजलाञ्जलिम् ।
कल्पकोटिसहस्राणि दत्त्वा स्युः पितरः शिवाः
॥१५॥न माता न पिता बन्धुः पतनं नरकार्णवे ।
उद्धरन्ति यथा पुण्यं शुक्लतीर्थे नरेश्वर
॥१६॥तपसा ब्रह्मचर्येण न तां गच्छन्ति सद्गतिम् ।
शुक्लतीर्थे मृतो जन्तुर्देहत्यागेन यां लभेत्
॥१७॥कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशीम् ।
घृतेन स्नापयेद्देवमुपोष्य प्रयतो नरः
॥१८॥स्नात्वा प्रभाते रेवायां दद्यात्सघृतकम्बलम् ।
सहिरण्यं यथाशक्ति देवमुद्दिश्य शङ्करं
॥१९॥देवस्य पूरणं कुर्याद्घृतेन घृतकम्बलम् ।
स गच्छति महातेजाः शिवलोकं मृतो नरः
॥२०॥एकविंशकुलोपेतो यावदाभूतसम्प्लवम् ।
शुक्लतीर्थे नरः स्नात्वा ह्युमां रुद्रं च योऽर्चयेत्
॥२१॥गन्धपुष्पादिधूपैश्च सोऽश्वमेधफलं लभेत् ।
मासोपवासं यः कुर्यात्तत्र तीर्थे नरेश्वर
॥२२॥मुच्यते स महत्पापैः सप्तजन्मसुसंचितैः ।
उष्ट्रीक्षीरमविक्षीरं नवश्राद्धे च भोजनम्
॥२३॥वृषलीगमनं चैव तथाभक्ष्यस्य भक्षणम् ।
अविक्रयेऽनृते पापं माहिषेऽयाज्ययाजके
॥२४॥वार्द्धुष्ये पङ्क्तिगरदे देवब्राह्मणदूषके ।
एवमादीनि पापानि तथान्यान्यपि भारत
॥२५॥चान्द्रायणेन नश्यन्ति शुक्लतीर्थे न संशयः ।
शुक्लतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः
॥२६॥तस्य ते द्वादशाब्दानि तृप्तिं यान्ति सुतर्पिताः ।
पादुकोपानहौ छत्रं शय्यामासनमेव च
॥२७॥सुवर्णं धनधान्यं च श्राद्धं युक्तहलं तथा ।
अन्नं पानीयसंहितं तस्मिंस्तीर्थे ददन्ति ये
॥२८॥हृष्टाः पुष्टा मृता यान्ति शिवलोकं न संशयः ।
तत्र तीर्थे तु यो भक्त्या शिवमुद्दिश्य भारत
॥२९॥भिक्षामात्रं तथान्नं ये तेऽपि स्वर्यान्ति वै नराः ।
यज्विनां व्रतिनां चैव तत्र तीर्थनिवासिनाम्
॥३०॥अपि वालाग्रमात्रं हि दत्तं भवति चाक्षयम् ।
अग्निप्रवेशं यः कुर्याच्छुक्लतीर्थे समाहितः
॥३१॥रागद्वेषविनिर्मुक्तो हृदि ध्यात्वा जनार्दनम् ।
सर्वकामसुसम्पूर्णः स गच्छेद्वारुणं पुरम्
॥३२॥न रोगो न जरा तत्र यत्र देवोऽंभसां पतिः ।
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे युधिष्ठिर
॥३३॥अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले
॥३४॥मृतः स तु न सन्देहो रुद्रस्यानुचरो भवेत् ।
शुक्लतीर्थे तु यः कन्यां शक्त्या दद्यादलंकृताम्
॥३५॥विधिना यो नृपश्रेष्ठ कुरुते वृषमोक्षणम् ।
तस्य यत्फलमुद्दिष्टं पुराणे रुद्रभाषितम्
॥३६॥तदहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ।
यावन्तो रोमकूपाः स्युः सर्वाङ्गेषु पृथक्पृथक्
॥३७॥तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
शुक्लतीर्थे तु यद्दत्तं ग्रहणे चन्द्रसूर्ययोः
॥३८॥वर्धते तद्गुणं तावद्दिनानि दश पञ्च च ।
शुक्लतीर्थे शुचिर्भूत्वा यः करोति प्रदक्षिणम्
॥३९॥पृथ्वी प्रदक्षिणा तेन कृता यत्तस्य तत्फलम् ।
शोभनं मिथुनं यस्तु रुद्रमुद्दिश्य पूजयेत्
॥४०॥सप्त जन्मानि तस्यैव वियोगो न च वै क्वचित् ।
एतत्ते कथितं राजन् संक्षेपेण फलं महत्
॥४१॥शुक्लतीर्थस्य यत्पुण्यं यथा देवाच्छ्रुतं मया ।
य इदं शृणुयाद्भक्त्या पुराणे विहितं फलम्
॥४२॥स लभेन्नात्र सन्देहः सत्यं सत्यं पुनः पुनः ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्
॥४३॥मोक्षार्थी लभते मोक्षं स्नानदानफलं महत्
॥४४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुक्लतीर्थमाहात्म्यवर्णनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥