मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५९

3
अवन्तीखण्डः · रेवाखण्डः · 159

नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महाराज तीर्थं परमपावनम् ।

नर्मदायां सुदुष्प्रापं सिद्धं ह्यनरकेश्वरम्

॥१॥

तस्मिंस्तीर्थे नरः स्नात्वा पापकर्मापि भारत ।

न पश्यति महाघोरं नरकद्वारसंज्ञिकम्

॥२॥

युधिष्ठिर उवाच

शुभाशुभफलैस्तात भुक्तभोगा नरास्त्विह ।

जायन्ते लक्षणैर्यैस्तु तानि मे वद सत्तम

॥३॥

यथा निर्गच्छते जीवस्त्यक्त्वा देहं न पश्यति ।

तथा गच्छन्पुनर्देहं पञ्चभूतसमन्वितः

॥४॥

त्वगस्थिमांसमेदोऽसृक्केशस्नायुशतैः सह ।

विण्मूत्ररेतःसङ्घाते का संज्ञा जायते नृणाम्

॥५॥

एवमुक्तः स मार्कण्डः कथयामास योगवित् ।

ध्यात्वा सनातनं सर्वं देवदेवं महेश्वरम्

॥६॥

मार्कण्डेय उवाच

शृणु पार्थ महाप्रश्नं कथयामि यथाश्रुतम् ।

सकाशाद्ब्रह्मणः पूर्वमृषिदेवसमागमे

॥७॥

गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् ।

इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः

॥८॥

अचीर्णप्रायश्चित्तानां यमलोके ह्यनेकधा ।

यातनाभिर्वियुक्तानामनेकां जीवसन्ततिम्

॥९॥

गत्वा मनुष्यभावे तु पापचिह्ना भवन्ति ते ।

तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप

॥१०॥

सहित्वा यातनां सर्वां गत्वा वैवस्वतक्षयम् ।

विस्तीर्णयातना ये तु लोकमायान्ति चिह्निताः

॥११॥

गद्गदोऽनृतवादी स्यान्मूकश्चैव गवानृते ।

ब्रह्महा जायते कुष्ठी श्यावदन्तस्तु मद्यपः

॥१२॥

कुनखी स्वर्णहरणाद्दुःश्चर्मा गुरुतल्पगः ।

संयोगी हीनयोनिः स्याद्दरिद्रोऽदत्तदानतः

॥१३॥

ग्रामशूकरतां याति ह्ययाज्ययाजको नृप ।

खरो वै बहुयाजी स्याच्छ्वानिमन्त्रितभोजनात्

॥१४॥

अपरीक्षितभोजी स्याद्वानरो विजने वने ।

वितर्जकोऽथ मार्जारः खद्योतः कक्षदाहतः

॥१५॥

अविद्यां यः प्रयच्छेत बलीवर्दो भवेद्धि सः ।

अन्नं पर्युषितं विप्रे ददानः क्लीबतां व्रजेत्

॥१६॥

मात्सर्यादथ जात्यन्धो जन्मान्धः पुस्तकं हरन् ।

फलान्याहरतोऽपत्यं म्रियते नात्र संशयः

॥१७॥

मृतो वानरतां याति तन्मुक्तोऽथ गलाडवान् ।

अदत्त्वा भक्षयंस्तानि ह्यनपत्यो भवेन्नरः

॥१८॥

हरन्वस्त्रं भवेद्गोधा गरदः पवनाशनः ।

प्रव्राजी गमनाद्राजन् भवेन्मरुपिशाचकः

॥१९॥

वातको जलहर्ता च धान्यहर्ता च मूषकः ।

अप्राप्तयौवनां गच्छन् भवेत्सर्प इति श्रुतिः

॥२०॥

गुरुदाराभिलाषी च कृकलासो भवेच्चिरम् ।

जलप्रस्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः

॥२१॥

अविक्रेयान् विक्रयन् वै विकटाक्षो भवेन्नरः ।

अयोनिगो वृको हि स्यादुलूकः क्रयवञ्चनात्

॥२२॥

मृतस्यैकादशाहे तु भुञ्जानः श्वोपजायते ।

प्रतिश्रुत्य द्विजायार्थमददन्मधुको भवेत्

॥२३॥

राज्ञीगमाद्भवेद्दुष्टतस्करो विड्वराहकः ।

परिवादी द्विजातीनां लभते काच्छपीं तनुम्

॥२४॥

व्रजेद्देवलको राजन्योनिं चाण्डालसंज्ञिताम् ।

दुर्भगः फलविक्रेता वृश्चिको वृषलीपतिः

॥२५॥

मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ।

सोदर्यागमनात्षण्ढो दुर्गन्धश्च सुगन्धहृत्

॥२६॥

ग्रामभट्टो दिवाकीर्तिर्दैवज्ञो गर्दभो भवेत् ।

कुपण्डितः स्यान्मार्जारो भषणो व्यास एव च

॥२७॥

स एव दृश्यते राजन्प्रकाशात्परमर्मणाम् ।

यद्वा तद्वापि पारक्यं स्वल्पं वा यदि वा बहु

॥२८॥

कृत्वा वै योनिमाप्नोति तैरश्चीं नात्र संशयः ।

एवमादीनि चान्यानि चिह्नानि नृपसत्तम

॥२९॥

स्वकर्मविहितान्येव दृश्यन्ते यैस्तु मानवाः ।

ततो जन्म ततो मृत्युः सर्वजन्तुषु भारत

॥३०॥

जायते नात्र सन्देहः समीभूते शुभाशुभे ।

स्त्रीपुंसोः सम्प्रयोगेण विषुद्धे शुक्रशोणिते

॥३१॥

पञ्चभूतसमोपेतः सषष्ठः परमेश्वरः ।

इन्द्रियाणि मनः प्राणा ज्ञानमायुः सुखं धृतिः

॥३२॥

धारणं प्रेरणं दुःखमिच्छाहङ्कार एव च ।

प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ

॥३३॥

तस्येदमात्मनः सर्वमनादेरादिमिच्छतः ।

प्रथमे मासि स क्लेदभूतो धातुविमूर्छितः

॥३४॥

मास्यर्बुदं द्वितीये तु तृतीये चेन्द्रियैर्युतः ।

आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रबलादिकम् ।

वायोस्तु स्पर्शनं चेष्टां दहनं रौक्ष्यमेव च

॥३५॥

पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशनम् ।

सलिलाद्रसनां शैत्यं स्नेहं क्लेदं समार्दवम्

॥३६॥

भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।

आत्मा गृह्णात्यजः पूर्वं तृतीये स्पन्दते च सः

॥३७॥

दौर्हृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।

वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः

॥३८॥

स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।

षष्ठे बलं च वर्णश्च नखरोम्णां च सम्भवः

॥३९॥

मनसा चेतनायुक्तो नखरोमशतावृतः ।

सप्तमे चाष्टमे चैव त्वचावान् स्मृतिवानपि

॥४०॥

पुनर्गर्भं पुनर्धात्रीमेनस्तस्य प्रधावति ।

अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते

॥४१॥

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।

निर्गच्छते बाण इव यन्त्रच्छिद्रेण सज्वरः

॥४२॥

शरीरावयवैर्युक्तो ह्यङ्गप्रत्यङ्गसंयुतः ।

अष्टोत्तरं मर्मशतं तत्रास्था तु शतत्रयम्

॥४३॥

सप्त शिरःकपालानि विहितानि स्वयम्भुवा ।

तिस्रः कोट्योऽर्धकोटी च रोम्णामङ्गेषु भारत

॥४४॥

द्वासप्ततिसहस्राणि हृदयादभिनिसृताः ।

हितानाम हि ता नाड्यस्तासां मध्ये शशिप्रभा

॥४५॥

एवं प्रवर्तते चक्रं भूतग्रामे चतुर्विधे ।

उत्पत्तिश्च विनाशश्च भवतः सर्वदेहिनाम्

॥४६॥

गतिरूर्ध्वा च धर्मेण ह्यधर्मेण त्वधोगतिः ।

जायते सर्ववर्णानां स्वधर्मचलनान्नृप

॥४७॥

देवत्वे मानवत्वे च दानभोगादिकाः क्रियाः ।

दृश्यन्ते या महाराज तत्सर्वं कर्मजं फलम्

॥४८॥

स्वकर्म विहिते घोरे कामक्सोधार्जिते शुभे ।

निमज्जेन्नरके घोरे यस्योत्तारो न विद्यते

॥४९॥

उत्तारणाय जन्तूनां नर्मदातटसंस्थितम् ।

एवमेतन्महातीर्थं नरकेश्वरमुत्तमम्

॥५०॥

नरकापहं महापुण्यं महापातकनाशनम् ।

तत्तीर्थं सर्वतीर्थानामुत्तमं भुवि दुर्लभम्

॥५१॥

तत्र तीर्थे तु यः स्नात्वा पूजयेत महेश्वरम् ।

महापातकयुक्तोऽपि नरकं नैव पश्यति

॥५२॥

तत्र तीर्थे तु यो दद्याद्धेनुं वैतरणीं शुभाम् ।

स मुच्यते सुखेनैव वैतरण्यां न संशयः

॥५३॥

युधिष्ठिर उवाच

यमद्वारे महाघोरे या सा वैतरणी नदी ।

किंरूपा किंप्रमाणा सा कथं सा वहति द्विज

॥५४॥

कथं तस्याः प्रमुच्यन्ते केषां वासस्तु संततम् ।

केषां तु सानुकूला सा ह्येतद्विस्तरतो वद

॥५५॥

श्रीमार्कण्डेय उवाच

धर्मपुत्र महाबाहो शृणु सर्वं मयोदितम् ।

या सा वैतरणी नाम यमद्वारे महासरित्

॥५६॥

अगाधा पाररहिता दृष्टमात्रा भयावहा ।

पूयशोणिततोया सा मांसकर्दमनिर्मिता

॥५७॥

तत्तोयं भ्रमते तूर्णं तापीमध्ये घृतं यथा ।

कृमिभिः सङ्कुलं पूयं वज्रतुण्डैरयोमुखैः

॥५८॥

शिशुमारैश्च मकरैर्वज्रकर्तरिसंयुतैः ।

अन्यैश्च जलजीवैः सा सुहिंस्रैर्मर्मभेदिभिः

॥५९॥

तपन्ति द्वादशादित्याः प्रलयान्त इवोल्बणाः ।

पतन्ति तत्र वै मर्त्याः क्रन्दन्तो भृशदारुणम्

॥६०॥

हा भ्रातः पुत्र हा मातः प्रलपन्ति मुहुर्मुहुः ।

असिपत्त्रवने घोरे पतन्तं योऽभिरक्षति

॥६१॥

प्रतरन्ति निमज्जन्ति ग्लानिं गच्छन्ति जन्तवः ।

चतुर्विधैः प्राणिगणैर्द्रष्टव्या सा महानदी

॥६२॥

तरन्ति तस्यां सद्दानैरन्यथा तु पतन्ति ते ।

मातरं ये न मन्यन्ते ह्याचार्यं गुरुमेव च

॥६३॥

अवजानन्ति मूढा ये तेषां वासस्तु संततम् ।

पतिव्रतां साधुशीलामूढां धर्मेषु निश्चलाम्

॥६४॥

परित्यजन्ति ये पापाः संततं तु वसन्ति ते ।

विश्वासप्रतिपन्नानां स्वामिमित्रतपस्विनाम्

॥६५॥

स्त्रीबालवृद्धदीनानां छिद्रमन्वेषयन्ति ये ।

पच्यन्ते तत्र मध्ये वै क्रन्दमानाः सुपापिनः

॥६६॥

श्रान्तं बुभुक्षितं विप्रं यो विघ्नयति दुर्मतिः ।

कृमिभिर्भक्ष्यते तत्र यावत्कल्पशतत्रयम्

॥६७॥

ब्राह्मणाय प्रतिश्रुत्य यो दानं न प्रयच्छति ।

आहूय नास्ति यो ब्रूते तस्य वासस्तु संततम्

॥६८॥

अग्निदो गरदश्चैव राजगामी च पैशुनी ।

कथाभङ्गकरश्चैव कूटसाक्षी च मद्यपः

॥६९॥

वज्रविध्वंसकश्चैव स्वयंदत्तापहारकः ।

सुक्षेत्रसेतुभेदी च परदारप्रधर्षकः

॥७०॥

ब्राह्मणो रसविक्रेता वृषलीपतिरेव च ।

गोकुलस्य तृषार्तस्य पालीभेदं करोति यः

॥७१॥

कन्याभिदूषकश्चैव दानं दत्त्वा तु तापकः ।

शूद्रस्तु कपिलापानी ब्राह्मणो मांसभोजनी

॥७२॥

एते वसन्ति सततं मा विचारं कृथा नृप ।

सानुकूला भवेद्येन तच्छृणुष्व नराधिप

॥७३॥

अयने विषुवे चैव व्यतीपाते दिनक्षये ।

अन्येषु पुण्यकालेषु दीयते दानमुत्तमम्

॥७४॥

कृष्णां वा पाटलां वापि कुर्याद्वैतरणीं शुभाम् ।

स्वर्णशृङ्गीं रूप्यखुरां कांस्यपात्रस्य दोहिनीम्

॥७५॥

कृष्णवस्त्रयुगाच्छन्नां सप्तधान्यसमन्विताम् ।

कुर्यात्सद्रोणशिखर आसीनां ताम्रभाजने

॥७६॥

यमं हैमं प्रकुर्वीत लोहदण्डसमन्वितम् ।

इक्षुदण्डमयं बद्ध्वा ह्युडुपं पट्टबन्धनैः

॥७७॥

उडुपोपरि तां धेनुं सूर्यदेहसमुद्भवाम् ।

कृत्वा प्रकल्पयेद्विद्वाञ्छत्त्रोपानद्युगान्विताम्

॥७८॥

अङ्गुलीयकवासांसि ब्राह्मणाय निवेदयेत् ।

इममुच्चारयेन्मन्त्रं संगृह्यास्याश्च पुच्छकम्

॥७९॥

ओं यमद्वारे महाघोरे या सा वैतरणी नदी ।

तर्तुकामो ददाम्येनां तुभ्यं वैतरणि नमः ।

इत्यधिवासनमन्त्रः

॥८०॥

गावो मे चाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।

गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्

॥८१॥

ओं विष्णुरूप द्विजश्रेष्ठ भूदेव पङ्क्तिपावन ।

सदक्षिणा मया दत्ता तुभ्यं वैतरणि नमः ।

इति दानमन्त्रः

॥८२॥

ब्राह्मणं धर्मराजं च धेनुं वैतरणीं शिवाम् ।

सर्वं प्रदक्षिणीकृत्य ब्राह्मणाय निवेदयेत्

॥८३॥

पुच्छं संगृह्य सुरभेरग्रे कृत्वा द्विजं ततः

॥८४॥

धेनुके त्वं प्रतीक्षस्व यमद्वारे महाभये ।

उत्तितीर्षुरहं धेनो वैतरण्यै नमोऽस्तु ते ।

इत्यनुव्रजमन्त्रः

॥८५॥

अनुव्रजेत गच्छन्तं सर्वं तस्य गृहं नयेत् ।

एवं कृते महीपाल सरित्स्यात्सुखवाहिनी

॥८६॥

तारयते तया धेन्वा सा सरिज्जलवाहिनी ।

सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः

॥८७॥

रोगी रोगाद्विमुक्तः स्याच्छाम्यन्ति परमापदः ।

स्वस्थे सहस्रगुणितमातुरे शतसंमितम्

॥८८॥

मृतस्यैव तु यद्दानं परोक्षे तत्समं स्मृतम् ।

स्वहस्तेन ततो देयं मृते कः कस्य दास्यति ।

इति मत्वा महाराज स्वदत्तं स्यान्महाफलम्

॥८९॥

इत्येवमुक्तं तव धर्मसूनो दानं मया वैतरणीसमुत्थम् ।

शृणोति भक्त्या पठतीह सम्यक्स याति विष्णोः पदमप्रमेयम्

॥९०॥

श्रीमार्कण्डेय उवाच

प्राप्ते चाश्वयुजे मासि तस्मिन्कृष्णा चतुर्दशी ।

स्नात्वा कृत्वा ततः श्राद्धं सम्पूज्य च महेश्वरम्

॥९१॥

पितृभ्यो दीयते दानं भक्तिश्रद्धासमन्वितैः ।

पश्चाज्जागरणं कुर्यात्सत्कथाश्रवणादिभिः

॥९२॥

ततः प्रभातसमये स्नात्वा वै नर्मदाजले ।

तर्पणं विधिवत्कृत्वा पित्ःणां देवपूर्वकम्

॥९३॥

सौवर्णे घृतसंयुक्तं दीपं दद्याद्द्विजातये ।

पश्चात्संभोजयेद्विप्रान् स्वयं चैव विमत्सरः

॥९४॥

एवं कृते नरश्रेष्ठ न जन्तुर्नरकं व्रजेत् ।

अवश्यमेव मनुजैर्द्रष्टव्या नारकी स्थितिः

॥९५॥

अनेन विधिना कृत्वा न पश्येन्नरकान्नरः ।

तत्र तीर्थे मृतानां तु नराणां विधिना नृप

॥९६॥

मन्वन्तरं शिवे लोके वासो भवति दुर्लभे ।

विमानेनार्कवर्णेन किंकिणीशतशोभिना

॥९७॥

स गच्छति महाभाग सेव्यमानोऽप्सरोगणैः ।

भुनक्ति विविधान्भोगानुक्तकालं न संशयः

॥९८॥

पूर्णे चैव ततः काल इह मानुष्यतां गतः ।

सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम्

॥९९॥

प्राप्य चाश्वयुजे मासि कृष्णपक्षे चतुर्दशीम् ।

अहोरात्रोषितो भूत्वा पूजयित्वा महेश्वरम् ।

महापातकयुक्तोऽपि मुच्यते नात्र संशयः

॥१००॥

अष्टाविंशतिकोट्यो वै नरकाणां युधिष्ठिर ।

विमुक्ता नरकैर्दुःखैः शिवलोकं व्रजन्ति ते

॥१०१॥

तत्र भुक्त्वा महाभोगान्दिव्यैश्वर्यसमन्वितान् ।

लभन्ते मानुषं जन्म दुर्लभं भुवि मानवाः

॥१०२॥

इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डेऽनरकेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनषष्ट्युत्तरशततमोऽध्यायः ॥