मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ९९

3
अवन्तीखण्डः · रेवाखण्डः · 99

स्थापितं वासुकीशं तु समस्ताघौघनाशनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल नर्मदादक्षिणे तटे ।

स्थापितं वासुकीशं तु समस्ताघौघनाशनम्

॥१॥

युधिष्ठिर उवाच

कस्माच्च कारणात्तात रेवाया दक्षिणे तटे ।

वासुकीशस्थापितो वै विस्तराद्वद मे गुरो

॥२॥

श्रीमार्कण्डेय उवाच

एतत्सर्वं समास्थाय नृत्यं शम्भुश्चकार वै

॥३॥

श्रमादजायत स्वेदो गङ्गातोयविमिश्रितम् ।

पतन्तमुरगोऽश्नाति हरमौलिविनिर्गतम्

॥४॥

मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत ।

प्राप्नुह्यजगरत्त्वं हि भुजङ्ग क्षुद्रजन्तुक

॥५॥

वासुकिरुवाच

अनुग्राह्योऽस्मि ते पापो दुर्नयोऽहं हरादृते ।

त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणा

॥६॥

संसारच्छेदनकरी ह्यार्तानामार्तिनाशनी ।

स्वर्गद्वारे स्थिता त्वं हि दयां कुरु मयीश्वरि

॥७॥

गङ्गोवाच

कुरुष्व विपुलं विन्ध्यं तपस्त्वं शङ्करं प्रति ।

ततः प्राप्स्यसि स्वं स्थानं पन्नगत्वं ममाज्ञया

॥८॥

श्रीमार्कण्डेय उवाच

ततोऽसौ त्वरितो विन्ध्यं नागो गत्वा नगं शुभम् ।

तपस्तप्तुं समारेभे शङ्कराराधनोद्यतः

॥९॥

नित्यं दध्यौ महादेवं त्र्यक्षं डमरुकोद्यतम् ।

ततो वर्षशते पूर्ण उपरुद्धो जगद्गुरुः ।

आगतस्तत्समीपं तु श्लक्ष्णां वाणीमुदाहरत्

॥१०॥

वरं वरय मे वत्स पन्नग त्वं कृतादर

॥११॥

वासुकिरुवाच

यदि तुष्टोऽसि मे देव वरं दास्यसि शङ्कर ।

प्रसादात्तव देवेश भूयान्निष्पापता मम ।

तीर्थं किंचित्समाख्याहि सर्वपापप्रणाशनम्

॥१२॥

ईश्वर उवाच

पन्नग त्वं महाबाहो रेवां गच्छ शुभंकरीम् ।

याम्ये तस्यास्तटे पुण्ये स्नानं कुरु यथाविधि

॥१३॥

इत्युक्त्वान्तर्दधे देवो वासुकिस्त्वरयान्वितः ।

रूपेणाजगरेणैव प्रविष्टो नर्मदाजलम्

॥१४॥

मार्गेण तस्य संजातं जाह्नव्याः स्रोत उत्तमम् ।

निर्धूतकल्मषः सर्पः संजातो नर्मदाजले

॥१५॥

स्थापितः शङ्करस्तत्र नर्मदायां युधिष्ठिर ।

ततो नागेश्वरं लिङ्गं प्रसिद्धं पापनाशनम्

॥१६॥

अष्टम्यां वा चतुर्दश्यां स्नापयेन्मधुना शिवम् ।

विमुक्तकल्मषः सद्यो जायते नात्र संशयः

॥१७॥

अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति सङ्गमे ।

ते लभन्ते सुताञ्छ्रेष्ठान् कार्त्तवीर्योपमाञ्छुभान्

॥१८॥

श्राद्धं तत्रैव यः कुर्यादुपवासपरायणः ।

कुर्वन्प्रमोचयेत्प्रेतान्नरकान्नृपनन्दन

॥१९॥

सर्पाणां च भयं वंशे ज्ञातिवर्गे न जायते ।

निर्दोषं नन्दते तस्य कुलं नागप्रसादतः

॥२०॥

एतत्ते सर्वमाख्यातं तव स्नेहान्नृपोत्तम

॥२१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनशततमोऽध्यायः ॥